Menu

श्रीमदखिलाण्डेश्वरीताटङ्कप्रतिष्ठामहोत्सवचम्पूः-Tamil-5

पञ्चमस्तबकः 

पञ्चमस्तबकः

आचार्येन्द्रसमागमात्प्रभृति स श्रीमान्नटेशो विभुः
त्यक्तस्वीयसमस्तकृत्यमनिशं शुश्रूषमाणो गुरुम् ।
हृद्वाक्कायधनादिभिः प्रभुवरैर्नेजाप्तबृन्दैः समं
प्राप्तश्रीगुरुदिव्यपूतकरुणा सत्पात्रतां भक्तिमान् ॥ 

मुधाकृतसुधाधुनीमहितवैभवां श्रीगुरोर्-
निरर्गलगलद्वचोमधुझरीं निपीयादरात् । 
नितान्तमुदितान्तरः स च नटेशनामा बुधः 
निमेषमिव मासमप्यगणयत्तदानीं गतम् ॥ २ ॥ 

इत्थं स देशिकवरो मधुरापुरेऽस्मि 
न्मासोपरि स्वयमहानि च पञ्चषाणि । 
नीत्वा वहिर्जिगमिषत्यथ यत्र काले 
तत्राभजद्गुरुवियोगजदुःखमेषः ॥ ३ ॥ 

अथ श्रीजगदाचार्यवर्यः गुरुभक्तिभृतामग्रगण्यं विनयभूषणं देवाजिरावाख्यं निजसर्वाधिकारिणमाहूय, अत्र नगरेऽधिककालविलम्बोऽभूत् । अस्मान्निर्गत्य श्रीदक्षिणकाशीक्षेत्रादिदर्शनं विधाय त्वरितमेव प्रतिष्ठामहोत्सवकृते श्रीमदाखिलाण्डेश्वरीक्षेत्रं गन्तव्यं, ततः श्वः विजययात्रायै सज्जीक्रियतां सर्वमपीति समादिशत् । सर्वाधिकारी – गृहीतं शिरसा गुरुशासनं तथैव झटिति करोमीति प्राप्तानुज्ञो बहिरगात्। 

उत्सवकार्यं कर्तुं प्राप्ता श्रीगुरुवराद्यदाज्ञा सा । 
स्कन्दस्वाम्यभिधार्यस्सन्ततश्चिन्तनापरो ह्यभवत् ॥ 

ततः शीघ्रमेव श्रीताटङ्कप्रतिष्ठामहोत्सवाय पत्रिका मुद्राप्य सर्वतो बहिः प्रकटनीया इति श्रीमहास्वामिसन्निधौ निवेद्य तदनुग्रहपूर्वकमस्मात् कुम्भघोणनगरी प्राप्येति निश्चिय स्कन्दार्यः श्रीमदाचार्यचरणमूलमधिगम्य कृतप्रणामः सविनयमतिष्ठत्। 

श्रीगुरुवरः – अस्ति वा निवेदनीयांशः । 
स्कन्दस्वाम्यार्यः – प्रकृतमहोत्सवाय त्वरितं पत्रिकामुद्रापणादिकार्यं करणीयमिति भाति । 
श्रीगुरुवरः – अत्रस्थसर्वाधिकारी आहूयतामिति । सद्यस्ततत्रत्येन समाहूतः सर्वाधिकारी वेगेनागत्य प्रणिपत्य उत्थाय सप्रश्रयं श्रीमदाचार्याज्ञां प्रत्यपालयत् । 
श्रीगुरुवरः – 
वर्षे भाविनि चैत्रमासि सुदिने ताटङ्कभूषोत्सवो
देव्याः कार्य इतीह निश्चितमतः स्कन्दार्य एषोऽत्र च । 
किं किं पत्रिकया निवेदयति नः द्राक् तस्य तस्योचितं
कर्तव्यं प्रतिपत्रिकापि सपदि प्रेष्या हि तस्मै त्वया ॥ 
सर्वाधिकारी – सज्जोऽस्मि यथाशक्त्यनुष्टातुं श्रीमदाज्ञाम् । 
स्कन्दस्वाम्यार्यः – ममाप्यनुज्ञा दातव्येत्यर्थये । इतःपरमस्मान्निर्गत्य श्रीमठेऽभिमानितां सर्वेषामपि पत्रिकया साक्षाच्चकार्यनिर्वहणाय पूर्वमेव निवेदनीयमिति ।
श्रीगुरुवरः – क्रियतां तथैव; वयमपि इतः दक्षिणकाशीपर्यन्तं विराजमानतीर्थदेवतास्नानदर्शनादिकं विधाय चैत्रमासोद्दिष्टदिवसेऽवश्यं तत्रागच्छामः; असकृन्निवेद्यतामनुष्ठीयमानं कार्यजातमिति आज्ञाप्य चेन्नपुरवासिना श्रीमठीयकार्यनिर्वहणसमर्थेन रामशेषार्येण साकं तस्य प्रसादमदात् । उभावपि सप्रणामं गृहीतप्रसादौ श्रीगुर्वाज्ञां प्राप्य तस्मात्रिशिरःपुरमभजताम् । 
सद्यः श्रीपरदेवतोत्सवकृते मुद्राप्य ताः पत्रिकाः 
आसेतोरपि चाहिमाचलतटं सर्वत्र सम्प्रेष्य च । 
ग्रामायान्तिकभास्वराय गुरुराट्शिष्यव्रजाढ्याय च 
स्कन्दार्यः स जनान्बहून्स्वलिखितैः पत्रैः सह प्राहिणोत् ॥ 

सर्वोत्सवेषु प्रभुतल्लजेभ्यो विधाय याच्ञां सकलैश्च पूर्णम् ।
यो भोजनं वर्णचतुष्टयानां समर्पयत्यादरतः स्वयं महान् ॥ ५४ 

श्रीकुम्भघोणनगरान्तिकराजमान-
ग्रामस्थित शिव इति प्रथिताभिधेये । 
तस्मिन्न्यवेदयदयं गुरुशासनेन
देव्युत्सवः प्रचलितेति च चैत्रमासे ॥ ८ ॥

स्कन्दार्यवर्णितमिदं वचनं समोदं
श्रुत्वा शिवः स्वयमिदं वचनं जगाद । 
तस्मिन्समागतजनव्रजभोजनं तद् 
दातुं प्रयत्नमधुनैव करोमि नूनम् ॥ ९ ॥ 

एवं शिवोदितं शिवङ्करं वचनं निशम्य प्रमुदितहृदयः स्कन्दार्यः साक्षादेवावश्यं द्रष्टव्यान् प्रभुवरानालोक्य सकलमपि विषयं तेषां निकटे निवेद्य सद्यः त्रिशिरःपुरमागत्य श्रीजम्बुनाथक्षेत्रभास्वरनूतननिर्मिते श्रीजगद्गुरुमहास्वामिनां मठे श्रेष्ठविनायकपुरवासिनं श्रीजगदाचार्यवर्यचरणसरसिजाव्याजभक्तियुक्तं निखिललौकिकवैदिककार्यनिर्वहणनिपुणं स्कन्दस्वाम्यार्यस्य मित्ररत्नं सत्यसन्धं सद्गुणगणालङ्कृतं प्रभुवरं वैद्यनाथनामानं भूसुधाशनशिरोमणिं स्थापयित्वा सकलान्यपि तत्र करणीयानि महोत्सवकार्याणि तस्मिन्निवेश्य स्वयं सर्वतो बहिरटन् क्रमेण सर्वमपि सज्जीचकार । 

श्रीमदाचार्यसार्वभौमोऽपि मधुरानगरात् प्रस्थाय मध्येमार्गं तत्र तत्र स्थितैः आस्तिकशिष्यसमूहैर्यथाशक्त्युपास्यमानः श्रीदक्षिणकाशीक्षेत्रं प्रतिपद्य तत्र गिरौ भासमाने दर्शनमात्रेण नन्दननिस्पर्शनिवारितनिखिलरोगे अच्छाच्छे अतिशीतले सन्ततसमस्तजनतासेव्यमानेऽसमाने पावनतरे निर्झरे सानन्दं निमज्ज्य तद्गिरिमूले देदीप्यमानं भगवन्तं इन्दुशेखरं तद्वामाङ्गविभूषणां वामामणिं च निषेव्य दिनत्रयं तत्र न्यवसत् । 

ततः क्रमेण पापविनाश, कलडक्कुरुश्चि, शालिवाट्यादीनि क्षेत्रवराणि तत्तन्निवासिलोकनिवहप्रार्थनानुसारमलङ्कृत्य पश्चात् मधुरामार्गेण षण्मुखसिषेविषया श्रीफलिनीगिरीशमाजगाम । तत्र भूधरवरे, भास्वन्तं आपण्डिताज्ञजनपण्डेभ्यः सम्यक् प्रकटीकृतनिजमहिमानं तत्तल्लोकलषिताखिलैहिकामुष्मिकश्रेयो विधानदीक्षितं अनवरतागतविबुधनिकरवन्द्यमाननिजचरणारविन्दद्वन्द्वम् अद्भुतविग्रहम् आसेचनकमक्ष्णामम्बिकाप्रियकुमारं संसेव्य एवं स्तोतुमपाक्रमत । 

भक्तिं येऽभिनयन्ति बाह्यविधयाप्यल्पीयसीं सादरं 
तेषां सर्वमनोरथार्पणविधौ जागर्ति यः कौतुकात् । 
स्वामिन् श्रीफलिनीगिरीश गिरिजाप्रेमास्पद त्वं विभो 
स्वाभाव्येन कृपाभरेण भगवन् सेनापते पश्य माम् ॥ 

कृतामरसुतोषणं नतजनार्तिसंशोषणं 
बलारिकुलभीषणं श्रुतिशिरोविहारेषणम् । 
गिरीशकृतपोषणं तनुजितोल्लसत्पूषणं 
कुमारगिरिभूषणं बुधवरं भजे षण्मुखम् ॥ ११ ॥ 

तिष्ठत्सु दैवतगणेष्वखिलेषु दान- 
दक्षेषु पीडयति मामिति लोक एषः । 
श्रीमन्कुमार भगवन् कुप मा दयाब्धे 
कोऽन्यो झटित्यभिमतं त्वद्दृते ददाति ॥ १२ ॥ 

पूर्वोपात्तैः सुकृतनिचयैः केवलं दर्शनीयः 
शाखाबृन्दप्रकटितलसद्वैभवः शैलराजे । 

स्कन्दाख्योऽसौ विलसति तरुर्भक्तिभाजामपूर्वं 
सर्वाभीष्टप्रदमिहफलं सन्ततं यो ददाति ॥ १३ ॥ 

रोगादिसर्वविपदो जनतास्थिता- 
स्त्वमुन्मूल्य वाञ्छितसुखान्यखिलानि सद्यः । 
दातेति निश्चययुता इह कार्तिकेय 
त्वां प्राप्नुवन्ति भगवन् सततं दयाब्धिम् । १४ ॥ 

तत्रोषित्वा दिनत्रयमविन्ददवाङ्मनसगोचरमानन्दम् निर्गत्यास्माद्विशालं पुरमपि नवसालाभिधं प्राप्य भूप-श्रेष्ठेन प्रोज्वलेनानिशगुरुचरणाम्भोजसद्भक्तिभाजा।

लोकैश्वाराधितोऽयं भुवनगुरुवरस्तत्र नीत्वा दिनानां 
चत्वारि प्रातनिष्टामृतसमसदुपन्याससन्तोषिणस्तान्॥ 

ततः दृढतरगुरुभक्तियुक्तं तत्पुरसमीपभासमानं ग्रामं भूषयता केनचिदाढ्येन श्रेष्ठिना प्रणामपूर्वकं सादरमाहूतः श्रीभूषयता भुवनगुरुसार्वभौमः तदीयप्रार्थनामपि सार्थयित्वानन्तरं श्रीताटङ्कप्रतिष्ठामहोत्सवकृते श्रीजम्बुनाथक्षेत्रं प्राप्तुं प्रस्थितः 

कीरनूर्ग्रामार्गेण त्रिशिरःपुरस्य क्रोशदशकदूरे भास्वन्तं मात्तूराख्यं ग्राममभजत् । 

श्रीदेशिकेन्द्रो नवसालपट्टणं समागतो द्रागिह यास्यतीति । 
ज्ञात्वा समस्तास्त्रिशिरःपुरस्थाः श्रीरङ्गपूर्गाश्च सभामकार्षुः ॥

तत्र सभायां त्रिशिरःपुररङ्गनाथक्षेत्रवासिषु ये प्रधानाः निसर्गभव श्रीमदाचार्यचरणातुलभक्तिभास्वरा आस्तिकाश्च विराजन्ते ते सर्वेऽपि समागत्य, श्रीगुरुवरः त्रिचतुर्दिनादर्वाक् श्रीताटङ्कप्रतिष्ठामहोत्सवाय समागमिष्यतीति पूर्वमेव मठीयश्रीमुखशास्त्रिमुखात् श्रुतम् । अधुना पुनः श्रीमठीय सर्वाधिकारिणा प्रकटितया प्रसिद्धपत्रिकया अस्मिन् चैत्रमासि भावि सोमवारे एकाधिकनवमदिने सायं पञ्चविंशतिघटिकासमये इमां पुरीं भूषयिष्यतीति स्पष्टं विज्ञायते । 

अतः तत्काले सर्वे वयम् अस्मिन्नगरसीमनि सज्जीभूत्वा यथाभक्ति, यथाशक्ति शिष्यधर्मोचितया मर्यादया तान् सादरं प्रणिपत्य श्रीगुरुवरेण साकं क्रमेणागत्य श्रीजम्बुकेश्वरक्षेत्रे विलसन्तं श्रीमठमधिगत्य तत्र शिबिकातोऽवरुह्य महासिंहासने भासमानं श्रीमहास्वामिनं नमस्कृत्य गृहीतप्रसादाः अनन्तरदिवसेष्वपि यत् कर्तव्यत्वेनादिश्यते तत्सर्वं कर्तव्यमित्येकाभिप्रायेण निश्चित्य तथैव पत्रिकयापि सर्वत्र नगर्यो प्रकटीकृत्य सादरं श्रीजगद्गुरुमहास्वाम्यागमनसमयाकाङ्क्षिणो बभूवुः । 

आचार्यागमनाय निश्चितदिने प्रातः प्रभृत्यादराद् 
द्रभ्यैर्भूषितमापणैर्जनचयैरध्यासितं तादृशम् । 
मार्गं योजनदूरकं च सकला लोका अलञ्चक्रिरे 
द्रष्टॄणां हृदयाभिकर्षणविधौ दक्षं यथा स्यात्तथा ॥ 

तथाहि,

श्रीगुरुचरणैः सहागच्छतां जनचयानां परस्परं दृढतरसङ्घर्षणेन तापो माभूदिति नीरपूरस्नापितस्वस्वसदनपुरोभागस्थविधयः चारुतरहरितपत्त्रावलिकपिशफलनिचयालङ्कृतमोचाचयकवचित निजागारवहिर्द्वारोभयपार्शवाः

गारुत्मत-रत्न-मरीचि-जाल-विजय-पटुतर-चूत-स्तबक-भूषिताभिः उत्तप्त-चारु-कनक-कान्ति-परिहसन-पण्डितानेक-विचित्र-कर्मरचना-मनोहर-नालिकेर-ताल-बाल-पत्र-निर्मिताभिः तोरण-मालिकाभिः निरन्तर-पिहिताकाशावकाशाः प्रतिगृहं बहुविचित्र-पट-मण्डितासमान-ह्रस्वकायमान-भासमान-बाह्य-द्वारान्तिकस्थ-भूम्युपरिभागाः श्वेतनील-हरित-शोण-मुख-नाना-रत्न-मयूख-पुञ्जानि विकिरन्तीभिः विद्युत्खण्डनिर्मिताभिरिव स्वच्छतरं प्रकाशयन्तीभिः दीपावलिभिः श्रीलोकगुरुसार्वभौमः समागमिष्यति नेदानीमत्र पुरे अन्धकारलेशस्याप्यवकाशो दातव्य इति बहुदूरोत्सारिततमोबृन्दाश्च क्वचिन्नाना-वर्ण-विराजमान-काकली-निर्मित-विचित्र-दीप-भूषित-सौधबृन्दाः । 

अन्यत्र सादर-निज-कर-कमल-कलित-मञ्जुल-चामर-राजत- दीपादिक-सारङ्ग-नयनारूप-सालभञ्जिका-देदीप्यमान-सदन-बाह्य- द्वारोभय-पार्श्व-विराजमान-कुट्टिमाः कुत्रचिदन्तस्थित-कूप-निर्मित- यन्त्र-विशेष-व्यापारेण बहिर्वेदिका-स्थाप्यमान-कृत्रिम-वार-विलासिनी-पाणि-पयोरुह-भास्वरगन्धाम्बु-सेचन-समर्थाच्छाच्छ-रजत-निर्मितयन्त्रेभ्यः निखिलाश्चर्यकरं किमिदं कस्मादेवमागच्छतीत्यज्ञाततत्वं क्रोशद्वयावधि-सन्तत-प्रसारित- सामोद-शिशिर-सूक्ष्म-नीर-शीकर-कदम्बानन्दित-जन-सन्दोहाः अन्यान्यपि बहूने विचित्रकर्मणि विधाय द्रष्टॄणां स्वर्गलोक एव श्रीजगद्गुरुचरणसिषेविषयात्र समागत इति मतिमुत्पादयन्तः सर्वेऽपि तन्नगरवासिनः श्रीलोकगुरुपरमाचार्यदर्शनाकाङ्क्षिणः सादरं समयं प्रतिपालयन्ति स्म। 

तादृक्पट्टणवासिलोकनिवहेष्वग्र्याः समस्ता अपि 
श्रीमल्लोकगुरूत्तमागममिमे भक्त्या प्रतीक्ष्यादरात् । 
रम्ये शीतकरस्य तत्र दिवसे सज्जाश्च घण्टात्रये 
ह्यारामे गरुसेवनोचितफलस्रक्पूर्णकुम्भादिभिः ॥ १८ ॥ 

श्रीमज्जगद्गुरुवरं समये च क्लृप्ते 
सर्वैः स्वभृत्यनिवहैः क्रमशोऽभियान्तम् । 
सज्जा समस्तजनतापि निरीक्ष्य तस्य 
पादाम्बुजातयुगले प्रणतिं ह्यकार्षीत् ॥ १९ ॥ 

ततश्च स गुरूत्तमोऽप्यमृतपूरनिष्यन्दिभि-
र्जनैः सुकृतशालिभिः सुलभतः प्रलभ्यैः शुभैः ।
समीक्ष्य शिशिरैः समानपि जनान्कटाक्षैर्निजैश् 
चकार किल पावनान्विमलधीः स्वशिष्यान्तदा॥ 

अनन्तरं श्रीदेशिकेन्द्रः शिबिकातोऽवरुह्य तत्रारामे मनोहरे पवित्रतरे क्वचित्प्रदेशे सज्जीकृतं सिंहासनमलमकार्षीत्।

सद्यः केचिदुपायनानि लिकुचश्रीनारिकेलाम्रस-
न्मोचारम्यफलादिमानि गुरुराट्पादे निधायानमन् । 
हारेणोत्तमपुष्पगेण च परे तत्कण्ठमाभूषयन् 
ध्यात्वा दिव्यतदीयमूर्तमितरे चानन्दमापुः परम् ॥ 

इत्थं सार्धपञ्चमघण्टापर्यन्तं तत्रागतानां प्रभुमणीनामन्येषां चनिजदर्शनदानेन सरसतरसल्लापेन चामन्दमानन्दमुत्पाद्य सद्यः स परमहंसशेखरः तत्कालोचितानुष्ठानाय तत्रैवान्तिके राजमानम् अच्छाच्छनीरपूरितं मञ्जुलं पल्वलमयासीत् । 

सद्यः समस्ताः प्रभवः समोदं 
श्रीलोकगुर्वानयनाय सज्जिताम् । 
छत्रादिमां तां बिरुदावलिं द्रुतं 
यथाक्रमं संव्यभजन्तदेवम् ॥ २२ ॥ 

तथाहि,

अस्मत्प्रभुः श्रीचन्द्रशेखरः श्रीशङ्करभगवत्पादरूपेणावनिमवतीर्य उत्तप्त-चामीकर-कान्ति-कचाकचि-प्रथन-बद्ध-कङ्कण-लावण्य- भूषित-दिव्य-निज-शरीर-दर्शन-दानेन सर्वानपि धन्यीकरोति अहमपि स्थूलमिदं कलेवरमनेकधाविभज्य तादृशपुण्यमूर्तिसेवनेन पवित्रीकरोम्यात्मानमिति कलितनिश्वयेन कैलासाचलेनानेकधा स्वीकृताभिः तनुभिरिव भासमानाभिः कान्तदीप-सन्ततिभिरभितः सरणिमभिमण्डिते छत्र-चामर-मकर-तोरणादि-विचित्रतर-नाना-विध-विरुद-निकरालङ्कृतोभयपार्श्वे-मत्तकरि-निवह-वाह-समूह-परिशोभित-पुरोभागे धीरतरपुरुष-समोदवाद्यमानैः ठक्का-डमरु-डिण्डिम-शङ्ख-पटह-प्रमुख-मङ्गलवाद्य-कदम्बैर्-बाधरीकृत-भुवनत्रये, तञ्जापुर-विराजमान-मञ्जुल-वाद्य-पुञ्ज-वादनानुरञ्जित-
जनसञ्चये प्रागेव मुद्रितपत्रिकाद्वारा सर्वन्नापि निवेदिततया श्रीजगद्गुरुचरणसरसिजसेवनपर-सकुटुम्बसरभस-समागत-सकल-लोक-सङ्घ-निबिडित-मध्य-प्रदेशेपरिरक्षणार्थ-स्थापितागत-राजकीयप्रधानाधिकारि-बृन्द-विरचिताज्ञापरिपालन-बद्ध-कङ्कण-सतत-भ्रमद्राजकीय-सेवक-सहस्र-विरली-क्रियमाण-जन-समूहे अत्यद्भुत-वेष-भूषितैः तत्तदश्वोपरि विद्योतमानैः श्रीमठीयैराश्विकैरभिमण्डितपुरोभागे श्रीभगवत्पादपादपयोरुहाव्याजभक्तियुक्तैः भागवतमूर्धन्यैः स्वगोष्ठीभिः साकं तत्तादृक्तालमृदङ्गादिवाद्यविशेषैः सह गीतैर्नव्यसुधारसवर्षिभिः श्रीपारमेश्वरपुण्य-कथा-प्रबन्धैर्-हर्षिताखिल-लोकमानसे, उपनिषत्पारायण-परायण-वसुधा-गीर्वाण-शिरोमणि-गण-निबिडितैकशे,श्रीगुरुचरणगमनमार्गे सकलसन्नाहैः सज्जीकृते समापितनिखिलानुष्ठानः आपादमस्तकं कवचीकृत-विमल-पावन-विभूति-प्रभाव-वलिताखिलदिङ्मण्डलः कलिदोष-कलुषित-लोकहृदयेभ्यो बहिरागतया अनन्यशरणया स्वीकृत वर्तुलानेक-ह्रस्व-शरीरया कलिना विद्रुतया भीतभीतया निजावनायालिङ्गितकण्ठया सत्वगुणपरम्पयेरव भास्वरया निर्मलया स्फाटिक-मालिकया रुद्राक्षमालाभिश्च प्रकाशितकण्ठदेशः अदृष्टपूर्वाप्र- तिमानर्घपीताम्बरावकुण्ठिताखिलकलेवरः अनुष्णकिरणः आस्था-गृहीत-मानुष-विग्रहः सहस्र-दीधितिरिव देदीप्यमानः श्रीजगद्गुरु- परमाचार्यवर्यः तस्मान्निर्गत्य पार्श्वयुगल-विलसत्रिशिरःपुर-श्रीर- ङ्गनाथक्षेत्रनिवासि-प्रभुवर-शिष्यवर्गैः विना जनसम्बाधं सन्दर् शित-सरणिः मन्दमन्दमागत्य पूर्वमेवालङ्कृत्य सन्नद्धां दन्तशिबिकां समारुरोह । 

सकलजनसमूहं राजकीया ब्रुवन्तो
ऽप्यतिदृढनिजशब्दैर्गच्छगच्छेति तूर्णम् । 
भुवनगुरुकटाक्षाकाङ्क्षन्या भक्तिपूर्णः 
पदचलनमपि स्वं नाचरत्यंत्र काले ॥ २३ ॥ 

तत्तादृक्षामतुलशिबिकां भासमानां सुमेरो-
रच्छच्छायं शिखरमिव संभूषयन्देशिकेन्द्रः । 
शिष्यव्रातैः कुतुकभरितैरावृतैः स प्रतस्थे 
मन्दमन्दं महितचरितो जम्बुनाथस्य पुर्वै ॥ २४ ॥ 

एकीभूतैर्जलधिनिवहैर्दर्शनेनेव चेन्दोः 
लोकव्राजैर्गुरुवरसमालोकनाय प्रवृद्धैः । 
पन्थानं तं निबिडितमसौ मन्दमुल्लङ्घय रम्यां 
सर्वैः पूर्णां तदनु महतीं पण्यवीधीमयासीत् ॥ 

गुरुवरपदसेवालोलुपा अप्यशक्त्या 
निबिडितजनसङ्घे भीतियुक्ताः प्रयातुम् । 
निजनिजगृहसौधे जागरूकास्तदानीं 
सरभसमवदंस्ता योषितोऽन्योन्यमेवम् ।। २६ ।। 

तथाहि, 

अयि मुग्धे क्व पश्यसि अत्र दक्षिणस्यां दिशि समालोकय,
हे सुन्दरि, एतावति वाद्यशब्दकोलाहलेऽपि
कथं स्वपिषि, जागृहि उत्तिष्ठ झटिति, 
अयि मज्जुभाषिणि, तव विनोदालापस्य नायं समयः, 

हे मन्दगमने गतिविन्यासोऽधुना माभूत् त्वरितमायाहि, मदनमञ्जरि तवालङ्कारसमाप्तेः प्राक् आचार्यवर्गः स्वास्थानं गच्छेत् अलमलमलङ्कारेण आगच्छ शीघ्रं, अयि कान्तिमति, किमर्थमधुना निद्रान्तं द्विहायनं बालकमुन्मीलनाय हिंसयसि, हे मीनलोचने तूष्णीं क्षणमास्व नाधुना तव कुटुम्बकलहवार्ताश्रवणाय मेऽवकाशः, रे निर्लज्जे विशालाक्षि, बधान सम्यक् कञ्चुकं, भो गौरि तव समीपे ममापि स्थातुमेकं स्थानं सज्जीकुरु, हे कनकाङ्गि सान्त्वय तव सुतं निदाघमेघध्वनिनिभेन रोदनरवेण भिनत्ति नः सर्वासां कर्णपुटानि, सखि सरस्वति दशजनोपवेशनयोग्यं स्थानं त्वमेकाकी कथं रुणद्धि दीयतामवकाशः, हे चम्पकलते कथं मुक्तकेशी भवति भवती मक्षु कुरु केशपाशबन्धनम्, 
अयि  विद्युत्प्रभे कटितटादधः गलितमपि वस्त्रं किं न जानासि इत्याद्यनेकव्यवहारजातशब्दजालपूरितमासीदखिलमपि दिङ्मण्डलम् । 

एवं तत्पुरवासिलोकनिवहे कौतूहलाजाग्रति 
श्रीमदेशिकवर्य-पाद-जलरुट्-संसेवने सर्वतः ।
आचार्योऽपि तदा समस्तबिरुदैर्वाद्यैरनेकैस्तथा 
दीपैर्मञ्जतमैरगाद्विपणिकावीधिं भृशं भास्वरः ॥ २७॥  

केचिद्गुरूत्तमपदे महितं दुकूलं 
पीतांबराणि च परे कुतुकात्समर्प्य । 
कर्पूरक्लृप्तविमलप्रभदिव्यदीपै-
राराध्य तं समभजन्गुरुराट्मसादम् ॥  २८ 

क्रमेण सकलैर्जनैः परिवृतो जगद्देशिको 
विलङ्घय विपणिं ततः पथि च तत्र तत्रादरात् ।
जनैः स परिपूजितो महति जम्बुनाथस्थले 
स्थितं मठमगान्मुदा जितसुरेशसद्मश्रियम् ॥ २९ ॥ 

सद्योऽवरुह्य गुरुराट् शिबिकात एष
प्रागेव क्लृप्तमतुलप्रथमासनं तत् ।
यावद्व्यभूषयत तावदशेषलोका
आनन्दपूर्णहृदयाः प्रणतिं ह्यकार्षुः ॥ ३० ॥ 

आनम्योत्थितमादृताञ्जलिपुटं शिष्यव्रजं सादरं 
तत्तादृक्करुणारसाद्रितलसत्पूतात्मदृष्ट्या प्रभुः ।
वीक्ष्य श्रीगुरुशेखरः समकरोत् धन्यं प्रदानात्तदा 
श्रीमच्चन्द्रविभूषणस्य सुकृतप्राप्यप्रसादस्य हि ॥ ३१ ॥ 

आचार्यवर्यशशिशेखरयोः प्रसाद- 
माप्याखिलाः प्रमुदिता अभजन्स्वगेहम् ।
श्रीमज्जगद्गुरुवरोऽप्यथ चात्मकृत्यं 
ध्यानादि कर्तुमगमद्विजनं प्रदेशम् ।। ३२ ।।

इत्थं कृपाभरजुषा गणपत्यभिख्य-श्रीमद्गुरोर्मृडवधूकरुणाप्तिहेतोः ।पञ्चापगेशकविना रचितेऽत्र चम्पूग्रन्थे समाप्तिमगमरिकल पञ्चमोऽयम्