Menu

Bhagavad-Gita-Tatparya-Sangraha


॥ श्रीकाञ्चीकामकोटिपीठाधिपश्रीजगद्गुरुचन्द्रशेखरेन्द्रसरस्वती-विरचितो गीतातात्पर्यसङ्ग्रहः ॥

यदस्ति सच्चिदानन्दघनम् एकमेव अद्वितीयं परं ब्रह्म,
यस्य भासा सर्वमिदं विभाति,
यस्य चैतन्येन चेतनाः सर्वे चैतन्यवन्तः,
यस्य आनन्दलेशेन सर्वेऽप्यानन्दिनः,
यस्यैव रूपाणि ब्रह्मविष्णुरुद्रात्मकानि,
यस्यैव शक्तयः वागीश्वरीरमागौरीप्रभृतयः,
यदेव वटमूले स्थितं दक्षिणास्यं,
यदेव वटपत्रशयानं,
यदेव सर्वोपनिषत्सारभूतं,
यदुच्चारणादेव प्रसुस्राव भागीरथी,
यज्जटामण्डले एव सा विहरति हैमवती,
यदेव त्रिपुरान्तकं,
यदेव मधुकैटभमर्दनं,
यदेव मत्स्यादिसर्वावतारधुरन्धरं,
यदेव रघुकुलालङ्कारभूतं,
यदेव दशाननप्राणनिर्वापकं,
यदेव दैत्यराजहृदयदलनप्रवीणनखवराग्रं नरकण्ठीरववपुर्धरं,
यदेव भूभारहरणार्थं वसुदेवदेवकीतनयत्वेन कलितावतरणं,
यदेव गोकुलविहारलोलुपं,
यदेव मुरलीगानमोहितत्रिभुवनं,
यदेव कंसादिदुर्जनमत्तमस्काण्डचण्डभास्करायमाणं,
यदेव श्रीरुक्मिणीसत्यभामादिषोडशसहस्रनारीमणिकलत्रं,
यदेव युधिष्ठिरराजसूयमखवरिष्ठसमाराधितपदकमलं,
यदेव पाण्डवसारथ्यविहारप्रकटितविश्वरूपदर्शनादिवैभवप्रदर्शनेन कौन्तेयचतुरकृपारसमहार्णवभूतं,
यदेव श्रीनारद-प्रह्लाद-ध्रुव-जैगीषव्य-दत्तात्रेय-संवर्तक-जडभरत-वसिष्ठ-व्यास-पराशर-शुक-वामदेव-भीष्म-द्रोण-विदुर-सञ्जय-कुन्ती-कौन्तेय-पाञ्चाली-परीक्षित्-प्रमुख-परम-भागवत-जन-समुपासितं,
तदेव गीतामृतरसवर्षपरिशमिततापत्रयजगत्त्रितयं दयारसधनं घनश्यामं श्रीकृष्णाख्यं परं ज्योतिः परं तत्त्वं परं कारणं परं चैतन्यं परमात्मा
परमानन्दघनं भगवच्छब्दवाच्यं श्रीमन्नारायणवासुदेवश्रीराघवश्रीकृष्णादिनाममङ्गलमनोहरं परं दैवतम्
अहं शरणं गतोऽस्मि । हे भगवन् वासुदेव महादेव नारायण तव दासोऽस्मि ।
त्वय्येव परे ज्योतिषि परे ब्रह्मणि त्वदंशभूतं मां हविर्भूतं जुहोमि ।
तत्त्वमसि अहं ब्रह्मास्मि त्वमेवाहम् अहमेव त्वं हंसस्सोहं सोहंहंसः वासुदेवोऽहं वासुदेवोऽहम् ।
इति सन्ततं विचिन्तयन् समाधिं कुर्वन् सुखासीनो न स पुनरावर्तते न स पुनरावर्तते (च) ॥
इति श्रीमद्भगवद्गीतातात्पर्यपरमानुभवसङ्ग्रहः ॥
इति श्रीकाञ्चीकामकोटिपीठाधिपश्रीजगद्गुरुचन्द्रशेखरेन्द्रसरस्वती-विरचितो गीतातात्पर्यसङ्ग्रहः ॥
ॐ तत् सत् ॥

१९५८-०४-१०

மூலம்: களஞ்சேரி ஸ்ரீ குருசாமி ஐயர், (ஸ்ரீ ஜி.கே. சீதாராமன், வேத வித்யா குருகுலம் அவர்களின் தந்தை) அவர்கள் கையெழுத்து ப்ரதி. பூஜ்யஸ்ரீ ஆத்ம போத தீர்த்த ஸ்வாமிகள் (ஸ்ரீ கும்பகோணம் ஸ்வாமிகள்) கொடுத்துதவியது. 10.04.1958

Source: hand-written copy of Kalancheri Sri. Gurusami Iyer (Father of Sri. G.K.Seetharaman, Veda Vidya Gurukulam). Received through Pujyashri Atma Bodha Tirtha Swamigal (Shri Kumbhakonam Swamigal) 10.04.1958

Note: This text is also found published in S.V.Radhakrishna Shastrigal’s stuti series but has a different year (1955) and the location is mentioned as Veppathur. The correct date needs to be ascertained.