Menu

Bhagavatpada-Chaturvimshati Namavali

॥श्रीमत्-शङ्करभगवत्पादाचार्य-चतुर्विंशति-नामावलिः॥

अष्टवर्षचतुर्वेदिने नमः
द्वादशाखिलशास्त्रविदे नमः
सर्वलोकख्यातशीलाय नमः
प्रस्थानत्रयभाष्यकृते नमः
पद्मपादादिसच्छिष्याय नमः
पाषण्डध्वान्तभास्कराय नमः
अद्वैतस्थापनाचार्याय नमः
द्वैतादिद्विपकेसरिणे नमः
व्यासनन्दितसिद्धान्ताय नमः
वादनिर्जितमण्डनाय नमः
षण्मतस्थापनाचार्याय नमः
षड्गुणैश्वर्यमण्डिताय नमः १२

सर्वलोकानुग्रहकृते नमः
सर्वज्ञत्वादिभूषणाय नमः
श्रुतिस्मृतिपुराणार्थाय नमः
श्रुत्येकशरणप्रियाय नमः
सकृत्स्मरणसन्तुष्टाय नमः
शरणागतवत्सलाय नमः
निर्व्याजकरुणामूर्तये नमः
निरहम्भावगोचराय नमः
संशान्तभक्तहृत्तापाय नमः
सर्वज्ञानफलप्रदाय नमः
सदसद्वस्तुविमुखाय नमः
सत्तासामान्यविग्रहाय नमः २४

॥इति श्रीमत्-शङ्करभगवत्पादाचार्य-चतुर्विंशति-नामावलिः सम्पूर्णा॥