Menu

Mahadevendra Sarasvati Shankaracharya Stuti

श्रीचन्द्रमौलीश्वराय नमः
मल्लादिदक्षिणामूर्तिविरचिता श्रीकाञ्चीकामकोटिपीठाधीशजगद्गुरुश्रीमहादेवेन्द्रसरस्वतीशङ्कराचार्यस्तुतिः

वीरासने समासीनं वटमूलनिवासिनम् ।
कराङ्कुचितचिन्मुद्रं दक्षिणामूर्तिमाश्रये ॥

ओंकारशब्दविदितः परमेश्वरो यः यत्कामपीठममलं समलञ्चकार ।
तत्पीठदेशिकवरेष्ववतंसभूतं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ १ ॥

श्रीविद्यया प्रथितदेशिकसार्वभौमात् श्रीचन्द्रशेखरमुनेरुपलब्धपीठम् ।
सत्यक्षमाशमदमादिगुणाभिरामं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ २ ॥

मध्यार्जुने निवसतो त्रृचिये विनीते शेषाद्रिशास्त्रिसुमतेः सुभगं तनूजम् ।
आबाल्य एव हि गृहीतसमस्तविद्यं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ३ ॥

शीतांशुचूडचरणप्रवणान्तरङ्गः वेदाखिलागमपुराणकदम्बकस्य ।
नेताऽद्वितीयसमितेः श्रितकोविदस्तं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ४ ॥

शंसन्ति यं बुधजनाः विदितागमान्ताः मध्यार्जुनस्य महिताद्भुतलिङ्गमूर्तेः ।
आविर्बभूव चरमूर्तिमनुं विभाव्य वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ५ ॥

भस्मत्रिपुण्ड्रविलसद्रमणीयफालं रुद्राक्षरत्नमणिभिर्विलसत्सुकण्ठम् ।
मन्दस्मितेन्दुवदने मनोज्ञदेहं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ६ ॥

गम्भीरवाक्यमणिभिर्बहुयुक्तियुक्तैः पाषण्डदर्पदमने निरतं मुनीन्द्रम् ।
आस्तिक्यधर्मपरिपालकमप्रमेयं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ७ ॥

सङ्गीतशास्त्रनिपुणं रसिकाग्रगण्यम् अद्वैतभाष्यकुशलेष्वमितादरं च ।
सन्मानवस्त्रवसुभिर्बुधरञ्जकोत्कं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ८ ॥

यः पञ्चषष्टिरमणीयसुहृद्यपद्यैः श्रीकामकोटिगुरुवंशपरंपरायाः ।
स्तोत्रं चकार कृपया जगतां हिताय वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ९ ॥

आसेतुविन्ध्यधरणीमहिता नरेन्द्राः यत्पादपद्ममनमन् विविधोपचारैः ।
धन्वा ययुः सुकृतिनो कृतकृत्यतां तंवन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ १० ॥

कर्णाटकान्ध्रद्रविडोल्कलकेरलादिनानाप्रदेशनिलया यमिह प्रणेमुः ।
एकात्मनाऽदिगुरुभावनया यति तं वन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ ११ ॥

अभ्यर्च्य पादकमलं कनकाभिषेकैः संपूजयच्च बहुधा नवसालराज्ये ।
श्रीरामचन्द्रनृपतिः गुरुचक्रवर्तिंवन्दे सुदर्शनमहाविबुधेन्द्रवर्यम् ॥ १२ ॥

सत्यात्मकाय समचित्तसमन्वितायसंसारतापशमनाय शुभङ्कराय ।
नारायणाश्रमवराय नतार्तिहायस्वामिन्नमोऽस्तु भवते गुरुशेखराय ॥ १३ ॥

प्राज्ञाय भेदरहिताय बुधार्चितायधीराय दीनभरणाय यमीश्वराय ।
श्रीकामकोटिनिलयाय सुदर्शनायस्वामिन्नमोऽस्तु भवते परमाद्वयाय ॥ १४ ॥

सत्वाकारं नदयहृदयं दर्शनीयं स्वरूपंविद्यालोलं विषयविमुखं वेदवेदान्तनिष्ठम् ।
पुण्यश्लोकं शशिधरपदाम्बोजयुग्मानुरक्तंवन्दे मान्यं गुरुवरमहादेवनाम्नाप्रशस्तम् ॥ १५ ॥

काञ्चीक्षेत्रे विदितविभवे कामकोटिप्ररूढे कामाक्षीसत्करुणपयसा वर्धिते कल्पवृक्षे ।
प्रागुद्भूताऽमृतफलमहो मूर्तवद्भासमानंवन्दे मान्यं गुरुवरमहादेवनाम्ना प्रशस्तम् ॥ १६ ॥

सकलभुवनयोगक्षेमहेतुप्रधानैःजपनियमतपोभिर्होमपूजादिभिश्च ।
विघविधनतिगानैः प्रीणयन् चन्द्रमौलिं गुरुरिह जगतां श्रीकामकोट्यां विरेजे ॥ १७ ॥

हृदि हृदि जनयन् वै वैदिकाचारसक्तिं पथि पथि मनुजानां पातयन् द्वैतमोहम् ।
दिशि दिशि निगमान्तं बोधयन्नद्वितीयंगुरुरिह जगतां श्री कामकोट्यां बभासे ॥ १८ ॥

हालास्यदिव्यनगरोत्तरपूर्वभागे कैलासनाथनिकटे सुजनाभिभूते ।
क्षेत्रे श्रमापहरणे च सुदर्शनार्यः सद्दर्शनाद्वयपदं परमं प्रपेदे ॥ १९ ॥

श्रीमध्यार्जुनलोकविश्रुतमहालिङ्गान्तरङ्गोह्यसौ
मेधावी बहुशास्त्रवित् सुकृतधीः श्री कामकोटीमटे ।
चत्वारिंशतमेष लोकगुरुराट् स्थित्वा यशस्वी विभुः
सिद्धिं प्राप सुमीनदर्शदिवसे वर्षे विरोधौ महान् ॥ २० ॥

बाल्ये श्रुतं पितृमुखात् गुरुवैभवं यत्
आनीय तत्स्मृतिपथं पुनरेव भक्त्या ।
प्रोक्तं वसन्ततिलकादिमनोज्ञवृतैः
नन्दन्तु सर्वसुजनाः गुरुभक्तिभाज:॥

ओम् तत्सत् ॥
इति मल्लादिदक्षिणामूर्तिविरचिता श्रीमहादेवेन्द्रसरस्वतीशङ्कराचार्यस्तुतिः संपूर्णा ॥
॥ श्रीगुरुचरणारविन्दाभ्यां नमः ॥