Menu

Advaitavakyanam Ashtottarashatam

॥ श्रीमच्छङ्करभगवत्पादप्रोक्तानाम् अद्वैतवाक्यानाम् अष्टोत्तरशतम् ॥

श्रीमध्यार्जुनक्षेत्रे “सत्यम् अद्वैतम्” इतिपरमेश्वरोद्घोषणाढ्ये प्रतिष्ठापितयोः श्रीभगवत्पादचरणारविन्दयोः अष्टोत्तरशतराङ्कवकम्बलैः अर्चने महापण्डितैः उद्घोषिताः श्रीभगवत्पाद-श्रीमन्मुखाम्बुजनिःसृत-भाष्याद्युद्धृत-ब्रह्माद्वयैकपरायणाः अष्टोत्तरशतं (नमस्कारान्त)सूक्तयः ॥

१९६३ लौकिकवर्षे ५०६५ वर्तमानकलौ शोभकृन्नामसंवत्सरे वृश्चिकमासे कृष्णपक्षे पञ्चम्यां शुभतिथौ गुरुवासरे पुष्यनक्षत्रयुते (१९६३-डिस-०५) श्रीकाञ्चीकामकोटिसर्वज्ञपीठाधिपैः जगद्गुरुश्रीचन्द्रशेखरेन्द्रसरस्वतीशङ्कराचार्यस्वामिभिः तदन्तेवासिवर्यजगद्गुरुश्रीजयेन्द्रसरस्वतीशङ्कराचार्यस्वामिभिश्च श्रीमद्भगवत्पाददिव्यपादौ उद्धृतहस्तमहालिङ्गप्रतिमा च मध्यार्जुनक्षेत्रगते शङ्करमठे प्रतिष्ठापितानि ॥

१) सर्वदा समैकरसम् अद्वैतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः ॥ बृहदारण्यकभाष्यम् – ४-४-६

२) सर्वात्मैकभावम् अद्वैतम् आपन्नाः सन्तो ब्रह्मैव भवन्ति ॥ केनोपनिषद्भाष्यम् – २-५

३) नित्यम् अद्वैतम् आत्मानं विजानाति तदा कः किं कुतो वा गोपायितुम् इच्छेत् ॥ कठोपनिषद्भाष्यम् – २-१-५

४) अस्माकम् अद्वैतदृष्टिः अभ्रान्तानाम् ॥ माण्डूक्यकारिकाभाष्यम् – अद्वैतप्रकरणे १८

५) अद्वैतं च उत्पत्तिप्रलयवचनं चेति विप्रतिषिद्धम् ॥ माण्डूक्यकारिकाभाष्यम् – वैतथ्यप्रकरणे ३२

६) अद्वयता अभया हि, अतः सैव शिवा ॥ माण्डूक्यकारिकाभाष्यम् – वैतथ्यप्रकरणे ३३

७) रज्जुवत् मायाविवच्च अद्वैतं परमार्थतः ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे १७

८) ज्ञाते परमार्थतत्त्वे द्वैतं न विद्यते ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे १८

९) अद्वये शिवे शान्ते सर्वे एकीभवन्ति ॥ मुण्डकभाष्यम् – ३-२-७

१०) अद्वयलक्षणं परमं साम्यम् उपैति ॥ मुण्डकभाष्यम् – ३-१-३

११) विद्यया स्वाभाविकः परिपूर्णः एकः आनन्दः अद्वैतः भवति ॥ तैत्तिरीयभाष्यम् – २-८-१

१२) न हि विश्वं नाम पुरुषाद् अन्यत् किञ्चिद् अस्ति ॥ मुण्डकभाष्यम् – २-१-१०

१३) मोक्षः परविद्याविषयः स्वात्मप्रतिष्ठालक्षणः परमानन्दः अद्वयः ॥ मुण्डकभाष्यम् – २-१-१

१४) इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे ३

१५) सर्वप्रपञ्चोपशमे अद्वैतसिद्धिः ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे ३

१६) शिवं यतः अद्वैतं भेदविकल्परहितम् ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे ७

१७) द्वैतप्रपञ्चोपशमे स्वस्थता अद्वैतभावः प्रयोजनम् ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे १

१८) ब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात् पुरुषार्थसिद्धेः ॥ ब्रह्मसूत्रभाष्यम् – १-४-४

१९) न हि एकत्वविज्ञानेन उन्मथितस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति ॥ ब्रह्मसूत्रभाष्यम् – १-४-४

२०) मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद् भवति ॥ ब्रह्मसूत्रभाष्यम् – १-४-४

२१) न अवगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् ॥ ब्रह्मसूत्रभाष्यम् – १-४-४-४

२२) प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात् परमेश्वराद् अन्यो द्रष्टा श्रोता वा ॥ ब्रह्मसूत्रभाष्यम् – १-१-६-१७

२३) वचनादिक्रियाव्यापृतस्यैव आत्मनः ब्रह्मत्वं दर्शयति ॥ ब्रह्मसूत्रभाष्यम् – १-१-११-३१

२४) न हि जीवो नाम अत्यन्तभिन्नो ब्रह्मणः ॥ ब्रह्मसूत्रभाष्यम् – १-१-११-३१

२५) न च सर्वस्य एकात्मत्वे रागादयः सम्भवन्ति ॥ ब्रह्मसूत्रभाष्यम् – १-२-१-१

२६) श्रुतिस्तु “नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता” (बृ॰उप॰ ३-७-१३) इत्येवंजातीयका परमात्मनोऽन्यम् आत्मानं वारयति ॥ ब्रह्मसूत्रभाष्यम् – १-२-१-६

२७) गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात् । ब्रह्मसूत्रभाष्यम् – १-२-१-६

२८) न हि परस्माद् आत्मनोऽन्यः कश्चिद् आत्मा संसारी विद्यते । ब्रह्मसूत्रभाष्यम् – १-२-१-८

२९) चेतनस्य क्षेत्रज्ञस्य अभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति । ब्रह्मसूत्रभाष्यम् – १-२-४-१२

३०) सर्वं ब्रह्मेति सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थम् ॥ ब्रह्मसूत्रभाष्यम् – १-३-१-१

३१) परमात्मनि हि सर्वात्मनि विज्ञाते सर्वम् इदं विज्ञातं स्यात् ॥ ब्रह्मसूत्रभाष्यम् – १-३-१-६

३२) यस्तु सर्वशरीरेषु उपाधिभिः विना उपलयते पर एव स भवति ॥ ब्रह्मसूत्रभाष्यम् – १-३-२-७

३३) जीवमेव शरीरात् समुत्थितम् उत्तमपुरुषं दर्शयति ॥ ब्रह्मसूत्रभाष्यम् – १-३-५-१९

३४) न परस्माद् ब्रह्मणोऽमृताभयस्वरूपाद् अन्यं जीवं दर्शयति ॥ ब्रह्मसूत्रभाष्यम् – १-३-५-१९

३५) प्रतिपाद्यं तु शास्त्रार्थम् आत्मैकत्वमेव दर्शयति ॥ ब्रह्मसूत्रभाष्यम् – १-३-५-१९

३६) तदत्र विज्ञानात्मनः परमात्मना एकत्वम् उपदिश्यते ॥ ब्रह्मसूत्रभाष्यम् – १-३-८-२५

३७) न च ब्रह्मणोऽन्यत् नामरूपाभ्याम् अर्थान्तरं सम्भवति ॥ ब्रह्मसूत्रभाष्यम् – १-३-१२-४१

३८) श्रुतिर्हि वैदिकाद् आत्मैकत्वविज्ञानाद् अन्यत् निःश्रेयससाधनं वारयति ॥ ब्रह्मसूत्रभाष्यम् – २-१-२-३

३९) स्वयं प्रसिद्धं ह्येतत् शारीरस्य ब्रह्मत्वम् उपदिश्यते ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

४०) ब्रह्मात्मभावस्य अनवस्थाविशेषनिबन्धनत्वात् ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

४१) एकत्वम् एवैकं पारमार्थिकं दर्शयति ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

४२) अन्त्यम् इदं प्रमाणम् आत्मैकत्वस्य प्रतिपादकम् ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

४३) कूटस्थब्रह्मात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

४४) परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

४५) परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिसम्बन्धपरिकल्पितस्वरूपव्यतिरेकेणास्ति ॥ ब्रह्मसूत्रभाष्यम् – २-३-१३-३०

४६) ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् ॥ ब्रह्मसूत्रभाष्यम् – ३-२-५-२१

४७) ब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणात् ॥ ब्रह्मसूत्रभाष्यम् – ३-२-७-३०

४८) सर्वान्तरश्रुतेश्च न परमात्मनोऽन्यः अन्तरात्मा अस्तीत्यवधार्यते ॥ ब्रह्मसूत्रभाष्यम् – ३-२-७-३६

४९) सम्यग्दर्शनकालम् एव तत्फलं सर्वात्मत्वं दर्शयति ॥ ब्रह्मसूत्रभाष्यम् – ३-३-१९-३२

५०) पारमेश्वरं हि शारीरस्य पारमार्थिकं स्वरूपम् ॥ ब्रह्मसूत्रभाष्यम् – ३-४-१-८

५१) संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितम् ॥ ब्रह्मसूत्रभाष्यम् – ४-१-२-३

५२) भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभावः ॥ ब्रह्मसूत्रभाष्यम् – २-१-६-१४

५३) देहाद्यात्मप्रत्ययतिरस्कारेण अक्षरैकात्मत्वं फलम् आपादयेत् ॥ मुण्डकभाष्यम् – २-२-४

५४) तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणं फलम् ॥ मुण्डकभाष्यम् – ३-१-१०

५५) आत्मन एवेदं सर्वम् आत्मैव च सर्वम् ॥ ईशभाष्यम् – १

५६) सर्वात्मभाव एव सर्वैषणासन्न्यासज्ञाननिष्ठाफलम् ॥ ईशभाष्यम् – १४

५७) सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदान्तानां सुनिश्चितोऽर्थः ॥ केनोपनिषद्भाष्यम् – २-१

५८) न हि आत्मानम् अवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्तिं प्रयोजनवतीं पश्यति ॥ केनोपनिषद्वाक्यभाष्यम् – १

५९) स चात्मभूतः सर्वस्य ॥ केनोपनिषद्वाक्यभाष्यम् – ३-१

६०) ईश्वराद्भिन्नलक्षणाः आत्मानो न सन्ति ॥ केनोपनिषद्वाक्यभाष्यम् – ३-१

६१) अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्धमेकत्वम् ॥ केनोपनिषद्वाक्यभाष्यम् – ३-१

६२) ज्ञानस्य ह्येषा परा निष्ठा यदात्मैकत्वविज्ञानम् ॥ कठभाष्यम् – १-२-८

६३) परमार्थतः अनुपाधिकृतं च तत्त्वम् एकम् एव अद्वितीयम् उपादेयम् ॥ प्रश्नभाष्यम् – ६-३

६४) न च तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वा स्यात् ॥ प्रश्नभाष्यम् – ६-३

६५) सर्वस्य प्रत्यगात्मत्वात् अवगतिरेव गतिरुच्यते ॥ कठभाष्यम् – १-३-१२

६६) सर्वव्याप्येक एवात्मा जगतः ॥ कठभाष्यम् २-२-२

६७) तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यम् अत्यन्तविशुद्धम् अद्वैतम् ॥ बृहदारण्यकभाष्यम् – २-१-१९

६८) अविद्याकृते भेदभावे प्रविनाशिते इदम् एकम् अद्वैतम् ॥ बृहदारण्यकभाष्यम् – २-४-१२

६९) रज्जुः अद्वया सत्या च, एवं तुरीयः ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे १०

७०) सर्वद्वैतोपशमत्वादेव शिवः ॥ माण्डूक्यकारिकाभाष्यम् – आगमप्रकरणे २९

७१) अद्वैतमेव सत्यं त्वं विद्धि ॥ तत्त्वोपदेशः ५०

७२) सदिदं परमाद्वैतम् ॥ विवेकचूडामणिः २२८

७३) अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥ विवेकचूडामणिः ५७५

७४) द्वैतं नो सहते श्रुतिः ॥ विवेकचूडामणिः ५७२

७५) ब्रह्मानन्दं परम् अद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः ७८९

७६) अद्वैतमेव सत्यं तस्मिन् द्वैतं नसत्यम् अध्यस्तम् ॥ स्वात्मनिरूपणम् ५१

७७) आरोपणं न शून्ये तस्माद् अद्वैतसत्यता ग्राह्या ॥ स्वात्मनिरूपणम् ५३

७८) श्रुत्या प्रतिपादनीयम् अद्वैतम् ॥ स्वात्मनिरूपणम् ५४

७९) प्रकृतं परमात्मरूपम् अद्वैतम् ॥ स्वात्मनिरूपणम् ६४

८०) किं पारमार्थिकं स्याद्? अद्वैतम् ॥ प्रश्नोत्तररत्नमालिका ६०

८१) अवस्थात्रयातीतद्वैतम् एकम् ॥ स्वरूपानुसन्धानम् ५

८२) अद्वैत ब्रह्मणि स्थेयं प्रत्यग् ब्रह्मात्मना सदा ॥ तत्त्वोपदेशः ४८

८३) कदाऽद्वैतं पश्यन् निखिलमपि सत्यं शिवमयम् ॥ जीवन्मुक्तानन्दलहरी १६

८४) सत्यं ब्रह्माद्वितीयम् एवाहम् ॥ विवेकचूडामणिः ४९५

८५) सुखचिदखण्डविबोधम् अद्वितीयम् ॥ मायापञ्चकम् ३

८६) अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः ८९२

८७) स एष भुङ्क्तेऽद्वयानन्दम् ॥ प्रबोधसुधाकरः १३२

८८) तद् अद्वैतं रूपं निजपरविहीनम् ॥ जीवन्मुक्तानन्दलहरी १३

८९) समाश्लिष्टकायत्रयोऽप्यद्वितीयः शिवोऽहम् ॥ निर्वाणमञ्जरी ३

९०) न शून्यं न चाशून्यम् अद्वैतकत्वात् ॥ दशश्लोकी १०

९१) किं स्यात् पुनः संसरणस्य बीजम् अद्वैतभावं समुपेयुषोऽस्य ॥ विवेकचूडामणिः ३४८

९२) ब्रह्माद्वैतं यत् तदेवाहम् अस्मि ॥ विवेकचूडामणिः ५१४, ५१५, ५१६

९३) अद्वैतानन्दभरात् किमिदं कोऽहं च कस्याहम् ॥ प्रबोधसुधाकरः १५१

९४) मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ अद्वैतपञ्चरत्नम् ५

९५) सुखरूपं चिदद्वैतम् ॥ तत्त्वोपदेशः ४९

९६) एकमेवाद्वितीयं ब्रह्मणो नोह किञ्चन ॥ ब्रह्मानुचिन्तनम् २८

९७) अद्वितीये परे तत्त्वे व्योमवत् कल्पना कुतः ॥ विवेकचूडामणिः ५७५

९८) ब्रह्मास्ति सत्यं परम् अद्वितीयम् ॥ विवेकचूडामणिः २६७

९९) तद् अद्वैतं समत्वात्तु नित्यं चान्यद् विकल्पितम् ॥ उपदेशसाहस्री पार्थिवप्रकरणे ३३

१००) आनन्दमात्रम् अवभाति सद् अद्वितीयम् ॥ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः ७७१

१०१) आस्ते अद्वैते अतिनिर्भयः ॥ सर्ववेदान्तसिद्धान्तसारसङ्ग्रहः ९६५

१०२) यत् पदं विमलम् अद्वयं सदा तत् सदाऽहम् इति मौनम् आश्रये ॥ स्वात्मप्रकाशिका ४४

१०३) स्वभावशान्तम् अद्वैतदर्शनमेव सम्यग्दर्शनम् ॥ माण्डूक्यकारिकाभाष्यम् – अद्वैतप्रकरणे १७

१०४) इदं तु परमार्थतत्त्वम् अद्वैतं वेदान्तेष्वेव विज्ञेयम् ॥ माण्डूक्यकारिकाभाष्यम् – अलातशान्तिप्रकरणे ९९

१०५) हितैषिणा वेदेन उपदिष्टम् आत्मैकत्वदर्शनं शान्तदर्पैः आदरणीयम् ॥ कठभाष्यम् – २-१-१५

१०६) एनम् आत्मानं निरस्तसमस्तप्रपञ्चं संराधनकाले पश्यन्ति योगिनः ॥ ब्रह्मसूत्रभाष्यम् – ३-२-६

१०७) तस्माद् विदुषः ऐकान्तिकी कैवल्यसिद्धिः ॥ ब्रह्मसूत्रभाष्यम् – ३-३-१

१०८) अद्वैतदर्शनसम्प्रदायकर्तुः अद्वैतरूपेणैव नमस्कारः ॥ माण्डूक्यकारिकाभाष्यम् – अलातशान्तिप्रकरणे १

॥ ॐ तत् सत् ॥

नमो वेदान्तवेद्याय वेदान्तज्ञानदायिने ।
वेदान्तज्ञाननिष्ठानां स्वरूपानन्ददायिने ॥

श्रीमध्यार्जुनक्षेत्रमाहात्म्यम् ॥