Menu

59. Shri Bodhendra Sarasvati (3)

Ashrama Name: Shri Bodhendra Sarasvati (3)

Appellation Bhagavannama Bodha

Birth Place: Kanchipuram

Purvashrama Name: Purushottama

Purvashrama Father’s Name: Keshava Panduranga

Years as Pithadhipati: 54

Siddhi: 4792 Prajotpatti Bhadrapada Purnima (CE 1691-Sep-07)

Siddhi Place: Govindapuram, near Madhyarjunam (Tiruvidaimarudur) near Kumbakonam

Other:
This Acharya, by instructions of His Guru, specifically popularized the importance of Bhagavannama Sankirtana. He composed many works to establish this on the basis of Shastra-s. He is the foremost Acharya honoured in the Dakshinatya Bhajana Sampradaya.

His charitra is widely published.

॥पुण्यश्लोकमञ्जरी – परिशिष्टम् – श्रीमदात्मबोधेन्द्रसरस्वतीविरचितः॥

श्रीविश्वाधिकदेशिकेन्द्रवचसा प्राप्तो दिशं दक्षिणां
प्राचीनाम्बुधिरोधसि प्रतिजगन्नाथं प्रपन्नो गृहान्।
श्रीलक्ष्मीधरशर्मणोऽस्य तनुजान्म्लेच्छीकृतां योषितं
कुर्वाणाद्द्विजसङ्गतां स नियमादध्यैष्ट भक्तेः क्रमान्॥९॥
श्रीकाञ्चीमनुविश्य देशिकपदं सम्मण्ड्य
तत्त्वोज्ज्वलैर्ग्रन्थैर्भक्तिपथं विधाय विशदं विश्वस्य मुक्त्यै कलौ।
मूकस्यापि शिशोर्महाप्रवचनप्रावीण्यदायी
मुनिर्बोधेन्द्रो जयतात् स भक्तजनताकल्लोलिनीनीरधिः॥१०॥
श्रीमन्मण्डननाम्नि काञ्चिनगरीखेटे कृतावासतः
काण्वात् केशवपाण्डुरङ्गविबुधाज्जातोऽभिजाताकृतिः।
भक्तः श्रीपुरुषोत्तमे श्रितवतां भक्त्यध्वदर्शी
महान् अध्यास्तासनम् आदिशङ्करगुरोरार्यात्मबोधाज्ञया॥११॥
आचार्यत्वम् उदूह्य साधु स चतुष्पञ्चाशदब्दं मठे
पीठे कामदृशः स्थितः प्रवचनैरद्वैतमुद्द्योतयन्।
अब्धि-ग्लौ-रस-चन्द्र-सम्मितशके (१६१४) श्रीशालिवाहाह्वये
सिद्धिं प्रापदपारधैर्यजलधिः स्वस्यैव धाम्न्यद्वये॥१२॥
प्रजोत्पत्तिप्रौष्ठपदपूर्णिमायाम् उपार्जुनम्।
भगवन्नामबोधेन्द्रो बोधसाम्राज्यम् ईयिवान्॥१३॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(५९) भगवन्नाम-साम्राज्य-लक्ष्मी-सर्वस्व-विग्रहान् ।
श्रीमद्-बोधेन्द्र-योगीन्द्र-देशिकेन्द्रान् उपास्महे ॥ ६० ॥