Menu

Aparakarunasindhum

॥ श्रीजयेन्द्रसरस्वतीशङ्कराचार्यस्वामिभिः विरचिता श्रीचन्द्रशेखरेन्द्रसरस्वतीश्लोकमालिका ॥

अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १ ॥

लोकक्षेमहितार्थाय गुरुभिर्बहु सत्कृतम् ।
स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ २ ॥

गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् ।
अनुराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ ३ ॥

मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् ।
वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ ४ ॥

कर्मकाण्डप्रचाराय वेदधर्मसभा कृता ।
वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ ५ ॥

शिलालेखप्रचारार्थम् उट्टङ्कितनिधिः कृतः ।
गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ ६ ॥

गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते ।
बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ ७ ॥

देवार्चकानां साह्यार्थं कच्चिमूदूर्-निधिः कृतः ।
बालवृद्धातुराणां च व्यवस्था परिपालने ॥ ८ ॥

अनाथप्रेतसंस्काराद् अश्वमेधफलं भवेत् ।
इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ ९ ॥

यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् ।
तत्र तेषां स्मारणाय शिलामूर्तिर्निवेशिता ॥ १० ॥

भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् ।
राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ ११ ॥

कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् ।
मूलस्योत्सवकामाक्ष्याः स्वर्णवर्मपरिष्कृतिः ॥ १२ ॥

ललितानामसाहस्रस्वर्णमालाविभूषणम् ।
श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ १३ ॥

चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् ।
करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ १४ ॥

मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् ।
रुग्णालये भगवतः प्रसादविनियोजनम् ॥ १५ ॥

जगद्धितैषिभिर्दीनजनावनपरायणैः ।
गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ १६ ॥

इति श्रीजयेन्द्रसरस्वतीशङ्कराचार्यस्वामिभिः विरचिता श्रीचन्द्रशेखरेन्द्रसरस्वतीश्लोकमालिका ॥