Guroravatara Katha
॥ आनन्दगिरीयशङ्करदिग्विजये द्वितीये प्रकरणे गुरोस्वतारकथा ॥
कालट्याख्ये ग्रामवर्ये केरलानामलङ्कृते ।
विद्याधिराजतनयः प्राज्ञश्शिवगुरुर्बभौ ॥
(ततस्सदाशिवश्शम्भुर्लोकानुग्रहतत्परः ।)
ततो महिम्ना तत्पत्न्यां प्रविवेश स्वतेजसा ॥
सा दधार सती गर्भमादित्यसमतेजसम् ।
व्यजायत शुभे काले पञ्चोच्चग्रहसंयुते ॥
अनन्दन् बान्धवास्सर्वे पुष्पवर्षैदिवच्युतैः ।
शम्भोर्वरमनुप्राप्य पिता शिवगुरुः किल ॥
आयुषो ह्रस्वतां जानन्नपि नोवाच किञ्चन ।
सर्वज्ञत्वादिसुगुणान् शम्भूक्तान् तस्य संस्मरन् ॥
तेजसा तस्य च शिशोः सूतिगेहोदरस्थितेः ।
नैशं तमो निववृते तदद्भुतमिवाभवत् ॥
(स्त्रियो विप्राश्च शूदाश्च बाला वृद्धास्तथाऽपरे ।
तं सुजातमभिप्रेक्ष्य शम्भुरित्येव मेनिरे ॥)
सद्यः पुष्पफलाकीर्णास्तरवः सर्वतोऽभवन् ।
प्रसेदुश्च दिशस्सर्वाः सलिलं विमलं बभौ ॥
नकुलाहिश्वहरिणसिंहदन्तावलादयः ।
अन्योन्यवैरमुत्सृज्य शेमुः शमधना इव ॥
जनाजनपदव्रातादुत्तमाधममध्यमाः ।
आयाताः प्रेक्षितुं सर्वे तं सुवर्णसमौजसम् ॥
सौगतस्य करात्तत्र कस्यचिज्जनसंसदि ।
प्रभ्रष्टमपतद्भूमौ पुस्तकं तन्मतार्चितम् ॥
वेदवेदान्तविषया वादाः सुबहवोऽभवन् ।
(प्रसेदुश्च दिशस्साः सलिलं विमलं बभौ) ॥
वेदव्यासस्य हृदयमभीष्टार्थसमुद्भवात् ।
प्रहर्षमतुलं लेभे विनियोगविदो गिराम् ॥
तस्य शङ्कर इत्याख्यां चक्रे शिवगुरुस्ततः ।
इत्थं विचित्ररूपतेजोगुणगाम्भीर्यादियुक्तः शैशवेऽपि प्राकृतमागधीगीर्वाणादिसर्वभाषाकुशलः सरस्वतीविलास इव अपूर्वशङ्करः शङ्करस्समवर्तत।सर्वविद्या-प्रपञ्च(त): प्रपञ्चातीत इव सम्यग्ज्ञानवशाज्जीवन्मुक्त इव किल अनालस्यादभवद्भगवानाचार्यः । षड्दर्शनमूलः इतिहासस्थाणुः निगमशाखः षडङ्गपल्लवः सूत्रपुष्पः मन्त्रशलाटुः ज्ञानफलः श्रीशङ्करः कल्पवृक्ष आसीत् ॥
तस्यान्व(र्थः समा) लोच्य जहृषुः परमर्षयः ॥
दिनैः पक्षैश्च मासैश्च वर्षैश्च ववृधे सुतः ।
पञ्चवर्षस्य वर्णादिग्रहणेनास्य धीमतः॥
उपनीतिमकृत्वेव ममार महितः पिता ।
तस्यौर्ध्वदैहिकं साध्वी चकार ज्ञातिभिस्समम् ॥
अथोपनाययामास माता तनयमात्मनः ।
सदाचारवता गोत्रजन्मनैव विपश्चिता ॥
चतुरोऽधिजगो वेदान् पञ्चमेऽब्दे स धीरधीः ।
शास्राण्यपि च सर्वाणि बाल एव व्यगाहत ।
चकार मातृशुश्रूषामतिमानुषकर्मकृत् ॥
इत्यानन्तानन्दगिरिकृतौ गुरोस्वतारकथा नामप्रकरणद्वितीयम् ॥
॥ अद्वैतस्वरूपकथनम् ॥
स्वर्गे यथा कल्पतरुस्तथा भूमौ हि शङ्करः ।
सुराणां भूसुराणाञ्च वाञ्छितार्थप्रदोऽभवत् ॥
वेदे ब्रह्मसमः तदङ्गनिचये गर्गोपमः तत्कथा-
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंसर्गणे ।
आसीज्जैमिनिरेव तद्वचनदः प्रोद्बोधकन्दे समो
व्यासेनेव मदीयसद्गुरुरसौ श्रीशङ्कराख्यः क्षितौ ॥
अद्वैतार्णवपूर्णचन्द्रमभिदापद्माटवीभास्करं
विद्वत्कोटिसमचिताङ्घ्रियुगलं प्रद्वेषकक्षानलम् ।
हृद्याभेद्यसमस्तवेदजनितप्रोद्यद्विवेकाङ्कुरं
स्विद्यद्वागमृतं परात्परगुरुं श्रीशङ्करं तं भजे ॥
अर्धेन्दुललाटः पूर्णेन्दुमुखः विशालवक्षा आजानुबाहुः गुरुनितम्बः पीनोरुः गूढगुल्फः स्वल्पपादः शोणनखः करपादमध्यस्थलेषु शङ्खचक्रादिचिन्हितः, शिरसि वामभागे त्रिशूलचिन्हः, दक्षिणभागेत्वर्धचन्द्रचिन्हः एवमङ्कद्वयेन साक्षाच्चिदम्बरेश इव विराजमानः समप्रमाणशिराः, मौञ्जीदण्डाजिनभूतिधारणादिभिः शास्त्रविधिरेवमनुष्ठेय इति सर्वमर्त्यान् बोधयन् शिष्यबोधनार्थमुपाध्यायानुज्ञावशाद्ब्रह्मासने चतुष्षष्ठिकलापटात्मके चतुर्दशविद्यामणिविराजिते सहस्रवेदप्रभादीपिते
सूत्रेतिहासतन्त्रविराजिते तापनीया- गममन्त्रयन्त्रतन्त्रादिषट्त्रिंशदङ्गुलोच्छ्रिते, प्रागद्रौ बालभानुरिव, ब्रह्माण्डगोलके ध्रुव इव, जनककृतद्वादशवार्षिके सत्रे याज्ञवल्क्य इव परीक्षिन्नरेन्द्रस्य ज्ञानबोधसमये शुक इव, मेरुमस्तके तपश्चर्याङ्गीकारोचिते व्यास इव, रामकथाप्रगातृत्वकाले वाल्मीकिरिव, भाष्योपदेशकाले पतञ्जलिरिव,देवानां शिक्षासमये सुराचार्य इव, नारदोपदेशकाले ब्रह्मेव, धर्मराजस्य तत्त्वोपदेशकाले श्रीकृष्ण इव, भोजसदसि कालिदास इव समासीनः श्रीशङ्कराचार्यगुरुरनेकशिष्याणां निगमादिसर्वशास्त्रप्रपञ्चस्य सदुपदेश माचकार ।
Sacchidanandaikyam
सच्चिदानन्दैक्यम्
ततः परं सर्वलोकगुरुः आचार्यः स्वशिष्यान् परमतकालानलादियतीन् तदन्यांश्च तत्र तत्र विषयेषु प्रेषयित्वा तदनन्तरं समीपस्थं इन्द्रसंप्रदायानुवर्तिनं सुरेश्वराचार्यमाहूय भो शिष्य ! इदं मोक्षलिङ्गं चिदम्बरस्थले प्रेषय इत्युक्त्वा स्वयं स्वलोकं गन्तुमिच्छुः काञ्चीनगरे मुक्तिस्थले कदाचिदुपविश्य स्थूलशरीरं सूक्ष्मेऽन्तर्धाप्य तद्रूपो भूत्वा सूक्ष्मं कारणे विलीनं कृत्वा चिन्मात्रो भूत्वा अङ्गुष्ठमात्रपुरुषः तदुपरि पूर्णमखण्डमण्डलाकारम् आनन्दं प्राप्य सर्वजगद्व्यापकरूपचैतन्यमभवत् ।
सर्वव्यापकचैतन्यरूपेणाद्यापि तिष्ठति ।
स एव शङ्कराचार्यो गुरुर्मुक्तिप्रदस्सताम् ॥
आकल्पमेतत्परमार्थबोधं श्रीशङ्कराचार्यगुरोः कथार्थम् ।
सच्छिष्यमुक्तिप्रदमस्तु लोके संसेवितं चार्यजनैरभेदम् ॥
अनन्तानन्दगिरिणा गुरोर्विजयमुत्तमम् ।
रचितं ये तु गृह्णन्ति ते मुक्ताः स्युः न संशयः ॥
अद्वैतार्थप्रदं लोकैरतार्थानुचिन्तकैः ।
गुरुकीर्तिप्रदं शास्त्रमुपास्यं भवति ध्रुवम् ॥
जयतु सकललोकैः सेव्यमानो गुरुर्मे
विदितसकलवेदः (द्यः) शङ्कराचार्यनामा ।
मतविदखिलकर्माण्यन्तरायाणि हत्वा
दिशतु परमतत्वः भोगमोक्षं स एव ॥
चतुस्सप्ततिसङ्ख्यैः प्रकरणैः परिशोभितम् ।
गुरुदिग्विजयं नाम शास्त्रं जयतु भूतले ॥
श्रीशङ्कराचार्यगुरोरिमं स्तवं समस्तपापौघविनाशहेतुकम् ।
पुमान् प्रयत्नेन पठत्यतन्द्रितः स याति शीघ्रं गुरुधाम मुक्तिदम् ॥
श्री शङ्कराचार्यगुरोर्महञ्जयं अनन्तनाम्ना लिखितं प्रयत्नात् ।
तद्ब्रह्मविद्भिः परिशोधनीयं विचारणीयं परमार्थसिद्धये ॥
॥ इत्यनन्तानन्दगिरिकृतौ सचिदानन्दैक्यं नाम प्रकरणं चतुःसप्ततिकम् ॥