Menu

श्रीमदखिलाण्डेश्वरीताटङ्कप्रतिष्ठामहोत्सवचम्पूः-Tamil-6

षष्ठस्तबकः 

षष्ठस्तबकः

क्षेत्रे वसन्तोत्र च जम्बुनाथ-
पूजारताः आर्यजनाः समस्ताः । 
अवाप्य गुर्वन्तिकमादरेण 
प्रणम्य लब्ध्वास्तदनुग्रहं परम् ॥ १ ॥ 

ततः सकुतुकाः समे प्रथितजम्बुनाथालयं 
प्रपद्य विधिवत्क्रियां परिसमाप्य पूर्वां ततः । 
परां च महतीं क्रियां कलयितुं यथावत्क्रमात् 
ययुर्यजनवाटिकां निखिलवस्तुपूर्णां शुभाम् ॥ २ ॥ 

अपेक्षितं यदा यद्यत्तेन तेन प्रपूरिताम् । 
यागशालामवाप्यैते  चारभन्त यथाविधि ॥ ३ ॥ 

आमकरमासादारभ्य सर्वत्र पत्रिकया प्रकटिततया ऋग्यजुःसामाख्येषु निगमेषु तत्तदवान्तरशाखासु च ये ये प्रवीणा आचेन्ननगरप्रान्तात् आचरामसेतोः आपश्चिमोदधेः आचकलिकातानगर्याः राजमानग्रामनगराण्यालङ्कुर्वन्ति, ते सर्वेऽपि श्रौत्रार्हन्तीचणाः सानन्दं श्रीगुरुवरचरणसेवनास्थया समागमन् । 

प्रत्येकं निपुणैः परीक्षणविधौ क्लृप्तैर्महापण्डितैर्-
मर्यादापरिपालनाय निगमे प्रष्टे मनाक् कुत्रचित् ।
सम्यक्केचिदवादिषुः पटुधियस्तस्मिन्घनान्तं तथा 
केचित्तत्र पदान्तमूचुरपरे चाहुः क्रमान्तं तथा ॥ ४ ॥ 

द्वेधा विभज्य निहिताः शशिशेखरस्य 
तद्योषितश्च महिते किल सन्निधौ ते ॥  ५ ॥ 

तर्के व्याकरणे च जैमिनिकृते तन्त्रे च वैय्यासिके
वेदाङ्गेषु परेषु च स्फुटतरप्रज्ञाविशेषोज्वलाः ।
काव्यालङ्करणेषु चारु सदुपन्यासेषु दक्षाः परं 
विद्वांसः समभूषयन्हि बहवः क्षेत्रं तदत्यद्भुतम् ॥ ६ ॥ 

यत्र यत्र स्थिता देशिकेन्द्रे भृशं 
भक्तियुक्ता जनाः शिष्यभूताः स्वयम् । 
आगतैः सादरं चाखिलाण्डेश्वरी 
क्षेत्रवर्यन्तदातैरभूत्सङ्कुलम् ॥ ७ ॥ 

पूर्वमेव श्रीजगद्गुरुसार्वभौममहितानुग्रहपात्रीभूतः श्रीपरदेवताताटङ्कपरिष्करणाय स्वीयप्रार्थनानुरूपं देशिकेन्द्राद्गृहीतानु- मतिः सदाशिवठाकरभिधः महीसुधाशनतिलकः श्वेतनीलहरितारुणादि निर्दोषानर्घरत्नवरनिकरविरचितेन सन्तताचञ्चलवर्तुलविलसद्विद्युत्तति तेजच्छटापरिहसनबद्धदीक्षेण भवदीय इत्यविजानता मूढमतिना मत्सुतेन धर्मेण मुनिकुमारे कृतचेष्टाया अनुरूपं फलमलंभि इतः परं जागरूकेण भवितव्यमिति सम्यक् मयापि शिक्षितः हे देवि करुणानिधे तव भर्तुर्निकटे सुसमये निवेद्य विहाय कोपं तच्चरणपरिचर्यापरान्यतमत्वेनायमपि स्वीकरणीय इति रहसि श्रीपरदेवताकर्णयुगले कथयितुमागतेनेव दिनोदयराजमानराजीवजीवातुबिम्बेन श्रीचक्ररूपताटङ्ककवचद्वयेन साकं सपरिवारः समागत्य श्रीगुरुचरणसन्निधौ प्रणामपुरस्सरं तत्ताटङ्कभूषणं समार्पिषत् । 

प्रभातभानुभानुनायुतां निशेश्वरत्विषं 
परीहसन्निजप्रभाभरेण भूषणं वरम् ।
महेश्वरीपदोत्थभक्तिमस्य बोधयद्दृढां 
विलोक्य लोकदेशिकोऽभजन्मुदं परां विभुः ॥ 

सद्यो यथा विधिपरिष्करणीयशेष- 
कृत्यं प्रसिद्धविदुषाशु च कारयित्वा ।
श्रीचन्द्रमौलिसविधे शुभमुहूर्ते 
कृत्वार्चयद्गुरुवरः किल भूषणं तत् ॥ ९ ॥ 


शिवेन च यथा पुरा प्रथितकीर्तिनाङ्गीकृतं 
तथा सकलवस्तुभिर्नवनवागतैः पूरितम् । 
अवाप्य सदनोत्तमं स कुतुकं प्रदत्तं तदा 
समागतजनालये सुरुचिरं महद्भोजनम् ॥ १० ॥

आदराद्भोक्तृलोकान्तिकं सागत- 
श्लाघ्यभक्ष्यादिकं खादखादेति च ।
यावदिष्टं ददौ कष्टतो माममे- 
त्याहुरास्थाभृतोऽप्याशु पूर्णोदराः ॥ ११ ॥ 

सर्वांश्च वर्णानपि तत्र काले 
मृष्टान्नदानेन विभुः शिवोऽसौ । 
यथेष्टमाराध्य भृशं ह्यतोषय- 
न्नवर्णमेकं न कदापि मेने ।। १२ ।। 

दिनमनुसनियमजपपरभूसुरनिकरस्य पण्डितानां च ।
पावनभोजनदानं कार्यं मठ इति गुरूत्तमाज्ञातः ॥ १३ ॥

तत्तादृक्गुरुसार्वभौमविलसच्छ्रीमन्मठेऽप्यादरादाप्रातर्दिवसावसानसमयं चारात्रिघण्टैककम् । ये ये यद्यदपेक्ष्य भोजनकृते शास्त्राविरोधं जना आगच्छन्ति समाप्नुवन् हि निखिलास्तत्तत्समस्तं व्रतम् ।। 

अपि च, 
सङ्घान्नेषु निरादरानियमिनो ये वैदिकाः पण्डिताः 
प्रत्येकं नियमस्य योग्यममलं तेषां च दत्वा गृहम् । 
तत्तद्वासिबुधौघयोग्यमखिलं सर्वाधिकार्यादरात् 
प्रादाद्धृत्यमुखेन नित्यमपि तत्प्रश्नं विनैव स्वयम् ॥ 

किं च, 

ये लौकिका भक्तियुता नितान्तं 
समागता श्रीगुरुपादसेवया ।
तेषां सुखायोचितमत्र यत्तत्- 
सज्जीकृतं सर्वमपि क्षणेन ॥ १६ ॥ 

एवं तत्तज्जनापेक्षितानि निवासयोग्यानि मनोहराणि स्थानानि अन्यान्यपि यावन्ति सौकर्याणि कर्तव्यानि तानि सर्वाण्यपि सम्यक विरचितानि आलयविराजमानवैभवान् भोजनशालां पण्डितगोष्ठ्यादीनि च विलोक्य एतदुत्सवदर्शनास्थयागतानां ग्रामीणजनानामेवं सल्लापः समुदभूत् । विश्वनाथाभिधः कश्चित् – सखे सुन्दरक, श्रीमदखिलाण्डेश्वरीमन्निधौ यजुर्वेदमन्त्रपारायणपराणां वसुधागीर्वाणगणानां सन्दर्शनेन महानानन्दो जायते मम । 

तथाहि, 

ह्रस्वाद्यैर्विमलस्वरैः सह गुणैर्युक्तैरुदात्तादिभि 
र्व्याप्तैः स्पष्टविराजमानमहितस्थानोद्भवैस्तादृशैः ।
वर्णैरागममन्त्रमादरभरेणोच्चारयन्तः स्थिता 
शब्दब्रह्ममया इव प्रकलयन्त्येते न केषां मुदम् ॥ 

प्राचीभागं विमलचरिताः सामगा भूषयन्तः 
साम्नां सप्तस्वरकृतविभागोज्ज्वलैश्चारुगानैः ।
प्राप्तानां ते हृदयमखिलाण्डेश्वरीदर्शनाय 
द्रागानन्दाभिधजलनिधौ मज्जयन्ते नितान्तम् ॥

महेशगृहिणीलसन्महिमवर्णने तत्परैः 

क्रमेण बहुभिर्बुधैरिह च पठ्यमानैर्मुदा ।
पुराणनिचयैरिदं स्थलवरं जनैरावृतं 
विभाति मुनिवेष्टितं वनमिवाधुना नैमिशम् ॥ 

अपर आह 

दृश्यं सर्वमनित्यमेतदिति च स्पष्टं सदृष्टान्तकं 
संबोध्यान्यमतानि साधुवचनैर्विद्रावयन्तो भृशम् ।
अद्वैतं परमेकमौपनिषदा ग्रन्था वदन्तोऽमलं 
पठ्यन्ते विबुधोत्तमैः कतिपयैर्देवीप्रसादाप्तये ।। २० ।। 

अपि च, 

दिनमनुनियमाढ्याः सात्विकाहारयुक्ता 
बहव इह महान्तः पञ्चदश्यादिमन्त्रान् ।
परमशिववधूटीप्रीतिहेतून्पवित्रान् 
सहजविपुलभक्त्या निश्चलाङ्गा जपन्ति ॥२१| 

किं च,

आजानसिद्धगिरिजापदभक्तिभाज- 
स्तालादिवाद्यधरभागवताः समस्ताः ।
रम्यैर्निजैर्भगवतीगुणबोधदक्षै- 
राकर्षयन्ति निखिलानपि तत्र गीतैः ।। २२ ।। 

इति श्रीजम्बुनाथालयविराजमानां सकलविबुधपङ्क्तिं सभक्तिश्रद्धं संसेव्य श्रीमदम्बिकादर्शनार्थमन्तर्गमनसमये अग्रे आयान्तमात्रेयनामानं सुहृदं पश्यन् सखे आत्रेय कस्मादागच्छसि इत्यपृच्छत् । 

आत्रेयः – अधिचन्द्रमौलीश्वरसदनं श्रीजगद्रुमहास्वामिसनिधौ पण्डितमण्डलीभिरारब्धम् अधःकृतामृतरसं शास्त्रवाक्यार्थं श्रुत्वानन्दतुन्दिलितमनाः तस्मादेवायामि । 
अन्यः – कुत्र कुत्र शास्त्रे वाक्यार्थो वर्णितः ? 
आत्रेयः तर्के व्याकरणे च जैमिनिकृते तन्त्रे च वैयासिके 
विद्यार्थिप्रवरैः प्रसिद्धविबुधैः श्रीदेशिकेन्द्राऽन्तिके ।
तत्तत्प्रश्नसमर्पितोत्तरयुतो गीर्वाणवाण्या मुदा 
वाक्यार्थोऽखिललोकभूषितसदस्यत्यद्भुतोऽवर्णि हि ॥ 

अन्यः – संस्कृतभाषया विबुधनिवहाधिकानन्दजनके शास्त्रीयवाक्यार्थे सम्यक्चलत्यपि सामान्यजनानाम् अयमुच्चैर्व्यवहरति अयं वेगेन वदतीति परं ज्ञातुं शक्यते न तु शास्त्रीयविषयगौरवम् । 
आत्रेयः – भवदुक्तप्रकारेण स्थूलदृष्ट्यैव किञ्चित्किचित् ज्ञातुं शक्यते न तु विशेषतः अथापि श्रीजगद्गुरुमहास्वामिनामाज्ञया  सर्वजनोपकाराय प्रतिदिनं सायं सप्तमघण्टाया उपरि आनवमघण्टं तत्र समागतविद्वद्बृन्देषु ये प्रधानभूताः तेष्वेकैको द्राविडभाषया शास्त्रीयसरससदुपन्यासं करोति तच्छ्रवणेन सकला आनन्दाम्बुनिधौ निमग्ना भवन्तीति न्यवेदयत् । 
अन्यः – अहो अवाङ्मनसगोचरस्ताटङ्कप्रतिष्ठामहोत्सवमहिमा । 

तथा हि, 

साम्नां गानैर्यजुरुरुजपैः पूतऋग्वेदमन्त्रै- 
रन्यैर्मन्त्रैरपि च पठनैः सत्पुराणव्रजानाम् ।
नानाशास्त्रप्रथितविषयैर्गीतवाद्यैर्विभान्ती 
कस्यानन्दं जनयति न सा सन्निधिर्लोकमातुः ॥ 

सखे अन्तर्गत्वा श्रीमदखिलाण्डेश्वरीदर्शनं विधाय श्रीमठंप्रति गच्छावः इति उभावपि श्रीपरदेवतादर्शनवन्दनादिकं यथाविधि कृत्वा तस्माच्छ्रीजगद्गुरुमठमवापतुः । 
आत्रेयः- सखे कौण्डिन्य वैदिकब्राह्मणानां नियमेनात्र भोजनशालानिर्मितेति श्रूयते कुत्र सा ? 
कौण्डिन्यः – अत्र मण्डपे निष्कुटे च ।
आत्रेयः – इदानीं भोजनसमय एव भवेत् तत्र गत्वा 
सम्यक् पश्याव इति द्वावपि अन्तरयासिष्टाम्। 
कौण्डिन्यः- परितो विलोक्य सखे अत्यद्भुताः संपादिता भोजनसामग्र्यः । तथाहि, 

कान्त्या निजेन धवलेन च मार्दवेन 
द्रोणोज्लत्कुसुमसद्रुचिमार्दवे च ।
सन्तर्जयद्विमलजीरकशालिराज 
दन्नं समस्तदिशमध्यमलीकरोति ॥ २५ ॥

बालावनीधरोद्भवसुमधुरकदलीफलानि सर्वेभ्यः । 
प्रीत्या ददाति तावद्यावन्मामेति नोदभूच्छब्दः ॥ 
गोधूमाज्यसुशर्करादिकलितं नानाप्रभेदोज्वलं 
भक्ष्यं स्वादुतमं स्वदुर्लभतरं वीक्ष्यास्थया तादृशा । 

स्वीयेमत्रवरे बहूनि कुतुकात्सङ्गृह्य भक्ष्याणि ता-
न्यत्तुं मोक्तुमपि प्रहीणधृतिकः कश्चिदभृशं खिद्यते ॥ 

तिलान्नमुद्गोदनशर्करान्न 
श्रीनारिकेलानमुखौदनानि । 
स्वादूनि सर्वाण्यपि तानि भोक्तुं 
नास्तेऽवकाशोऽन्तरिति ब्रुवन्ति ॥ २८ ॥ 

नित्यं नाकिगणा अदन्ति कुतुकाल्पीयूषरुच्युज्वलं 
मां भूनाकिगणा अपीह समये तुष्यन्तु शुक्त्वा भृशम् । 
इत्येवामृतरुक्सपर्पट इति व्याजेन नैजात्मना 
प्रत्येकं वसुधासुरानकलयत्तृप्तान् समस्तानपि ॥ २९ ॥ 

केचिच्छोष्यं परमिति परे चोदनं भक्ष्यमन्ये 
प्रेम्णा दानं सततमितरे केचिदाज्यं सुगन्धि । 
इत्थं स्वस्वप्रियतरपदार्थं भृशं श्लाघयन्तः 
भुक्त्वैकान्ते कुतुकभरिताः सर्वलोका अभूवन् ॥३०॥

प्रतिदिनमपि माकीं भूसुराणां सहस्र-
त्रयमनितरबाधं भक्ष्यभोज्यादिपूर्णम् ।
सुरुचिरमिह भुक्त्वा भोजनं सेवते तं 
गुरुवरमखिलाण्डस्येश्वरीं तत्पतिं च ।। ३१ ।। 

अपरेद्युः श्रीपरदेवताताटङ्कप्रतिष्ठामहोत्सवदर्शनायेव झटिति समागते सुमुहूर्ते आवारात् एतदुत्सवावलोकनाभिलाषया स्वस्व-कुटुम्ब-कृत्यमवश्यकर्तव्यमप्यविगणय्य महता
कोलाहलेनाभिषेकसमयं प्रतिपालयद्भिः नानादेशसमागतजननिवहः कवचीकृतेषु आलयस्योपरिभागेषु गोपुरेषु प्राकारेषु तदावरणभित्तिषु अन्तस्थितमण्डपनिचयेषु च, महाभिषेकद्योतकनालकगम्भीरशब्दैः व्याप्तेषु सर्वदिगन्तेषु राजकीयजनरक्षकाधिकारिवगैरलङ्कृतेषु तत्र तत्र मार्गेषु, वाद्यमानेष्वनेकविधमङ्गलवाद्यकदम्बेषु गीयमानेषु भागवतगोष्ठीभिः तालमद्दलादिवाद्यैः साकं पवित्रतरमनोहरादिदम्पतिपुण्यचरितेषु सङ्घमध्यगमनाशक्तैः वृद्धरोगिबालकादिजनैश्च भूषितेषु तत्तद्गृहसौधेषु, सानन्दं निगमपारायणपरेषु धरणीगीर्वाणगणेषु, कुत्रचित् अव्याजविधृतपारमेश्वरभक्तिभरैर्भस्मालङ्कृतशरीरैः शैवसङ्घैः सतालवाद्यं गीयमानेषु द्राविडप्रबन्धेषु, तत्र  तत्र धूपितागरुगुग्ल्वादिगन्धद्रव्यधूमधूम्राणि नीलनीरदकवचितानीव विलसितानि गगनतलान्यालोक्य नर्तनपरेषु मयूरकुलेषु, आजगद्गुरुमठात् आचाखिलाण्डेश्वर्यालयात मध्ये किञ्चित् मार्गं विहाय पार्श्वद्वयेऽपि क्रमेण राजमानेषु करितुरग- पदातिछत्रचामरतोरणादिविरुदनिवहेषु, प्रागुद्दिष्टमुहूर्ते कुम्भाभिषेकोत्सवकरणाय पूर्वमेत्र यथाविधि सर्वमपि कृत्यं निर्वत्य श्रीमहास्वाम्यागमनं प्रतिपालयत्सु तदालयपूजानियुक्तेषु पण्डितेषु, श्रीलोकगुरुवरोऽपि निजास्थानात् श्रीपरदेवतासन्निधिगमनाय
वहिर्निरगात् । 

आयाति आगमिष्यतीति तत्र स्थितजनसमूहैः विरचितैः कोलाहलरवमुखरितेषु निखिलदिङ्मुखेषु, श्रीजगद्गुरुमहास्वामिनः तद्दिनारम्भकालोचितं सकलमपि निजं नियमं विधिवत् विधाय श्रीत्रिपुरसुन्दर्या साकमाराधिताखिलण्डनायिकातेज इव मूर्तिमत् कान्तिमयमिव सर्वतः कुर्वाणम् अत्यद्भुतमदृष्टपूर्वमासेचनकमक्ष्णां तत्तादृशं श्रीचक्रताटङ्कयुगलं सादरं स्वहस्ताभ्यां परिगृह्य श्रीमठीयसर्वाधिकारिप्रभुवरप्रमुखैः पुरो गत्वा सन्दर्शितसरणयः पार्श्वद्वयावेधृतमहाश्वेतच्छत्राः पुरोभागे संवीज्यमानधवलचामराः श्रीमठान्निर्गत्य अनेकसहस्रजनकदम्बनिबिडिततया निश्वसितुमप्यवकाशशून्येन पथा मन्दं मन्दं महताश्रमेण गत्वा श्रीमदखिलाण्डेश्वरीसन्निधिमभजत् । 

सद्यः पूर्वमेव उद्दिष्टशुभमुहूर्तेन सह सन्नद्धाः दीक्षाभृत् पण्डिताः श्रीगुरुचरणककरारविन्दात् सभक्तिश्रद्धं तत्ताटङ्कयुगलं स्वीकृत्य तेभ्योवाप्तानुज्ञाः शोभने तत्र मुहूर्ते मन्त्रपूतैः पुण्यतीर्थैः सकलभुवनक्षेमङ्करं समस्तजनसन्तोषपारावारशारदराकाहिमकरं तत्तादृशमहिमभास्वरं श्रीजम्बुनाथाखिलाण्डेश्वर्योः महाकुम्भाभिषेकमङ्गलमहोत्सवं विधिवद्व्यतानिषुः । 

तत्तादृग्गुरुसार्वभौमरचितामाज्ञां पुरस्कृत्य तां
शास्त्रोक्तेन कृतं पथा च जगतां क्षेमङ्करं पावनम् ।
द्रष्टॄणां सफलां जनिं प्रकलयच्छ्रीजम्बुनाथस्य तत्-
पत्न्यावीक्ष्य मुदं परां समवहन्कुम्भाभिषेकोत्सवम् ॥ 

श्रीमज्जगद्गुरुवरः परदेवतायाः
श्लाघ्यं समस्त विबुधैरचितं पवित्रम् ।
वीक्ष्याभिषेकमघनाशकमात्तमोदः 
स्तोतुं तदा भगवतीमुपचक्रमे ताम् ॥ ३३ ॥ 

तथा हि, । 

अखिलाण्डनायिके ते निगमैस्तुत्ये पदाम्बुजे भक्त्या । 
पञ्चाभिरिह मञ्जरीभिरहमर्चामि त्वदीयकरुणाप्त्यै ॥
मातर्मान्यगुणालये त्रिजगतां पोतस्तत्रायं शिवे
भीतौ जन्मजघोरतापभरतो नीतंश्च कष्टां दशाम् । 

पूतत्वत्करुणामृतामलसरित्पातं समाकाङ्क्षते 
सा तं जम्बुपतेः प्रिये त्वमधुना भक्तस्य शीघ्रं कुरु ॥ 

कामाक्षीणबलप्रदात्मनयना सोमार्धचूडामणेर् 
वामाङ्कैकविभूषणा स्वजनताकामाद्यरिध्वंसिनी । 
सीमातीतगुणाश्रया श्रुतिशिरोवाङ्मान्यकीर्त्यज्वला 
सा मां जम्बुपतेर्वधूर्भगवती वामामणी रक्षतु ॥ ३६ ॥ 

अकृत्रिमवचांस्यपि प्रथितवैभवानीश्वरि 
त्वदीयगुणवर्णने भजति मूकभावं स्वयम् । 
अलं कथमिमे जना जननि मादृशास्त्वत्स्तुतौ 
निसर्गकृपयाव मां झटिति जम्बुनाथप्रिये ॥ ३७ ॥ 

हार्दध्वान्तनभोमणिं स्वजनताभीष्टातिचिन्तामणिं
देवव्रातशिरोमणिं हिममहीभृद्वंशमुक्तामणिम् ।
पापध्वंसचणं मणिं मुनिमनः पेटीविराजन्मणिं
जम्बूनाथवधूमणिं हृदि दधे त्रैलोक्यभूषामणिम् ॥ ३८ ॥ 

देवेषु सत्स्वपि बहुष्वखिलान्विहाय 
त्वां सर्वलोकजननीं करुणार्द्रदृष्टिम् ।
प्राप्तं जनं यदि जहास्यगतिं त्वदीयं 
कं प्राप्नुयामि शरणं भवतीह को वा ।। ३९ ।। 

मञ्जर्याश्रयतो विभान्ति भुवने लोका इतीदं विना
त्वत्सङ्गेन च मञ्जरी मम लसेत्सेयं सदेत्यम्बताम् ।
अम्लानां नवमञ्जुवर्णकलितां श्रीजम्बुनाथप्रिये
कण्ठे सादरमर्पयामि कुरु मां धन्यं गृहीत्वा मुदा ॥ ४० ॥

इति स्तुत्वा गृहीताखिलाण्डेश्वरीप्रसादः श्रीचन्द्रमौलीश्वरपूजनाय तत्स्थानमभजत्  । अन्येपि लोकनिवहाः सानन्दं कुम्भाभिषेकोत्सववैभवमालोक्य श्रीपरदेवतादर्शनादिकं महताश्रमेण विधाय श्रीचन्द्रमौलीश्वरप्रसादग्रहणार्थं श्रीमठमाटीकन्त । 

माध्यन्दिनं स्वनियमं विधिवद्विधाय
श्रीचन्द्रमौलिपदपङ्कजपूजनं च ।
कृत्वा यथावदखिलानपि तत्प्रसाद- 
दानादतोषयदसौ गुरुसार्वभौमः ॥ ४१ ॥ 

तस्मिन्सायाह्नि सर्वे गुरुवरनिकटं प्राप्य नत्वा पदाब्जे
ऽस्माकं श्रीमद्भिरद्यप्रथितकरुणया सारधर्मोपदेशः । 
कार्यश्वार्यैरितीत्थं सविनयरचितप्रार्थनासक्तचित्तः
साचार्येन्द्रः प्रियेणारभत सरससर्द्धर्मसम्बोधनाय ॥ ४२॥ 

द्राक्षेक्षुमाक्षिकामृतरुचिशिक्षाविधिसुदक्षमसदृक्षम् ।
श्रुत्वा तदुपन्यासं सर्वे विन्दन्नमन्दमानन्दम् ॥  ४३ ॥ 

अन्येद्युरत्र बहुदूरात्समायातविविद्वत्सु वेदनिपुणान्
संमान्यमञ्जुतरपीताम्बरस्वर्णरूप्यादिमैः सकुतुकम् ।
श्रीचन्द्रमौलिवरपूजाप्रसादेन दत्वा विशुद्धचरितः
सर्वान्बुधान्मोदयुक्तान्जगद्वन्द्यपादो गुरुः प्रहितवान् ॥ 

शास्त्रज्ञानां बुधानामपि महति सदस्यावृते लोकबृन्दै
स्ततज्ज्ञानार्हपीताम्बरकनकलसत्कम्बलक्षौममुख्यैः ।
द्रव्यैर्युक्तैः प्रसादैरमृतरुचिकलाचारुचूडस्य शंभोः
स्वीयेनानुग्रहेण प्रथितगुरुवरः प्रेषितत्तोषयित्वा ॥ ४५ ॥

अन्यान्मान्यगुणान्यभूञ्जिगमिषून्ग्रामं पुरं च स्वकं
पादाम्भोजकृतानतीननुमतिं चाकाङ्क्षमाणान्मुदा ।
वाचाशीर्वचनैश्च मूर्धचलनैः सत्प्रीतिसम्बोधकैः 
सन्मानैः सदनुग्रहैश्च सकलान् स प्रेषयामास हि ॥ 

कुम्भाभिषेकोत्सवकालतः परं
संभावनावारचतुष्टयावधि । 
कृताक्रमेणागतपण्डितानां 
श्रीदेशिकेन्द्रेण कृपालुना मुदा ॥ ४७ ॥

तत्तादृक्परदेवताकरुणया संपूर्णया पूज्यया 
निर्विघ्नं च विधाय सर्वमहितं ताटङ्कभूषोत्सवम् । 
तादर्थ्येन समागतानपि समान्संमान्य लोकान्तदा 
सम्प्रेष्यादरतो जगद्गुरुवरः सन्तोषमापातुलम् । ४८ । 

इत्थं शङ्करदेशिकेन्द्रचरणाम्भोजातसञ्जातया 
भक्त्यात्यल्पिकया जडोऽद्य विबुधैः कार्येऽत्र कृष्टो बलात् । 
प्राप्तुं तामखिलाण्डमातृकरुणां संसारविच्छेदिनी-
मेतं ग्रन्थमलेखिषं न कवितापाण्डित्यगर्वादहम् ॥ ४९ ॥ 

यथाम्बुना संमिलितं विभज्य 
क्षीरं परं चूषति राजहंसः । 
तथाऽत्र गृह्णन्तु विहाय दोषान् 
गुणान् परं पण्डितराजहंसाः ॥ ५० ॥ 

श्रीमद्देशिकराजपादजलरुट्संसेवनावाप्त- 
त्कटाक्षाङ्करलेशजातधिषणा भाजा मया वर्णिते । 
ग्रन्थेऽस्मिन् यदि चाल्पकोऽपि सुगुणः स श्रीगुरूणामिति  
क्षन्तव्या इतरे च दोषनिवहा मत्का इति प्रार्थये ॥ ८२ 

इत्थं कृपाभरजुषा गणपत्यभिख्य-
श्रीमद्गुरोर्मृडवधूकरुणाप्तिहेतोः । 
पञ्चापगेशकविना रचितेऽत्र चम्पू- 
ग्रन्थे समाप्तिमगमत्स्तबकश्च षष्ठः ।। ५२ ।। 

श्रीमदखिलाण्डेश्वरीताटङ्क प्रतिष्ठा महोत्सवचम्पूः संपूर्णा ।