Menu

Bhajeham Bhagavatpadam

॥ श्रीशङ्करविजयेन्द्रसरस्वतीशङ्कराचार्यस्वामिभिः विरचिता श्रीजयेन्द्रसरस्वतीश्लोकमालिका ॥

भजेऽहं भगवत्पादं भारतीयशिखामणिम् ।
अद्वैतमैत्रीसद्भावचेतनायाः प्रबोधकम् ॥१॥

अष्टषष्टितमाचार्यं वन्दे शङ्कररूपिणम् ।
चन्द्रशेखरयोगीन्द्रं योगलिङ्गप्रपूजकम् ॥२॥

वरेण्यं वरदं शान्तं वदान्यं चन्द्रशेखरम् ।
वाग्मिनं वाग्यतं वन्द्यं विशिष्टाचारपालकम् ॥३॥

देवे देहे च देशे च भक्त्यारोग्यसुखप्रदम् ।
बुधपामरसेव्यं तं श्रीजयेन्द्रं नमाम्यहम् ॥४॥

वृत्तवृत्तिप्रवृत्तीनां कारणं करणं प्रभुम् ।
गुरुं नौमि नताशेषनन्दनं नयकोविदम् ॥ ५ ॥

प्रजाविचारधर्मेषु नेतारं निपुणं निधिम् ।
वन्देऽहं शङ्कराचार्यं श्रीजयेन्द्रसरस्वतीम् ॥ ६ ॥

सितासितसरिद्रत्नमज्जनं मन्त्रवित्तमम् ।
दानचिन्तामणिं नौमि निश्चिन्तं नीतिकोकिलम् ॥७ ॥

सरस्वतीगर्भरत्नं सुवर्णं साहसप्रियम् ।
लक्ष्मीवत्सं लोलहासं नौमि तं दीनवत्सलम् ॥ ८ ॥

गतिं भारतदेशस्य मतिं भारतजीविनाम्।
वन्दे यतिं साधकानां पतिमद्वैतदर्शिनाम् ॥९॥

इति श्रीशङ्करविजयेन्द्रसरस्वतीशङ्कराचार्यस्वामिभिः विरचिता श्रीजयेन्द्रसरस्वतीश्लोकमालिका ॥