गणेशं नम·स्कृत्य गौरी-कुमारं
गजा·स्यं गुहस्या·ग्र-जातं गभीरम्
प्रलम्बो·दरं शूर्प-कर्णं त्रि-णेत्रं
प्रवक्ष्ये भुजङ्ग-प्रयातं गुहस्य ॥ १ ॥
पृथक्-षट्-किरीट-स्फुरद्-दिव्य-रत्न-
प्रभा·क्षिप्त-मार्तण्ड-कोटि-प्रकाशम्
चलत्-कुण्डलो·द्यत्-सु-गण्ड-स्थला·न्तं
महा·नर्घ-हारो·ज्ज्वलत्-कम्बु-कण्ठम् ॥ २ ॥
शरत्-पूर्ण-चन्द्र-प्रभा-चारु-वक्त्रं
विराज·ल्ललाटं कृपा-पूर्ण-नेत्रम्
लसद्-भ्रू-सु-नासा-पुटं विद्रुमो·ष्ठं
सु-दन्ता·वलिं सुस्मितं प्रेम-पूर्णम् ॥ ३ ॥
द्वि-षड्-बाहु-दण्डा·ग्र-देदीप्यमानं
क्वणत्-कङ्कणा·लङ्कृतो·दार-हस्तम्
लस·न्मुद्रिका-रत्न-राजत्-करा·ग्रं
क्वणत्-किङ्किणी-रम्य-काञ्ची-कलापम् ॥ ४ ॥
विशालो·दरं विस्फुरत्-पूर्ण-कुक्षिं
कटौ-स्वर्ण-सूत्रं तटिद्-वर्ण-गात्रम्
सु-लावण्य-नाभी-सर·स्तीर-राजत्-
सु-शैवाल-रोमा·वली-रोचमानम् ॥ ५ ॥
सु-कल्लोल-वीची-वली-रोचमानं
लस·न्मध्य-सुस्निग्ध-वासो वसानम्
स्फुर·च्चारु-दिव्यो·रु-जङ्घा-सु-गुल्फं
विकस्वत्-पदा·ब्जं नखे·न्दु-प्रभा·ढ्यम् ॥ ६ ॥
द्वि-षट्-पङ्कजा·क्षं महा-शक्ति-युक्तं
त्रि-लोक-प्रशस्तं सु-कुक्के-पुर-स्थम्
प्रपन्ना·र्ति-नाशं प्रसन्नं फणी·शं
पर-ब्रह्म-रूपं प्रकाशं परे·शम् ॥ ७ ॥
कुमारं वरेण्यं शरण्यं सु-पुण्यं
सु-लावण्य-पण्यं सुरे·शा·नुवर्ण्यम्
लसत्-पूर्ण-कारुण्य-लक्ष्मी·श-गण्यं
सु-कारुण्य·मार्या·ग्र-गण्यं नमामि ॥ ८ ॥
स्फुरद्-रत्न-पीठो·परि भ्राजमानं
हृ·दम्भोज-मध्ये महा-सन्निधानम्
समावृत्त-जानु-प्रभा-शोभमानं
सुरैः सेव्यमानं भजे बर्हि-यानम् ॥ ९ ॥
ज्वल-च्चारु-चामीकरा·दर्श-पूर्णं
चल·च्चामर-च्छत्र-चित्र-ध्वजा·ढ्यम्
सुवर्णा·मला·न्दोलिका-मध्य-संस्थं
महा·ही·न्द्र-रूपं भजे सु-प्रतापम् ॥ १० ॥
धनु·र्बाण-चक्रा·भयं वज्र-खेटं
त्रि-शूला·सि-पाशा·ङ्कुशा·भीति-शङ्खम्
ज्वलत्-कुक्कुटं प्रोल्लसद्-द्वादशा·क्षं
प्रशस्ता·युधं ष·ण्मुखं तं भजेऽहम् ॥ ११ ॥
स्फुर·च्चारु-गण्डं द्वि-षड्-बाहु-दण्डं
श्रिता·मर्त्य-षण्डं सुसम्पत्-करण्डम्
द्विषद्-वंश-खण्डं सदा दान-शौण्डं
भव-प्रेम-पिण्डं भजे सु-प्रचण्डम् ॥ १२ ॥
सदा दीन-पक्षं सुर-द्विड्-विपक्षं
सुमृष्टा·न्न-भक्ष्य-प्रदानै·क-दक्षम्
श्रिता·मर्त्य-वृक्षं महा-दैत्य-शिक्षं
बहु-क्षीण-पक्षं भजे द्वादशा·क्षम् ॥ १३ ॥
त्रि-मूर्ति-स्वरूपं त्रयी-सत्-कलापं
त्रि-लोका·धिनाथं त्रिणेत्रा·त्म-जातम्
त्रि-शक्त्या प्रयुक्तं सु-पुण्य-प्रशस्तं
त्रि-काल-ज्ञ·मिष्टा·र्थ-दं तं भजेऽहम् ॥ १४ ॥
विराजद्-भुजङ्गं विशालो·त्तमा·ङ्गं
विशुद्धा·त्म-सङ्गं विवृद्ध-प्रसङ्गम्
विचिन्त्यं शुभा·ङ्गं विकृत्ता·सुरा·ङ्गं
भव-व्याधि-भङ्गं भजे कुक्क-लिङ्गम् ॥ १५ ॥
गुह स्कन्द गाङ्गेय गौरी-सुते·श-
प्रिय क्रौञ्च-भित् तारका·रे सुरे·श
मयूरा·सना·शेष-दोष-प्रणाश
प्रसीद प्रसीद प्रभो चित्-प्रकाश ॥ १६ ॥
लपन् देव-सेने·श भूते·श शेष-
स्वरूपा·ग्नि-भूः कार्त्तिकेया·न्न-दातः
यदे·त्थं स्मरिष्यामि भक्त्या भवन्तं
तदा मे ष·डास्य प्रसीद प्रसीद ॥ १७ ॥
भुजे शौर्य-धैर्यं करे दान-धर्मः
कटाक्षेऽतिशान्तिः ष·डास्येषु हास्यम्
हृ·दब्जे दया यस्य तं देव·मन्यं
कुमारा·न्न जाने न जाने न जाने ॥ १८ ॥
मही-निर्जरे·शा·न्महा-नृत्य-तोषात्
विहङ्गा·धिरूढाद् बिला·न्त·र्विगूढात्
महे·शा·त्म-जाता·न्महा-भोगि-नाथाद्
गुहाद् दैव·मन्य·न्न मन्ये न मन्ये ॥ १९ ॥
सुरो·त्तुङ्ग-शृङ्गार-सङ्गीत-पूर्ण-
प्रसङ्ग-प्रिया·सङ्ग-सम्मोहना·ङ्ग
भुजङ्गे·श भूते·श भृङ्गे·श तुभ्यं
नमः कुक्क-लिङ्गाय तस्मै नम·स्ते ॥ २० ॥
नमः काल-कण्ठ-प्ररूढाय तस्मै
नमो नीलकण्ठा·धिरूढाय तस्मै
नमः प्रोल्लस·च्चारु-चूडाय तस्मै
नमो दिव्य-रूपाय शान्ताय तस्मै ॥ २१ ॥
नम·स्ते नमः पार्वती-नन्दनाय
स्फुर·च्चित्र-बर्ही-कृत-स्यन्दनाय
नम·श्चर्चिता·ङ्गो·ज्ज्वल·च्चन्दनाय
प्रविच्छेदित-प्राण-भृद्-बन्धनाय ॥ २२ ॥
नम·स्ते नम·स्ते जगत्-पावना·त्त-
स्वरूपाय तस्मै जग·ज्जीवनाय
नम·स्ते नम·स्ते जगद्-वन्दिताय
·ह्यरूपाय तस्मै जग·न्मोहनाय ॥ २३ ॥
नम·स्ते नम·स्ते नमः क्रौञ्च-भेत्त्रे
नम·स्ते नम·स्ते नमो विश्व-कर्त्रे
नम·स्ते नम·स्ते नमो विश्व-गोप्त्रे
नम·स्ते नम·स्ते नमो विश्व-हन्त्रे ॥ २४ ॥
नम·स्ते नम·स्ते नमो विश्व-भर्त्रे
नम·स्ते नम·स्ते नमो विश्व-धात्रे
नम·स्ते नम·स्ते नमो विश्व-नेत्रे
नम·स्ते नम·स्ते नमो विश्व-शास्त्रे ॥ २५ ॥
नम·स्ते नम·श्शेष-रूपाय तुभ्यं
नम·स्ते नमो दिव्य-चापाय तुभ्यम्
नम·स्ते नमः सत्-प्रतापाय तुभ्यं
नम·स्ते नमः सत्-कलापाय तुभ्यम् ॥ २६ ॥
नम·स्ते नमः सत्-किरीटाय तुभ्यं
नम·स्ते नमः स्वर्ण-पीठाय तुभ्यम्
नम·स्ते नमः स·ल्ललाटाय तुभ्यं
नम·स्ते नमो दिव्य-रूपाय तुभ्यम् ॥ २७ ॥
नम·स्ते नमो लोक-रक्षाय तुभ्यं
नम·स्ते नमो दीन-रक्षाय तुभ्यम्
नम·स्ते नमो दैत्य-शिक्षाय तुभ्यं
नम·स्ते नमो द्वादशा·क्षाय तुभ्यम् ॥ २८ ॥
भुजङ्गा·कृते त्वत्-प्रिया·र्थं मये·दं
भुजङ्ग-प्रयातेन वृत्तेन कॢप्तम्
तव स्तोत्र·मेतत् पवित्रं सु-पुण्यं
परा·नन्द-सन्दोह-संवर्धनाय ॥ २९ ॥
त्व·दन्यत् परं दैवतं ना·भिजाने
प्रभो पाहि सम्पूर्ण-दृष्ट्या·नुगृह्य
यथा-शक्ति भक्त्या कृतं स्तोत्र·मेकं
विभो मेऽपराधं क्षमस्वा·खिले·श ॥ ३० ॥
इदं तारका·रे·र्गुण-स्तोत्र-राजं
पठन्त·स्त्रि-कालं प्रपन्ना जना ये
सुपुत्रा·ष्ट-भोगा·निह ·त्वेव भुक्त्वा
लभन्ते त·दन्ते परं स्वर्ग-भोगम् ॥ ३१ ॥
॥ इति श्रीमत्-काञ्ची-कामकोटि-मूलाम्नाय-सर्वज्ञ-पीठाधिपति-जगद्गुरु-शङ्कराचार्य-श्रीमत्-सदाशिव-बोधेन्द्र-सरस्वती-श्रीचरण-अन्तेवासिवर्य-श्रीमत्-परमशिवेन्द्र-सरस्वती-श्रीचरण-विरचितं सुब्रह्मण्य-भुजङ्गं सम्पूर्णम् ॥