Menu

श्रीमदखिलाण्डेश्वरीताटङ्कप्रतिष्ठामहोत्सवचम्पूः-Tamil-4

चतुर्थस्तबकः 

चतुर्थः स्तबकः 

श्रीगुरुवरः श्रीसेतुपतिकृतप्रार्थनायाः पूरणविषयेऽयमेव समयः इत्येवं मत्वा, 

संप्राप्य स्वपुरं दिनानि कतिचिन्नीत्वात्र सर्वे जनाः 
कार्या धन्यतरा इति प्रकलितां प्राक्सेतुनाथेन च ।
सार्थां कर्तुमिहार्थनां पुरवराद्रामेश्वरात्तत्पुरं 
प्राप्यं चेति निजाधिकारिनिकटेऽवादीत्कृपाब्धिस्तदा ॥ 

प्रातः प्रयाणोचितसर्वकार्यं 
सम्यक्विधायाथ मठाधिकारी । 
व्यज्ञापयत्सज्जितमित्यमुष्मिन् 
श्रीदेशिकेन्द्रे दिवसावसाने ॥ २ ॥ 
तत्रस्थसर्वजनतार्थनया कृपालुः 
धर्मोपदेशममृतोपमवाग्झरीभिः । 
कृत्वा जगद्गुरुवरः सकलान्प्रसाद-
दानेन शिष्यनिवहान्समतोषयत्सः ॥ ३ ॥

न्येद्युरस्मान्नगरान्निर्गत्य गुरुराडसौ । 
अनुद्रुतो भक्तलोकैः रामनाथपुरं ययौ ॥ ४ ॥ 

तत्र च, 
श्रुत्वा लोकगुरूत्तमस्य विजयं स्वां राजधानीं प्रति 
श्रीमान् सेतुपतिः स्वराज्यविलसल्लोकैः समस्तैः सह । 
सानन्दं प्रतिपालयन्बुधवरः तं कृत्यविच्छ्रीगुरुं 
प्रत्युद्गम्य कृतानतिः सविनयं स्वीयां पुरीमानयत् ॥  

सोऽपि श्रीभुवनगुरुशिरोमणिः तां नगरीं प्राप्य सम्यक् सकलकार्यनिर्वहणपटुतरेण निजकुल-परम्परागत-पूज्यलोकोचितमर्यादार्पण-सञ्जात-यशोऽलङ्कृतेन, सतताराधितपण्डितमण्डलेन सेतुपतिना तेन महीपतिना सादरं संपूजितः पञ्चषदिनानि सानन्दं तत्र उषित्वा तत्रत्यान्सर्वान् परिपूर्णमनोरथान्विधाय तस्माच्छिवगङ्गाभिधं नगरं प्रययौ ।

तत्रापि प्रभुतल्लजेन नितरां सद्भक्तियुक्तेन भूभृ-
त्कल्पेन च भास्वता मतिमता साकं स्वकीयैर्जनैः । 
आगत्य स्वपुरात्बहिः कृतयथोक्तात्मीयमर्यादया 
लोकाचार्यवरः स सादरमयं नीतः पुरं तन्मुदा ॥ ६ ॥ 
दिनानि खलु पञ्चतद्रचितवर्यशुश्रूषया 
मुदा गुरुवरः प्रभुं शशिकलाधरं पूजयन् । 
स्वसेवनकृतास्थयागतजनान् भृशं तोषयन्- 
नुपादिशदयं स्वयं विमलधर्मसूक्ष्मं तदा ॥ ७ ॥ 

ततः तस्मान्निर्गत्य मधुरामार्गमध्यस्थक्षेत्रवासिजनप्रार्थनामपि सफलीकरणाय तत्र तत्र क्षेत्रे कञ्चित्कालं विलम्ब्य क्रमेण मधुरानगरसमीपमभजत् देशिकेन्द्रः । मधुरायामपि तत्रभवान्नटेशार्य रामेश्वरात्स्वपुरागमनानुक्षणमेव श्रीगुरुवरानुग्रहबलेनावाप्तानन्दः यथाशक्ति अस्मिन् कार्ये प्रयतितव्यम् इदमेवैतज्जन्मनोऽवश्यकर्तव्यं कार्यमिति नैसर्गिकगुरुभक्तिदार्ढ्येन स्वशरीरश्रमं धनव्ययञ्च किञ्चिदप्यगणयन् श्रीजगद्गुरुमहास्वामिविजयबोधिनीः बह्वीः पत्रिकाः मुद्राप्य सर्वत्र प्रकटीकृत्य स्वयमपि तत्र तत्र गत्वा वाचापि समुचिताधिकारिणे निवेद्य तन्नगरवासिनां तत्समीपग्रामस्थानां सर्वेषामपि महान्तमुत्साहं समुत्पाद्य कदा श्रीमदाचार्यचरणा इमां नगरीं भूषयेयुः, कदा वा तद्दर्शनलाभो घठेतास्माकं, तदीयानुग्रहस्य च कदा पात्रीभविष्याम इति निरन्तरचिन्ताव्याकुलः समस्तैः साकं श्रीजगद्गुरूणां तत्परिवाराणां च निवासयोग्यं स्थानमपि यथोचितं परिकल्प्य सज्जीकृताखिलकार्यः सादरं श्रीमदाचार्यविजयाकाङ्क्षी अवर्तत ।

तस्मिन्समये श्रीमुखशास्त्री गुरुराजशासनात्कश्चित् । 
मधुरां प्राप्य च गुरुराट् विजयं प्रातः करिष्यति श्वोऽत्र ॥
अवदज्जनतामध्ये नटराजार्यस्य चान्तिके स्पष्टम् ।
पीत्वा तद्वचनामृतमभजन्निखिला अमन्दमानन्दम् ॥ 

अन्येद्युः करिवाहचामरमहाद्यत्रैश्च पुष्पैः फलैः 
हारैराजतपूर्णकुम्भनिकरैः देदीप्यमाना भृशम् । 
सर्वे तत्पुरवासिनः सकुतुकं श्रीवेगवत्यास्तटे 
शुद्धाः श्रीगुरुराजपादयुगली संसेवनायै स्थिताः ॥ १० ॥

श्रीमदाचार्यवर्योऽपि पूर्वदिनरात्रौ घण्टाद्वये प्रस्थाप्य पञ्चमघण्टासमये निखिलनगरीशेखरीभूतां तादृश्याः महामहिमाञ्चितायाः श्रीकाञ्चनमालायाः जन्मान्तरकृतपुण्यपरम्परयेव मूर्तिमत्या, मञ्जुल-मन्दस्मित-भासुर-निज-मुखारविन्दाच्छाच्छ-तेजच्छटाच्छादिताखिलादिगन्तरया त्रिभुवन-विलसल्ललना-रत्न-ललाट-तल-तिलकायमानया विगतचञ्चलयेव विद्युत्सन्तत्या अद्भुतशरीरया अकृत्रिम-वचन-कोटिभिरप्यविदित-निज-प्रभावया, आजान-सिद्ध-करुणा-प्रवाह-कल्लोलित-कमनीय-निज-कटाक्ष-वीक्षण-परिरक्षित-भक्त-जन-समूहया, अनादिस्वरूपया, अखिलवन्द्यचारुचरणारविन्दया सकललोकजनन्या श्रीमीनाक्षीनाम्न्या परदेवतया कलत्रवता स्वकीयपद-सरोजयुग-कृतानतिक-नरालिगत-करालभव-पयोधि-भय-निराकरण-विद्या-निपुण-महामहिम-भासुरेण, सकल-मुनि-जन-हृदय-कुहर-सतत-विधृत-निज-स्वरूपेण पिष्टविक्रयिण्याः कस्याश्चित् वृद्धायाः जन्मान्तरीयातुलभाग्योदयात् पिष्टमूल्यग्रहणेन तद्दासभावमङ्गीकृत्य तदीयत्वेन वेगवतीकूले पृथक्कृत-मृद्भार-वहन-समयानुभूत-वेत्राहतिना आचण्डालमावेदित-स्वीय-भक्तगण-पालन-विषय-समुपजात-तादृश-करुणा-प्रवाहेण स्वेनानायासेनाचरितया तादृश-चतुष्षष्ठि-सङ्ख्याकया-लीलया प्राकृतानामपि स्पष्टतमं बोधितनिजप्रभावेण, निजविहार-हर्म्यायमाणागम-निकरेण चारुतरेन्दुकलालङ्कृत-स्वमूर्ध्ना भगवता श्रीसुन्दरेशेन अनितरनगरसुलभाम् आत्मीयां शोभामावहन्तीम् अमरावतीमिवाश्रितकल्पलतिकां, मेरुस्थलीमिवसद्रत्नभूषितां क्षीराम्भोनिधिमिव परमोत्तमाश्रयाम् इन्द्रधनुरिवानेकवर्णोज्वलां, सन्तत-सज्ज-कृतागममधुराम् आदिदम्पति-निवासमधुरां अधिगत्य श्रीवेगवतीनाम्न्याः पुण्यवरितः क्वचित्पावने प्रदेशे कृतावतरणः स्नानादिकं विधाय क्वचिदेकान्ते तत्कालोचितं स्वीयं जपादिकमन्वतिष्ठत् । 

ततः प्रातः सप्तमघण्टासमये समापितनियमः श्रीशङ्करगुरुवरः पूर्वमेव सज्जितसकलशिष्यवर्गकृतप्रणामः  प्रदर्शितपूर्णकुम्भः कण्ठदेशसादरार्पितानर्घहारः महाशिबिकामारुह्य क्रमेण सर्वैरनुगम्यमानः राजवीधीमार्गेण श्रीसुन्दरेश्वरालयं प्रदक्षिणीकृत्य तदालये तत्सन्निधौ विराजमानं कल्याणमण्टपाख्यं महामण्टपं मण्डयाञ्चकार । सद्यः सर्वानपि प्रसाददानेनानुगृह्य श्रीचन्द्रमौळीश्वराराधनाय अन्तरयासीत् ।

प्रतिदिनमपि पूजादर्शनायागतैस्तैः 
नगरजनसमूहैः पीडिते मण्डपेऽस्मिन् । 
श्वसितुमपि जनानां दुर्लभः सोऽवकाशः 
तदपि सततपूजादर्शनं न त्यजन्ति ॥ ११ ॥

पूजावसानसमयेऽनुदिनं सहस्र-
युग्माधिको जनचयो घृतसूपयुक्तम् । 
सव्यञ्जनं सरसपायसमक्ष्यपूर्णं  
मोदादभुङ्क्त किल भोजनमर्प्यमाणम् ॥ १२ ॥ 

द्राक्षामाक्षिकनूतनामृतरुचेः शिक्षाविधौ दीक्षितं 
श्रीमद्देशिकसार्वभौमसदुपन्यासोपदेशं मुदा । 
वेदार्थाभिमतं सतां बहुमतं दूरीभवद्दुर्मतं 
श्रुत्वाऽनन्दपयोनिधौ प्रतिदिनं मग्नाः समस्ता अपि ॥

अपि च । 

स्मृतीरितनरोचितामलसुधर्मसंबोधिनीं
कुधीजनसुधीकृतिप्रथितचातुरीभासुराम् । 
जगद्गुरुवरोद्भवां सरससाधुवाचाझरीं 
निपीय सकला जना अतनिषुर्हि सार्थाञ्जनिम् ॥

अथ तत्क्षेत्रविराजमानश्रीमीनाक्षीसुन्दरेश्वरालयप्रधानाधिकारिणा समर्यादं श्रीस्वामिदर्शनार्थं प्रार्थितः तत्रभवान् भुवनगुरुवरः यथा सम्प्रदायं निर्गत्य प्रथमतो विघ्नेश्वरदर्शनं विधाय तदनन्तरं बाह्यमण्डप एव विलसत्कलशिष्यसमूहः  श्रीसुन्दरेश्वरसन्निधिं प्राप्य एकान्ते तमेवं प्रार्थयाञ्चकार ।

तथाहि, 

यस्मात् सूनशरस्य शक्तिरतुला जातात्मनश्चेत्यहो
मारः नो कलयन् समस्तजगतां नाथेऽपि शम्भो त्वयि ।
किञ्चिच्चेष्टितुमुद्यतः स्वयमभून्नाम्नावशिष्टः परं
तादृक्षं परमेश्वरं भवति को वेत्तुं पटुस्त्वां भुवि ॥

किं च, 

लोकानामवनाय पाण्ड्यनृपतेर्वेत्रेण सन्ताडनं
मृद्भारोद्वहनं विषाशनमथो पार्थाहतिस्तादृशी । 

गण्डूषाम्ब्वभिषेचनं दृढशिलाघातं शिवेत्यादिकं
कष्टं प्राप्तो ब्रवीमि करुणां किं ते त्रिलोकेश्वर ॥ 

कृतनतजनरक्षो दग्धमाराख्यकक्षः 
कलितगरलभक्षो दत्तदुष्टौघशिक्षः 
स्ववशगतसमाक्षः पातु मां द्राक् सदक्षो 
रविशशिलसमाक्षः सुन्दरेशोऽसदृक्षः ॥ १७ ॥ 

इति सम्प्रार्थ्य तस्मात् भगवत्याः त्रिलोकजनन्याः श्रीमीनाक्ष्याः सन्निधिमधिगम्य तामपि स्तोतुमुपचक्रमे । 

श्रुत्यादिपूज्य वचनान्यपि लोकमातः 
स्तोत्रे तवेशि नितरां भयमावहन्ते ।
एवं स्थिते भगवति स्तुतिकर्म तत्ते 
कर्तुं कथं प्रभवति प्रथितो बुधोऽपि ।। १८ ।। 

अनादिशुद्धरूपिणीमचिन्त्यशक्तिभासुरां 
समस्तलोकपूज्यपादपङ्कजद्वयां शिवाम् ।
महेशवामवासिनीं निशेशभूषणोज्ज्वलां 
सुमन्त्रयन्त्ररूपिणीं महेश्वरीं सदा भजे ॥ १९ ॥ 

नानावेदवनोद्भवा सुकृतिना केनाऽपि लभ्यापरं 
मानातीतमहातनुर्विदधती ज्ञानाभिधं सत्फलम् । 
दानापास्तसुरद्रवैभवभरा सेनापतिप्रेमगा 
मीनाक्षीति विभाति कापि लतिका सूनायुधारिप्रिया ॥ 

इति प्रार्थयन् श्रीजगदाचार्यः तस्मान्निर्गत्य प्रदक्षिणपूर्वकं निजनिवासस्थानमभजत् । अथ कदाचित् पूर्वसर्वाधिकारी श्रीस्कन्दस्वाम्याचार्यः श्रीजगद्गुरुनाथाज्ञया श्रीचन्द्रमौलीश्वरदर्शनाय नातिविलम्बेनागन्तव्यमिति मधुरातः समागतां पत्रिकामालोक्य सद्यः श्रीमहास्वामिवन्दनाय मधुरां प्राप्य श्रीकल्याणमण्डपे विराजमानं श्रीमठमाससाद । ततः तत्रस्थ सर्वाधिकारिणा समर्यादमाहूतः श्रीमदाचार्यदर्शनाय स एव समुचितः समय इति विज्ञाय तस्मात् श्रीगुरुदर्शनोचितनालिकेरफलाद्यलङ्कृतपाणिः सभक्तिश्रद्धं गत्वा फलादीनि तत् सन्निधौ समर्प्यावन्दिष्ट । उत्थानानन्तरं श्रीगुरुराट् शिशिरशिशिरेणानुग्रहगर्भितेन
निजकटाक्षेण सप्रेम तं निरीक्ष्य कुशलप्रश्नपूर्वकं कस्मादिदानीमागम्यत इत्यपृच्छत् । स्कन्दस्वाम्यार्यः कुम्भघोणनगरादिति व्यजिज्ञपत् ।

श्रीगुरुवरः भवतः कथं भवत्यवकाशोऽधुना ।
स्कन्दस्वाम्यार्यः :- श्रीमतामाज्ञापरिपालने सर्वदाप्यवकाश एव । 
श्रीगुरुवरः दृढतरगुरुभक्तियुक्तानां वचनमेवमेव भवेत्, तत्रोचितमिति अस्माभिः सौकर्यं सम्यक् ज्ञात्वाऽऽज्ञा दातव्येति पृच्छ्यते । 
स्कन्दस्वाम्यार्यः यदा मदीयजन्मान्तरीयभाग्यवशाच्छ्रीमदाज्ञाविषयो भवेयं तदा सर्वमप्यसौकर्यं स्वयमेव पलायेत । अवकाशोऽपि सम्पूर्णः स्वयमेव सज्जो भवेत् । तदादिश्यतां निःशङ्कं जागरूकोऽस्मि तत्रभवदीयानुग्रहेण यथाशक्त्यनुष्ठातुमिति । 
श्रीगुरुवरः विजययात्राप्रस्थानात् पूर्वं यत्प्रार्थितं श्रीजम्बुनाथक्षेत्रनिवासिभिः अस्माभिरपि श्रीपरदेवतायाः सङ्कल्पानुगुणं सिद्ध्येदित्युक्तं तादृशं श्रीताटङ्कप्रतिष्ठामहोत्सवकार्यं भाविवत्सरे पूरणीयमिति श्रीपराशक्तेः सङ्ककल्पो भवेदिति प्रतिभाति । तत्कार्यं नातिविलम्बेन कर्तव्यमिति । 
स्कन्दस्वाम्यार्यः प्रागेव कर्तव्यमिति ममाभिप्रायः । इदानीमेव तस्य पुण्यकालः समागत इति मन्ये । शीघ्रमेव तत्कार्य्यमेव । तदर्थं मया यदनुष्ठेयमिति श्रीमदाज्ञा प्रवर्तते तां शिरसा वहामीति । 
श्रीगुरुवरः भवादृशशिष्यमुखेनैव सर्वे करणीयमस्मादृशानाम् । 
स्कन्दस्वाम्यार्यः लोकक्षेमाय करिष्यमाणस्य एतादृशोत्तमकैङ्कर्यस्यापि अनुपयुक्तेन अनेन शरीरेण किंवा प्रयोजनं पुण्यशालिभिरेव लभ्यमिदं कार्यम् । यतः एकत्र, श्रीपरदेवताकैङ्कर्यम् । अपरत्र श्रीमहागुरूणामाज्ञा । किमतोप्यत्तमं कार्यमस्तीति। श्रीगुरुवरः – भवदीयहृदि यद्वर्तते तदनुवदति वागपि कार्यमपि तथैव स्यात् । सर्वेऽप्येवमेव मन्येरन्वा भवतु । आत्मनाथक्षेत्रे प्रागेव कश्चन मुहूर्तं निश्चित्य अन्यैरपि ज्योतिःशास्त्रप्रवीणैरङ्गीकृतः स च मुहूर्तः भाविनि चैत्रमासे एकोनसप्तदशदिवस इति । स्कन्दस्वाम्यार्यः मयापि केषाञ्चित् पण्डितानां निकट आलोचितः स एवाङ्गीकृतः ।
श्रीगुरुवरः तमेव मुहूर्तं निश्चित्य उपक्रम्यतामद्यप्रभृति तत्कार्यायेति । स्कन्दस्वाम्यार्यः निमित्तं सूचयति । 
तथा हि, 
सुन्दरसुन्दरघण्टामङ्गलशब्दो निवेदयत्येवम् ।
अखिलाण्डनायिकायाः प्रचलेन्निर्विघ्नमुत्सवं चेति ॥
श्रीगुरुवरः – तयोरेवादिदम्पत्योरनुग्रहेण पूरणीयमिदं केवलं निमित्तमात्रमेवास्मादृशानां प्रयत्नमिति ।
स्कन्दस्वाम्यार्यः गृहीतः श्रीमहास्वामिनिर्देशः शिरसेति प्राणंसीत् ।
श्रीगुरुवरः सायन्तनानुष्ठानसमय आयात इति प्रसादानयनाय समादिशत् पूजागृहवासिनम्; सोऽपि झटिति प्रसादं समार्पयत् । 
श्रीगुरुवरः निर्विघ्नमेतत्कार्यकरणाय प्रथमतः श्रीचन्द्रमौलीश्वरप्रसादो गृह्यतामिति सानुग्रहमदात् । 
स्कन्दस्वाम्यार्यः सप्रणामं तं गृहीत्वावाप्तानुमतिः बहिरागतः । 

श्रीगुरुवरः –
अङ्गीकृतार्थवहने कृतसाहसेऽस्मिन् 
धीरे निवेदितमिदं बहुभक्तियुक्ते । 
तत्स्वीकृतं च वचनं कुतुकेन तेन 
साहाय्यमस्य करणीयमपेक्षितं च ॥ २२ ॥ 

इत्यालोचयन्दिनावसानकर्तव्यनियमानुष्ठानाय ययौ । 

इत्थं कृपाभरजुषा गणपत्याभिख्य-श्रीमद्गुरोर्मृडवधूकरुणाप्तिहेतोः पञ्चापगेशकविना रचितेऽत्र चम्पू-ग्रन्थे समाप्तिमगमत्स्तबकश्चतुर्थः ॥  २३ ॥