Menu

Durga Pancharatnam

**॥ दुर्गा-पञ्च-रत्नम् ॥**

ते ध्यान-योगानुगता अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम् ।
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ १ ॥

देवात्म-शक्तिः श्रुति-वाक्य-गीता
महर्षि-लोकस्य पुरः प्रसन्ना ।
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ २ ॥

पराऽस्य शक्तिर्विविधैव श्रूयसे
श्वेताश्व-वाक्योदित-देवि दुर्गे ।
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ३ ॥

देवात्म-शब्देन शिवात्म-भूता
यत् कूर्म-वायव्य-वचो-विवृत्या ।
त्वं पाश-विच्छेद-करी प्रसिद्धा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ४ ॥

त्वं ब्रह्म-पुच्छा विविधा मयूरी
ब्रह्म-प्रतिष्ठाऽस्युपदिष्ट-गीता ।
ज्ञान-स्वरूपात्मतयाऽखिलानां
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ५ ॥

॥ इति श्री-काञ्ची-कामकोटि-मूलाम्नाय-सर्वज्ञ-पीठाधीश्वरैः श्रीमन्महादेवेन्द्र-सरस्वती-श्रीचरणान्तेवासिवर्यैः श्रीमच्चन्द्रशेखरेन्द्र-सरस्वतीभिः विरचितं दुर्गा-पञ्च-रत्नम् ॥