Menu

markandeya-samhita

॥ मार्कण्डेयसंहितायां श्रीशङ्करवैभवम् ॥

श्री-शङ्कर-गुरु-चरण-स्मरण·मभीष्टा·र्थ-करण·मखिलानाम् ।
सम्भवतु सर्वदा मम सम-रस-सुख-भाग्य-दान-निपुण-तरम् ॥ १ ॥
श्री-शङ्करा·चार्य-पदा·रविन्द-सेवा हि सर्वे·प्सित-कल्प-वल्ली ।
लभ्येत जन्मा·न्तर-पुण्य-योगात् सु-जन्मभिः शुद्ध-मनो·भिषङ्गैः ॥ २ ॥
शङ्कर-गुरु-चरणा·म्बुज·मखिल-जग·न्मङ्गलं मन·स्यनिशम् ।
कलयामि कलि-मला·पह·ममित-सुखा·धायकं बुधे·न्द्राणाम् ॥ ३ ॥
लोका·नुग्रह-तत्परः परशिवः सम्प्रार्थितो ब्रह्मणा
चार्वाका·दि-मत-प्रभेद-निपुणां बुद्धिं सदा धारयन् ।
काल·ट्याख्य-पुरो·त्तमे शिवगुरु·र्विद्या·धिनाथ·श्च यः
तत्-पत्न्यां शिव-तारके समुदितः श्री-शङ्करा·ख्यां वहन् ॥ ४ ॥
ज्ञात्वा पञ्चम-हायने च निखिलं शास्त्रा·र्थ-तत्वं सुखात्
अश्वि·न्याह्वय-तारके यति-वरो भूत्वा नदी-मध्य-गः ।
श्री-गोविन्द-गुरु-प्रसाद-सितया बुद्ध्या मुहु·र्विद्विषः
जिग्ये तिल्ल-वने प्रशस्त-तर-धीः श्री-शङ्करा·ख्यः सु-धीः ॥ ५ ॥
परितप्त-पञ्च-लोह-स्रुति-पानेना·तिविस्मितान् शिष्यान् ।
परिहृत्य परम-योगी परमै·कान्ता·तिसुख·मगा·दखिलम् ॥ ६ ॥
नेपाले·श्वर·माकलय्य त·दनु श्री-नीलकण्ठे·श्वरं
हैमं शैल·मपार-पुण्य-बदरी-केदार-मारा·दगात् ।
श्रीशैलं कनका·चलं शुभ-महा-कैलास·मासेदिवान्
लोका·नुग्रह-काम्यया नि·रुपमः श्री-शङ्करा·र्यो गुरुः ॥ ७ ॥
नेपाले·श्वर-पञ्च-वक्त्र-कमला·मोदा·तिभारो·ल्लसत्-
पञ्च-द्वार-शुभा·लये निवसतिं कृत्वाऽथ योगी·श्वरः ।
वाच्छा-सिद्धि·मवाप्य विश्व-जनकं श्री-नीलकण्ठे·श्वरं
प्राप्य प्रौढ-तप·श्चचार च ततः श्री-मेरु-शैलं ययौ ॥ ८ ॥
तत्र स्वर्ण-शिलो·च्च-सानु-शिखर-प्रत्यन्त-शैलान् गुहाः
वेदान्ता·गम-सप्त-कोटि-सु-महा-मन्त्रान् महा·घा·पहान् ।
सम्भाव्या·तितरां पुरश्चरणया लब्ध्वाऽष्ट सिद्धी·स्ततः
कृत्वा मेरु-नुतिं महा·र्थ-जनिकां कैलास-शैलं ययौ ॥ ९ ॥
गत्वा कैलास-शैलं जग·दखिल-गुरुः शङ्करा·चार्य-योगी
दृष्ट्वा सा·म्बं शिवं तं स्वय·मिति सुचिरं चिन्तय·न्नन्तरङ्गे ।
लब्ध्वा पञ्चा·त्म-लिङ्गा·न्यमल-तर-शुभा·लिङ्गिता·न्यङ्ग-भाजां
भूत्यै सौन्दर्य-सारं हिम-गिरि-दुहितुः प्रापयन् गा·मयासीत् ॥ १० ॥
काञ्च्यां श्री-कामकोटीं कलि-मल-शमनीं कल्पयित्वा सुरे·शे
श्री-विद्या-राज-पीठा·र्चन-महित-महाराज्य-साम्राज्य-लक्ष्मीम् ।
संवेश्या·त्मीय-शिष्ये सकल-भुवन-सम्मोद-हेतो·र्महा·त्मा
चिद्-रूपः स्वा·नुभूतिं भजति भव-महाम्भोधि-सन्तारणाय ॥ ११ ॥
शिव-लिङ्गं प्रतिष्ठाप्य चिदम्बर-सभा-तले ।
मोक्ष-दं सर्व-जन्तूनां भुवन-त्रय-सुन्दरम् ॥ १२ ॥
वैदिकान् दीक्षितान् शुद्धान् शैव-सिद्धान्त-पार-गान् ।
पूजा·र्थं युयुजे शिष्यान् पुण्या·रण्य-विहारिणः ॥ १३ ॥
सिद्धि-लिङ्गं तु केदारे नीलकण्ठे वरे·श्वरम् ।
प्रतिष्ठाप्य महायोगी परां प्रीति·मवाप सः ॥ १४ ॥
काञ्च्यां श्री-कामकोटौ तु योग-लिङ्ग·मनुत्तमम् ।
प्रतिष्ठाप्य सुरेशा·र्यं पूजा·र्थं युयुजे गुरुः ॥ १५ ॥
श्री-शङ्करा·र्य-योगी शृङ्गगिरि-स्थान·मगम·दखिले·शः ।
श्री-शारदा·ख्य-पीठे शिव-लिङ्गं भोग-नामकं चक्रे ॥ १६ ॥
अहोबिल-नृसिंहा·ख्य-स्थले श्री-शङ्करो गुरुः ।
नृसिंह-यन्त्रो·द्धरणं चकार जगतां मुदे ॥ १७ ॥
श्री-वेङ्कटे·श-वृष-शैल·मुपेत्य योगी
यन्त्रं जगत्-त्रय-वशीकरणो·द्यतं तत् ।
चक्रे चरा·चर-गुरु·र्जगतां विभूत्यै
श्री-शङ्करो निगम-शेखर-पार-गोऽयम् ॥ १८ ॥
ये वा राज-कुलो·द्भवा गुरु-पदा·म्भोजा·र्चनं भक्तितः
ना·तन्वन्ति न मानयन्ति न च वा सम्मोद·मायान्ति वै ।
स·न्त्युर्वी-विभवे त एव धन-धान्यै·श्वर्य-हीनाः क्षणात्
क्षीणा यान्ति पराजयं ननु ततः श्री-देशिकं पूजयेत् ॥ १९ ॥
ये वा गुरु-चरणा·म्बुज-विद्वेषं तन्वते दु·रात्मानः ।
ते दुर्गति·मचिरेण प्राप्य पत·न्त्यन्ध-तामिस्रे ॥ २० ॥
ये रुद्रा·क्ष-विभूतिभिः कृत-शुभा·लङ्कार-देहा महा…
देव-ध्यान-जपा·र्चनासु निरता·स्तैः शङ्करा·र्यो गुरुः ।
सम्पूज्यः सततं सुदूर-धरणा·व·प्यास्थितः श्री-पतिः
ब्रह्मा सा·म्ब-सदाशिवोऽपि वितर·न्त्येतेषु राज्य-श्रियम् ॥ २१ ॥
सङ्कट-समये जगतां शङ्कर-गुरु-चरण-पङ्कजं शरणम् ।
इति जय-घण्टा-घोषः कस्य मनो·दन्तिनं न भूषयति ॥ २२ ॥
काशी-प्रमुख-महा-स्थल-संस्थापित-सकल-धर्म-सारोऽयम् ।
गुरु·रपि च मेरु-मन्दर-कैलासा·दि·ष्वमेय-महिमाऽव्यात् ॥ २३ ॥
महा-त्रिपुर-सुन्दरी-रमण-चन्द्रमौली·श्वर-
प्रसाद-परिलब्ध-वाङ्मय-विभूषिता·शा·न्तरम् ।
निरन्तर·मुपास्महे निरुपमा·त्म-विद्या-नदी-
नदी-नद-पति-प्रभं मनसि शङ्करा·र्यं गुरुम् ॥ २४ ॥
स्मरामो मानसे नित्यं शङ्करा·चार्य-पादुकाम् ।
भवा·म्भोधि-महा-नौकां भक्त-श्री-कामधेनुकाम् ॥ २५ ॥
आदित्यं जग·दम्बिकां हरि·मिभे·न्द्रा·स्यं महे·शं गुहं
पूजायै परिपूर्ण-मानस-तया मेने यतिः शङ्करः ।
शिष्येभ्य·श्च ददौ मुदा सुविमलां श्री-शैव-पञ्चा·क्षरीं
विद्या-वैदिक-मार्ग-दर्शन-गुरुः श्री-ष·ण्मत-स्थापकः ॥ २६ ॥
जग·दखिल-गुरु·रवादी·दखिलान् शिष्यान् प्रति प्रसन्न-मनाः ।
अद्वैत-मत-निविष्टैः पञ्चा·यतना·र्चनं प्रकर्तव्यम् ॥ २७ ॥
एवं निर्णय·मतनोद् वैदिक-मार्ग-प्रवर्तको योगी ।
तस्माद् गुरु-परिचरणे चेतः सन्धाय त·न्मते तिष्ठेत् ॥ २८
श्री-शङ्करा·चार्य-पदा·रविन्द-भक्तेषु भद्राणि भवन्ति नित्यम् ।
निद्रां विहाया·थ समस्त-लोकै·र्मुद्रा तदीया शिरसै·व धार्या ॥ २९ ॥
शङ्कर-गुरु-वर-चरितं न्यङ्क-मतीनां दुरासदं भरितम्
परमा·मृत-रस-पूर्णैः परमा·नन्दै·कदायि पठनीयम् ॥ ३० ॥
गुरु-पाद-भजन-सम्भ्रम-सम-रस-सुख-भरित-मानसाः सरसाः ।
संसृति-महा-समुद्रं सन्तीर्या·नन्द-रूप-तां यान्ति ॥ ३१ ॥
इति श्रीमार्कण्डेयसंहितायां शतखण्डात्मिकायां द्विसप्ततितमखण्डे सप्तमपरिस्पन्दः ॥

श्री-देशिकः पद्मपदं स्व-शिष्यं पाखण्ड-खण्डा·र्थ·मतिप्रचण्डम् ।
शृङ्गा·द्रि-देशे श्रित-तुङ्ग-भद्रे नियोजयामास स शङ्करा·र्यः ॥ १ ॥
सुरेश्वरा·चार्य-वरं स्व-शिष्यं काञ्ची-पुरी-सुन्दर-कामकोटौ ।
श्री-चन्द्रमौली·श्वर-पूजना·र्थं नियोज्य चक्रेऽस्य धरा·धिपत्यम् ॥ २ ॥
श्री-काञ्ची-कामकोटी-निलय-शशिकलो·त्तंस-पूजा-धुरीणं
पारीणं श्री-कलायां परम-गुरु-पदा·धीश्वरं योगि-राजम् ।
ये वा ना·र्चन्ति भूमौ शुभ-तर-परमा·द्वैत-सिद्धान्त-मार्गो·
द्योतं श्री-राज्य-सिंहा·सन-पद-द·महो पामरा·स्ते पतन्ति ॥ ३ ॥
ये सेवन्ते गुरुं तं सतत·मनुगता योजनानां शतेऽपि
प्राप्य स्थानं प्रकामं नि·रवधि-धन-धान्या·धिराज्यं श्रयन्ते ।
पुत्रान् पौत्रान् प्रपौत्रान् दुहितृ-जन·मपि प्रौढ-भाग्यं च भोग्यं
योग्या·गाराणि रामाः शर·दुडुप-मुखी·र्मोक्ष-साम्राज्य-लक्ष्मीम् ॥ ४ ॥
काञ्ची-पीठा·धिपं ये यति-पति·मखिला·चार्य·माखण्डल-श्री-
सम्पन्नं पन्नगा·रि-ध्वज-विधि-हरिभि·र्भाव्यमानं शरण्यम् ।
ते सातत्यं रमन्ते कलश-जलधि-जा·मायु·रारोग्य-युक्ताः
स्थाने·ष्वानन्द-भूम·स्वनवरत-शुभै·श्वर्य-भाजो महीपाः ॥ ५ ॥
ये चो·न्मत्ता·न्तरङ्गा गुरु-वर-चरणा·म्भोज-सेवा-विहीनाः
हीना·स्ते सर्व-सौख्यै·र्निरय-वसतयो निन्दिताः सर्व-लोकैः ।
कृत्वा कृत्वाऽन्य-देवा·र्चन·मपि सुकृता·न्यातता·न्यात्म-विद्या-
राहित्या·दात्म-हाना·दहह कु-जननं प्राप्नुवन्ती·ह ते वै ॥ ६ ॥
तस्मात् सर्वा·त्मना सर्व-पुरुषा·र्थै·क-हेतवे ।
सेतवे सर्व-धर्माणां गुरवे स्पृहयेद् बुधः ॥ ७ ॥

इति श्रीमार्कण्डेयसंहितायां शतखण्डात्मिकायां द्विसप्ततितमखण्डेऽष्टमपरिस्पन्दः ॥