Menu

Moolam

मूलं पाठनिर्णयश्च 

॥ श्रीः ॥

शिवरहस्ये नवमांशे शङ्करप्रादुर्भावो नाम षोडशोऽध्यायः ॥

पाठःविवरणम्
गुरुरत्नमालापुस्तकस्थः
जङ्गमवाडीमठस्थः
सरस्वतीमहालयप्रकाशितः
भूयांसि विवरणानि अधः वर्तन्ते

स्कन्द उवाच

तदा गिरिजया पृष्टस्त्रिकालज्ञस्त्रिलोचनः ।
भविष्यच्छिवभक्तानां भक्तिं संवीक्ष्य1 विस्मयन् ॥१॥
मौलिमान्दोलयन्देवो बभाषे वचनं मुने ।
शृणु त्वमेभिर्गणपैर्मुनीशैश्च सुरैस्तथा ॥ २ ॥
प्रभावं शिवभक्तानां भविष्याणां कलावपि2

ईश्वर उवाच

शृणु देवि भविष्याणां भक्तानां चरितं कलौ ॥ ३ ॥
वदामि सङ्ग्रहेणाहं3 श्रवणाद्भक्तिवर्धनम् ।
गोपनीयं प्रयत्नेन नाऽऽख्येयं यस्य कस्यचित् ॥ ४ ॥
पापघ्नं पुण्यमायुष्यं श्रोतॄणां मङ्गलावहम् ।
पापकर्मैकनिरतान्विरतान्सर्वकर्मसु ॥ ५ ॥
वर्णाश्रमपरिभ्रष्टान्4 अधर्मप्रवणान् जनान् ।
कल्यब्धौ मज्जमानांस्तान् दृष्ट्वाऽनुक्रोशतोऽम्बिके5 ॥ ६ ॥
मदंशजातं देवेशि कलावपि तपोधनम् ।
केरलेषु तदा विप्रं जनयामि महेश्वरि ॥ ७ ॥
तस्यैव चरितं तेऽद्य वक्ष्यामि शृणु शैलजे ।
कल्यादिमे6 महादेवि सहस्रद्वितयात्परम् ॥ ८ ॥
सारस्वतास्तथा गौडा मिश्राः7 कर्णाजिना द्विजाः ।
आममीनाशना देवि8 ह्यार्यावर्तानुवासिनः ॥ ९ ॥
औत्तरा विन्ध्यनिलया भविष्यन्ति महीतले ।
शब्दार्थज्ञानकुशलास्तर्ककर्कशबुद्धयः9॥ १० ॥
जैना बौद्धा बुद्धियुक्ता मीमांसानिरताः कलौ ।
वेदबोधितवाक्यानामन्यथैव प्ररोचकाः ॥ ११ ॥
प्रत्यक्षवादकुशलाश्शल्यभूताः कलौ युगे10
मिश्राश्शास्त्रमहाशस्त्रैरद्वैतोच्छेदिनोऽम्बिके11॥ १२ ॥
कर्मैव परमं श्रेयो नैवेशः फलदायकः ।
इति युक्तिपरामृष्टवाक्यैरुद्बोधयन्ति च ॥ १३ ॥
तेन घोराः कुलाचाराः कर्मसारा भवन्ति च12
तेषामुत्पाटनार्थाय13 सृजामीशे मदंशतः॥ १४ ॥
केरले शशलग्रामे14 विप्रपत्न्यां मदंशतः ।
भविष्यति महादेवि शङ्कराख्यो द्विजोत्तमः ॥ १५ ॥
उपनीतस्तदा मात्रा वेदान् साङ्गान् ग्रहीष्यति ।
अब्दावधि ततः15 शाब्दे विहृत्य स सुतर्कजाम् ॥ १६ ॥
मतिं मीमांसमानोऽसौ कृत्वा शास्त्रेषु निश्चयम् ।
वादिमत्तद्विपवरान् शङ्करोत्तमकेसरी ॥ १७ ॥
भिनत्त्येव16 तथा बुद्धान् सिद्धविद्यानपि द्रुतम् ।
जैनान् विजित्य17 तरसा तथाऽन्यान्कुमतानुगान् ॥ १८ ॥
तदा मातरमामन्त्र्य परिव्राट् स भविष्यति ।
परिव्राजकवेषेण मिश्रानाश्रमदूषकान् ॥ १९ ॥
xxxxxxxx xxxxxxxx18 ।
दण्डहस्तस्तथा कुण्डी काषायवसनोऽमलः ॥ २० ॥
भस्मदिव्यत्रिपुण्ड्राङ्को19 रुद्राक्षाभरणोज्ज्वलः ।
ताररुद्रार्थपारीणः शिवलिङ्गार्चनप्रियः ॥ २१ ॥
स्वशिष्यैस्तादृशैर्घुष्यन् भाष्यवाक्यानि सोऽम्बिके ।
मद्दत्तविद्यया भिक्षुर्विराजति20 शशाङ्कवत् ॥ २२ ॥
सोऽद्वैतोच्छेदकान् पापानुच्छिद्याक्षिप्य21 तर्कतः ।
स्वमतानुगतान्देवि करोत्येव22 निरर्गलम् ॥ २३ ॥
तथापि प्रत्ययस्तेषां नैवासीच्छ्रुतिदर्शने23
मिश्राः शास्त्रार्थकुशलास्तर्ककर्कशबुद्धयः ॥ २४ ॥
तेषामुद्बोधनार्थाय तिष्ये भाष्यं करिष्यति ।
भाष्यघुष्यन्महावाक्यैस्तिष्यजातान् हनिष्यति ॥ २५ ॥
व्यासोपदिष्टसूत्राणां द्वैतवाक्यात्मनां शिवे ।
अद्वैतमेव सूत्रार्थं प्रामाण्येन करिष्यति ॥ २६ ॥
अविमुक्ते समासीनं व्यासं वाक्यैर्विजित्य च ।
शङ्करं स्तौति24 हृष्टात्मा शङ्कराख्योऽथ मस्करी ॥ २७ ॥

शङ्कर उवाच

सत्यं सत्यं नेह नानास्ति किञ्चिदीशावास्यं ब्रह्मसत्यं जगद्धि ।
ब्रह्मैवेदं ब्रह्म पश्चात्पुरस्तादेको रुद्रो न द्वितीयाय तस्थे25 ॥ २८ ॥
एको देवस्सर्वभूतेषु गूढो नानाकारोद्भासिभानैस्त्वमात्मा26
पूर्णापूर्णो नामरूपैर्विहीनो विश्वातीतो विश्वरूपो27 महेशः ॥ २९ ॥
भूतं भव्यं वर्तमानं28 त्वयीशे सामान्यं वै देशकालादिहीनः ।
नो ते मूर्तिर्वेदवेद्यस्त्वसङ्गस्सङ्गीव त्वं लिङ्गसंस्थो विभासि ॥ ३० ॥
त्वद्भासा वै सोमसूर्यानिलेन्द्रा भीषैवोदेत्येष सूर्यश्च देवः29 ।
त्वं वेदादौ स्वर एको महेशो वेदान्तानां सारवाक्यार्थविद्यः30 ॥ ३१ ॥
वैद्योऽभेद्यः सर्वभूताद्यवेद्यः भिद्येत दृष्ट्या तव हृत्तमोऽद्य31
ओङ्कारार्थः पुरुषस्त्वं हितं च सत्यज्ञानानन्दभूमाऽसि सोम32 ॥ ३२ ॥
बद्धो मुक्तो नासि सङ्गिष्वसङ्गी33 प्राणप्राणो मनसस्त्वं मनश्च ।
त्वत्तो वाचा मनसा सन्निवृत्तास्तवा34नन्दज्ञानिनो बुद्धभावाः ॥ ३३ ॥
त्वत्तो जातं 35भूतजालं महेश त्वया जीवत्येतदेवं36 विचित्रम् ।
त्वय्येवान्ते संविशत्येव विश्वं त्वां वै को वा स्तौति तं स्तव्यमीश37 ।
किञ्चिज्ज्ञात्वा सर्वभावेन बुद्ध्या त्वामात्मानं वेत्ति38 देवं महेशम् ॥ ३४ ॥

ईश्वर उवाच

इति शङ्करवाक्येन विश्वेशाख्यादहं तदा ।
प्रादुर्बभूव लिङ्गात्स्वादलिङ्गोऽपि महेश्वरि ॥ ३५ ॥
त्रिपुण्ड्रविलसत्फालश्चन्द्रार्धकृतशेखरः ।
नागाजि39नोत्तरासङ्गो नीलकण्ठस्त्रिलोचनः ॥ ३६ ॥
वरकाकोदरानद्धजटाभारस्त्वयाम्बया40 ।
तमब्रवं महादेवि प्रणतं यतिनां वरम् ॥ ३७ ॥
शिष्यैश्चतुर्भिश्च युतो भस्मरुद्राक्षभूषणः ।41
मदंशतस्त्वं जातोऽसि भुवि चाद्वैतसिद्धये42 ॥ ३८ ॥
पापमिश्राश्रितैर्मार्गैर्जैनदुर्बुद्धिबोधकैः43
भिन्ने वैदिकसंसिद्धे अद्वैते द्वैतवाक्यतः ॥ ३९ ॥
तद्भेदगिरिवज्रस्त्वं सञ्जातोऽसि मदंशतः ।
द्वात्रिंशत्परमायुस्ते शीघ्रं कैलासमावस ॥ ४० ॥
एतत्प्रतिगृहाण त्वं पञ्चलिङ्गं सुपूजय ।
भस्मरुद्राक्षसम्पन्नः पञ्चाक्षरपरायणः ॥ ४१ ॥
शतरुद्रावर्तनैश्च तारेण भसितेन च ।
बिल्वपत्रैश्च कुसुमैर्नैवेद्यैर्विविधैरपि ।
त्रिवारं सावधानेन गच्छ सर्वजयाय च ॥ ४२ ॥
त्वदर्थे कैलासाचलवरसुपालीगतमहा-
समुद्यच्चन्द्राभं स्फटिकधवलं44 लिङ्गकुलकम् ।
समानीतं सोमोद्यतविमलमौल्यर्चय परम्
कलौ लिङ्गार्चायां भवति हि विमुक्तिः परतरा ॥ ४३ ॥
स शङ्करो मां प्रणनाम मस्करी मयस्करं तस्करवर्यमार्ये ।
सङ्गृह्य लिङ्गानि जगाम वेगात्45 जेतुं स बुद्धार्हतजैनमिश्रान्46 ॥ ४४ ॥
तद्योगभोगवरसिद्धिविमुक्तिनाम-लिङ्गार्चनाधिगत-दिग्विजयः प्रकामम् ।
सर्वज्ञपीठमधिरुह्य विजित्य मिश्रान् काञ्च्यां शिवे तव पुरः स च सिद्धिमाप ॥ ४५ ॥

इति श्रीशिवरहस्ये नवमांशे शङ्करप्रादुर्भावे षोडशोऽध्यायः

துணைநூல்கள்: #

  1. क इति पाठः – १८९७ लौकिकवत्सरे कलारत्नाकरमुद्रणालयेन आन्ध्रलिप्यां मद्रपुर्यां प्रकाशितः, १९६२ लौकिकवत्सरे कामकोटिकोशस्थानेन देवनागर्यां मद्रपुर्यां पुनःप्रकाशितः – गुरुरत्नमालायाः अनुबन्धत्वेन
  2. ख इति पाठः – शिवरहस्यं सदाशिवाख्यानम् – भैरवपाठकः – जङ्गमवाडी मठस्था प्रतिलिपिः – अयं पाठः क-पाठेन सङ्गच्छते
  3. ग इति पाठः – सरस्वती महाल् ग्रन्थालयद्वारा प्रकाशितः – श्रीसुब्रह्मण्यशास्त्रिणा शोधितः नवमांशः Part 1 Series No. 510
  4. ஸ்ரீ காமகோடி ப்ரதீபம் விஶ்வாவஸு, வைகாசி 14.05.1965, காஞ்சி க்ஷேத்ரமும் ஸ்படிக லிங்கமும் – கே. பாலஸுப்ரஹ்மண்ய ஐயர், பக்கம் 145-148
  5. ஸ்ரீ காமகோடி ப்ரதீபம் விஶ்வாவஸு, வைகாசி 14.05.1965, ஆனந்தகிரீய சங்கர விஜயம் – சாஸ்த்ர ரத்நாகர பண்டிதராஜ போலகம் ஸ்ரீராம சாஸ்த்ரிகள் , பக்கம் 149-153
  6. குரு ரத்னமாலை மற்றும் ஸுஷமா
  7. Age of Sankara, T.S.Narayana Sastri, Edited, T.N.Kumaraswami, B.G.Paul & Co., 1971

  1. ग: सं दी(वी)क्ष्य ↩︎
  2. ग: भविष्यताम्  ↩︎
  3. ग: सङ्ग्रहेणैव) ↩︎
  4. क: वर्णप्रस्रवणान् ↩︎
  5. ग: दयया ↩︎
  6. ग: कल्पादिमे ↩︎
  7. ग: मिश्रकर्णाजिना ↩︎
  8. ग: आर्यावर्तानुवासिनः ↩︎
  9. ग: शब्दादि ज्ञानकुशलास्तर्ककर्कशबुद्धयः ↩︎
  10. ख: शिवे ↩︎
  11. ग: महाशस्त्रैरद्वैतोच्छन्दिनोऽम्बिके ↩︎
  12. ग: कर्मसाराभवंस्तथा – कर्मसारा जनास्तथा / जनास्तथेति वा | भाविकालिकवृत्तप्रसङ्गे भूतार्थभ्रमकारिकवचनमत्र अभवन् इति न युज्यत इति श्लोके पदान्तरनिवेशः कृतः (तेथियूर् शास्त्रिणः) ↩︎
  13. ग: तेषामुद्घाटनार्थाय ↩︎
  14. ग: शललग्रामे ↩︎
  15. ग: अब्दावधि ततः षष्ठे विहृत्य स सुतर्कजाम्  ↩︎
  16. ग: भिनत्स्यति महाबुद्धान्त्सिद्धविद्यानपि ↩︎
  17. क / ग: विजिग्ये ↩︎
  18. [இங்கே ஒரு வரி விட்டுப்போயிருப்பதாக தோன்றுகிறது.] ↩︎
  19. क: भस्मदिग्धस्त्रिपुंड्राङ्गो ↩︎
  20. ग:विभास्यति शशाङ्कवत्  ↩︎
  21. ग: पापानुच्छात्साद्यक्षिप्य ↩︎
  22. ग: करिष्यति ↩︎
  23. ग: प्रत्ययं / न भवेत् श्रुतिदर्शनैः ↩︎
  24. ग: शङ्करं स्तोष्यते हृष्टः इति, संहृष्टः शङ्करं स्तोता (लुट्) इति वा सङ्गतो भवेदिति भाति ॥ (तेदियूर् सुब्रह्मण्यशास्त्रिणः)) ↩︎
  25. ग: द्वितीयोऽवतस्थे ↩︎
  26. ग: नानाकारो भासि भानस्त्वमात्मा ↩︎
  27. ग: विश्वनाथो ↩︎
  28. ग: भूतैर्भव्यैर्वर्तमानैर्  ↩︎
  29. क: अनलेन्द्राः ↩︎
  30. ग: वेद्यः ↩︎
  31. कः वेद्यो वैद्यः सर्ववेदात्मविद्यो भिद्येद्दृष्टया तव वै हृत्तमोऽद्य ↩︎
  32. ग: ओङ्कारार्थः पुरुषस्त्वं ऋतं च सत्यज्ञानानन्दभूमासि सीमा ↩︎
  33. क:सङ्गो ह्यसङ्गः ↩︎
  34. ग:तत्वा ↩︎
  35. ग: ज्ञातम्  ↩︎
  36. क: जीवत्येवमेवं विचित्रम्  ↩︎
  37. क: त्वां वैवैके स्तुवते स्तव्यमीशम् / ग: त्वय्येवान्ते संविशत्येव विश्वं त्वां वै को वा स्तुवते(?) स्तव्यमीश ↩︎
  38. ग: त्वामात्मानं वेद्मिदेवं महेशम्  ↩︎
  39. ग: नागादि ↩︎
  40. कः वरकाकोदरानद्धराजद्धारस्त्वयाम्बया / ग: राजद्वार ↩︎
  41. क: शिष्यैश्चतुर्भिसंयुक्तं भस्मरुद्राक्षभूषणम् । मदंशतस्त्वं जातोऽसि ↩︎
  42. ग: मदंशजस्त्वं जातोऽसि ↩︎
  43. ग: पापमिश्राश्रिते मार्गे जैनदुर्बुद्धिबौधकैः ↩︎
  44. ग: समुद्यच्चन्द्राभस्फटिकधवलं ↩︎
  45. ग: वेगवान् (जेतुं) सद्यः सुबुद्धार्हतमिश्रजैनान्  ↩︎
  46. ग:(जेतुं)सद्यः सुबुद्धार्हतमिश्रजैनान्  ↩︎