Menu

24. Shri Chitsukhendra Sarasvati (1)

Ashrama Name: Shri Chitsukhendra Sarasvati (1)

Birth Place: Konkana

Purvashrama Name: Shiva

Years as Pithadhipati: 15

Siddhi: 3627 Parabhava Shravana Krishna Navami (CE 0526-Aug-19)

Siddhi Place: Konkana Ratnagiri

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदा-
वादाय शासनम् अवर्तत कोङ्कणेषु। आचार्य इत्यभिधया परमार्यरक्षाम्
आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥

अपराभवोऽपि च पराभवे सितोऽ-
प्यनभस्यपीह स नभस्यथासिते। प्रशमी जगाम दशमीं च सन्नसौ
नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

समधिष्ठित-कोङ्कणे चिरेण स्वधृते साधु समाधिनाऽदरेण ।
निरतो नियमेन चित्सुखेऽस्मि श्रित-सच्चित्सुख-लक्षणे परस्मिन् ॥ ५४ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(२४) चित्सुखाचार्यम् ईडेऽहं सत्सुखं कोङ्कणाश्रयम् ॥