Menu

Vedanta-Shanti-Patha

वेदान्त-शान्ति-पाठः

[सर्वे वस्त्रावगुण्ठितशरीरा: पठेयुः।]

शिव-नामनि भावितेऽन्तरङ्गे
महति ज्योतिषि मानिनीमयार्धे ।
दुरितान्यपयान्ति दूरदूरे
मुहुरायान्ति महान्ति मङ्गलानि ॥

स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥

(१) ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(२) ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(३) ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव ।
स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ।
ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(४) ॐ अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणꣳ सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(५) ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(६) ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् ।
अनिराकरणमस्त्वनिराकरणं मे अस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(७) ॐ वाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य म आणीस्थः ।
श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारमवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(८) ॐ भद्रं नो अपिवातय मनः ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(९) ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।
व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥

(१०) ॐ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

[ततः किञ्चिद् भाष्यं पठेयुः ।
अनन्तरं दक्षिणामूर्तिस्तोत्रं देहं प्राणमपीत्यन्तं पठन्तः प्रतिश्लोकं नमस्कुर्युः ।]

विश्वं दर्पण-दृश्यमान-नगरी-तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया ।
यः साक्षात्कुरुते प्रबोध-समये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
माया-कल्पित-देश-काल-कलना-वैचित्र्य-चित्री-कृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात् तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद् भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥

नाना-च्छिद्र-घटोदर-स्थित-महा-दीप-प्रभा-भास्वरं
ज्ञानं यस्य तु चक्षुरादि-करण-द्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत् समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्री-बालान्ध-जडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
माया-शक्ति-विलास-कल्पित-महाव्यामोह-संहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥

[तत इमान् श्लोकान् पठन्तः प्रतिश्लोकं नमस्कुर्युः।]

(१) श्रुति-स्मृति-पुराणानामालयं करुणालयम् ।
नमामि भगवत्पादं शङ्करं लोक-शङ्करम् ॥

(२) शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्र-भाष्य-कृतौ वन्दे भगवन्तौ पुनः पुनः ॥

(३) नारायणं पद्मभुवं वसिष्ठं
शक्तिं च तत्पुत्र-पराशरं च ।
व्यासं शुकं गौडपदं महान्तं
गोविन्द-योगीन्द्रमथास्य शिष्यम् ॥
श्रीशङ्कराचार्यमथास्य पद्म-
पादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्तिककारमन्यान्
अस्मद्गुरून् सन्ततमानतोऽस्मि ॥

(४) शङ्कराश्लेष-विलसदानन्दामृत-निर्भराम् ।
विश्वोत्तंसित-पादाब्जां ब्रह्मविद्यां विभावये ॥

(५) वेदान्त-निकुरुम्बेण तात्पर्येण प्रकाशितः ।
स्वात्मानन्दैकरस्येन कल्याणाय शिवोऽस्तु नः ॥

[भाष्यश्रवणानन्तरं पुनः दश शान्तीः पठेयुः। तत्र प्रथममन्त्रस्य उत्तरशान्तिपाठः पठनीयः।]

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद् वक्तारमावीत् ।
आवीन्माम् । आवीद् वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥

[ततः अन्याः शान्तयः यथापूर्वं पठनीयाः।]

(२) ॐ सह नाववतु । …

(३) ॐ यश्छन्दसामृषभो …

(४) ॐ अहं वृक्षस्य रेरिवा । …

(५) ॐ पूर्णमदः पूर्णमिदं …

(६) ॐ आप्यायन्तु ममाङ्गानि …

(७) ॐ वाङ् मे मनसि प्रतिष्ठिता । …

(८) ॐ भद्रं नो अपिवातय मनः । …

(९) ॐ भद्रं कर्णेभिः शृणुयाम देवाः । …

(१०) ॐ यो ब्रह्माणं विदधाति पूर्वं …

[ततः दक्षिणामूर्तिस्तोत्रे अवशिष्टान् श्लोकान् पठन्तः यथापूर्वं प्रतिश्लोकं नमस्कुर्युः ।]

राहु-ग्रस्त-दिवाकरेन्दु-सदृशो माया-समाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत् सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोध-समये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥

बाल्यादिष्वपि जागृदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥

विश्वं पश्यति कार्य-कारणतया स्व-स्वामि-सम्बन्धतः
शिष्याचार्यतया तथैव पितृ-पुत्राद्यात्मना भेदतः ।
स्वप्ने जागृति वा य एष पुरुषो माया-परिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत् किञ्चन विद्यते विमृशतां यस्मात् परस्माद् विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात् तदर्थमननाद् ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्व-महाविभूति-सहितं स्यादीश्वरत्वं स्वतः
सिध्येत् तत् पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥

[तत इमान् श्लोकान् पठन्तः यथापूर्वं प्रतिश्लोकं नमस्कुर्युः।]

(१) वट-विटपि-समीपे भूमि-भागे निषण्णं
सकल-मुनि-जनानां ज्ञान-दातारमारात् ।
त्रि-भुवन-गुरुमीशं दक्षिणामूर्ति-देवं
जनन-मरण-दु:ख-च्छेद-दक्षं नमामि ॥

(२) चित्रं वट-तरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्न-संशया: ॥

(३) अङ्गुष्ठ-तर्जनी-योग-मुद्रा-व्याजेन देहिनाम् ।
श्रुत्यर्थं ब्रह्म-जीवैक्यं दर्शयन्नोऽवताच्छिवः ॥

प्रदोष-मङ्गल-पाठ:

[महाप्रदोष-दिने प्रातः कर्तव्यम् इदम् । पूर्वोक्त-उत्तर-शान्ति-पाठात् परं भगवत्पाद-पूजां कृत्वा इमान् श्लोकान् पठेयुः ।]

(१) अशुभानि निराचष्टे तनोति शुभसन्ततिम् ।
स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं परम् । (त्रिः)

(२) अतिकल्याण-रूपत्वान्नित्य-कल्याण-संश्रयात् ।
स्मर्तॄणां वरदत्वाच्च ब्रह्म तन्मङ्गलं परम् ॥ (त्रिः)

(३) ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ (त्रिः)

ॐ अथ (त्रिः)