ॐ
॥ जगद्गुरु-रत्न-माला ॥
श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणैः प्रणीता
यद्-अबोध-वशाद् अहं ममेदं तद् इहेत्यादिरुदेति भूरि-भेदः ।
तद् अखण्डम् अनन्तम् अद्वितीयं परम् आनन्दमयं पदं श्रयेयम् ॥ १ ॥
वट-पादप-मूल-पट्ट-भद्रं स्फुट-चिन्मुद्रम् उदूढ-मौन-मुद्रम् ।
कलितेन्दु-कलं कृपा-समुद्रं कलये कञ्चन देशिकं विनिद्रम् ॥ २ ॥
कमला-कुच-कुम्भ-कुङ्कुम-श्री-कलितोरःस्थलम् अप्यराग-योगम् ।
करवै मुर-वैरिणं महान्तं करुणार्द्रं हृदये कविं पुराणम् ॥ ३ ॥
गरुडाङ्क-गभीर-नाभि-पद्मोदर-भू-गह्वर-निष्ठ-नैष्ठिकाग्र्यम् ।
चतुराननम् आश्रयामि कामं चतुराम्नाय-वदावदं सदाऽपि ॥ ४ ॥
कुशिक-प्रभवास्त्र-शस्त्र-पाली-प्रशमाचार्यक-सिद्ध-हस्त-दण्डम् ।
शमवन्तम् अरुन्धती-सहायं शरणं यामि वसिष्ठम् अप्रमेयम् ॥ ५ ॥
बहु-मित्रसह-क्षितीश-पापापह-सान्निध्यम् अरोध्य-सत्-प्रतापम् ।
महद्-अञ्चित-मन्त्र-यन्त्र-शक्तिं मनसा शक्तिम् उपैमि सद्-विरक्तिम् ॥ ६ ॥
पवनाकुल-काश-लेश-कल्पं प्रभवादेव पराहताशराशम् ।
प्रणमामि पराशरं मुनीशं प्रचरद्-वैष्णव-संहिता-प्रकाशम् ॥ ७ ॥
निगमान् अपि योऽन्वशाच्चतुर्धा व्यधिताष्टादशधाऽपि यः पुराणम् ।
स च सात्यवतेय ईप्सितं मे सकलाम्नाय-शिरो-गुरुर्विधत्ताम् ॥ ८ ॥
जननी-जठराद् इव च्यवन् यो जगतो नाद्रवद् आत्मविद् विपद्भ्यः ।
अनहन्तम् अहं तम् आत्मवन्तं भगवन्तं शुकम् आश्रये प्रशान्तम् ॥ ९ ॥
अभियुञ्जद्-अयार्च्य-पूज्य-पादान् अपलून्यादि-निषाक-सिद्ध-नेतॄन् ।
अथ गौडपदान् फणीश-भाष्य-प्रथमाचार्यक-पण्डितान् प्रपद्ये ॥ १० ॥
हरि-तल्प-हराङ्घ्रि-नूपुर-क्ष्मा-धर-सौमित्रि-बलात्रि-पुत्र-लक्ष्मा ।
जयताद् उप-रेवम् आत्त-धामा जय-गोविन्द-मुनिः स चन्द्र-नामा ॥ ११ ॥
प्रभवात् परमार्थ-सङ्ग्रहाच्च प्रणय-स्थानम् अमुष्य सिद्ध-शिष्यः ।
विरत-क्षिति-रक्षणो विरक्त्या हरिरंहो मम तृंहतां स्व-शक्त्या ॥ १२ ॥
कलिना बलिनाऽखिले खिलेऽपि स्खलिते श्रौतपथेऽपथे प्रवृद्धे ।
जप-होम-तपस्सु नाम-शेषेष्वपि यातेषु सुभाषितेषु शोषम् ॥ १३ ॥
जिन-बुद्ध-कपालि-शक्ति-वह्नीन्द्विन-सेवासु समन्ततः श्रितासु ।
शिथिले द्विज-वेद-वेदि-वादे प्रथिते चाद्वय-वेद-बाह्य-मोदे ॥ १४ ॥
जगद्-ईक्षण-विह्वलामृतान्धो-निगद-व्यक्त-कृपा-रसानुबन्धम् ।
प्रणिदिश्य गुहं पुरैव गन्तुं प्रणिबन्धुं च मखान् द्विषश्च यन्तुम् ॥ १५ ॥
अवतार्य सुरान् परांश्च पूर्वं विधि-विष्ण्विन्द्र-मुखान् विनोद-पूर्वम् ।
स्वयम् अप्यवतीर्य सुत्युरार्याकमितुः श्रीशिवशर्मणो विचार्य ॥ १६ ॥
उदभूत् सदने निटाल-दृग् यो मद-भाजां सुधियां प्रमाथ-योग्ये ।
शिशुरर्पयतान्मुमुक्षु-भाग्यं स शुभं शङ्कर-देशिकः सुभोग्यम् ॥ १७ ॥
उपनीय दिवं गते स्व-ताते व्यपदिश्यागम-सङ्ग्रहेऽप्यतीते ।
निज-मातरम् अन्वमीमनद् यो नियमाप्तिं स मुदे ममास्तु सद्यः ॥ १८ ॥
प्रति-चन्द्र-भवं निवृत्ति-धर्मा श्रित-गोविन्द-मुनेरवाप्त-धर्मा ।
जयतात् कृत-सूत्र-भाष्य-कर्मा स्वयम् अन्ते-वसतां वितीर्ण-शर्मा ॥ १९ ॥
कुहनान्त्यज-विश्वनाथ-सृष्टो द्रुहिण-व्यास-वरोदितानुशिष्टः ।
ममतां मम तावद् एष भिन्द्यान्नमतश्चोपरतिं ददात्वनिन्द्याम् ॥ २० ॥
अपि हाल-नृपाल-पालितं द्राग् अपहायेन्द्र-हरिन्मुखं वितन्द्रम् ।
श्रित-मुर्मुरम् उद्धरंस्त्रिवेण्यां यतिराड् भट्टम् अघानि वो वितृण्यात् ॥ २१ ॥
पटु-मण्डन-मिश्र-खण्डनार्थं प्रविशन् पद्म-वनं नवं जयार्थी ।
तम् अधृष्य-गिरं विधृष्य वादैर्यतिम् आधात् स च पातु मां प्रमोदी ॥ २२ ॥
प्रविशन् बदरीम् अवाप्य सद्यः परमाचार्य-पदार्चनं क्रमाद् यः ।
धवलाचलम् आप्य योऽप्यमाद्यच्छिव-लावण्यम् उदीक्ष्य तं प्रपद्ये ॥ २३ ॥
प्रतिपादित-लिङ्ग-पञ्चकेऽमुं प्रणिवर्त्याशु तिरोहिते गिरीशे ।
विनिवृत्य स दिग्-जय-प्रवृत्तो विविधैः शिष्य-वरैर्विभातु चित्ते ॥ २४ ॥
कलयन् निलयं च तुङ्गभद्रा-तटिनी-रोधसि वेधसः स्त्रिया द्राक् ।
कतिचिच्छरदोऽत्यवीवहद् यो यतिराट् क्वापि मठे स मेऽस्तु सद्यः ॥ २५ ॥
अथ कान्यकुमार-सन्धि-सेतु-स्थलिनी-वैङ्कट-कालहस्ति-यातुः ।
यमि-नेतुरमुष्य काञ्चि-यात्रा शम् इदानीं शमदं क्रियाद् विचित्रा ॥ २६ ॥
श्रित-निर्मल-राजसेन-चोल-क्षितिपालोद्धृत-विप्र-देव-शालः ।
वरदस्य तथाऽऽम्र-नायकस्याप्युरु-वेश्म-द्वय-कृज्जयाय मे स्यात् ॥ २७ ॥
प्रकृतिं च गुहाश्रयां महोग्रां स्व-कृते चक्र-वरे प्रवेश्य योऽग्रे ।
अकृताश्रित-सौम्य-मूर्तिम् आर्यां सुकृतं नः स चिनोतु शङ्करार्यः ॥ २८ ॥
परकीय-वपुः-प्रवेश-शैल्या स्मर-तन्त्राणि विदन् वशी न लौल्यात् ।
अकृतातनु-भारतीं वशे यः सुकृतं मे सुतरां गुरुः स चीयात् ॥ २९ ॥
उपयात्सु बुधेषु सर्वदिग्भ्यः प्रदिशन्नाशु पराभवं य एभ्यः ।
विधृताखिलवित्पदश्च काञ्च्याम् अधृतार्तिः स दिशेच्छ्रियं च काञ्चित् ॥ ३० ॥
समतिष्ठिपद् आ-हिमाद्रि-सेव्यं क्रमशो धर्म-विचारणाय दिव्यम् ।
अधिकाञ्चि च शारदामठं योऽभ्यधिकं नः सुखम् आतनोतु सोऽयम् ॥ ३१ ॥
पृथिवीधव-पद्मपाद-हस्तामलकानन्दगिरीन् अतिप्रशस्तान् ।
चतुरोऽकृत यश्चतुर्षु पीठेष्वतुलां नश्चतुरो गिरं स देयात् ॥ ३२ ॥
परम् अन्तिक-सत्-सुरेश्वराद्यैः परमाद्वैत-मतं स्फुटं प्रवेद्य ।
परि-काञ्चिपुरं परे विलीनः परमायास्तु शिवाय सद्गुरुर्नः ॥ ३३ ॥
स्थिर-बोध-घन-प्रताप-दाम्नोर्गुरु-पृथ्वीधव-विश्वरूप-नाम्नोः ।
चिरम् अर्थनयोपतुङ्गभद्रं सरसः सौतु सुरेश्वरः स भद्रम् ॥ ३४ ॥
प्रणयन् लय-योगम् अक्षुद्-अञ्च्यं पुनराचार्य-मठे निपद्य काञ्च्याम् ।
भुवि यः शिवलिङ्गभूयमन्ते प्रविवान् सोऽस्तु सुखाय नः सुशान्तः ॥ ३५ ॥
प्रथिते किल कामकोष्ठ-नाम्नि प्रथते पुण्य-रसेति यत् पवित्रम् ।
पदमस्य गुरोः समाधि-भूमेः प्रणये मण्डन-चिह्नितं निकामम् ॥ ३६ ॥
जपद्-इष्टद-कामकोटि-पीठाधिप-भू-मण्डल-देशिकेन्द्र-पाठात् ।
नर-नुत्यशुचीनि निर्णिनिक्षे परहंस-स्तवतोऽक्षराण्यरूक्षम् ॥ ३७ ॥
सलिलाशन एव यः सलीलं विलयं प्रापिपद् आर्हतान् सुशीलः ।
सुम-हार-फणीन्द्रयोः सदृष्टिः स हि सर्वज्ञ-गुरुर्ह्रियात् कुदृष्टिम् ॥ ३८ ॥
यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥
सुमहाव्रत-सार्वभौमचर्या-श्रम-हानाय निगूढ-योग-चर्यः ।
शमदां मम चन्द्रशेखरेन्द्रः स मुदं पातु जगद्गुरुर्वितन्द्रः ॥ ४० ॥
फल-हायन-काष्ठ-मौन-सेवा-बल-हासास्पद-बाल-मुग्ध-भावम् ।
अजरामरम् आत्त-लिङ्ग-भावं भज सच्चिद्घनम् अन्तरङ्ग देवम् ॥ ४१ ॥
कलया मलयाद्र्यगस्त्य-कूट-स्थल-यातूयित-भैरव-प्रमोटम् ।
कलयाम लयाध्व-लीढ-भानुं चल-विद्याघनम् आप्त-काम-धेनुम् ॥ ४२ ॥
गुरु-मार्ग-गवेषणात्त-वेलाचल-दृष्टाग्रज-शिष्ट-मन्त्र-लोलम् ।
हर-पूजन-पूतम् अस्त-मोहं वर-गङ्गाधर-गीष्पतिं श्रयेऽहम् ॥ ४३ ॥
कुलशेखर-साहिती-प्रणेत्रे वलद्-आ-सेतु-हिमाद्रि-विज्ञ-नेत्रे ।
जरदृष्टि-शकादि-घृष्टि-दात्रे स्थिर-वर्णाश्रम-धर्म-संविधात्रे ॥ ४४ ॥
स्तनितं निगमेषु शङ्करेण ध्वनिम् अद्वैतम् उदस्यते चिरेण ।
प्रणयानि महा-यतीश-भूम्ने प्रणतीरुज्ज्वल-शङ्करार्य-नाम्ने ॥ ४५ ॥
अथ गौड-सदाशिवेन्द्र-पादान् प्रथितान् न्यक्कृत-बाह्लिक-प्रवादान् ।
जनन-क्षण एव जात-बोधान् जगद्-आचार्य-पदान् श्रये विबाधान् ॥ ४६ ॥
विवदन् धिषणेन साधु दुर्दीदिवि-साह्याय समागतेन सार्धम् ।
जयि-जीर्ण-सुरेन्द्र-भूमि-भोगी जयतान्नः सुधिये सुरेन्द्र-योगी ॥ ४७ ॥
चिर-साधित-षोडशी-प्रसाद-क्षरित-श्वित्र-रुजं निरस्त-वादम् ।
स्ववशासुविसर्गम् अर्कभृत्यं नवविद्याघनम् आश्रितोऽस्मि नित्यम् ॥ ४८ ॥
घन-वाग् जनि-मूक एव विद्याघन-कारुण्यत ऊढ-हृद्य-विद्यः ।
कलयन्नपि मेण्ठकं कवीन्द्रं कलयेन्नः स शिवानि शङ्करेन्द्रः ॥ ४९ ॥
अपि यः श्रित-मातृगुप्त-विद्याधिप-सेतुप्रवरादि-सूरि-हृद्याम् ।
सुषमाम् अधिताहिमाद्रि-भूमौ विषमादित्य-नुतोऽवतात् स चामुम् ॥ ५० ॥
अनु-जह्नु-सुतातिवाहिताहं विधिनाऽऽराधित-शङ्करं विमोहम् ।
शरणं समुपैमि चन्द्र-चूडं चरण-प्रौढ-तपः-पतत्रि-नीडम् ॥ ५१ ॥
परिपूर्ण-विबोध-नाम-भाजां धुरि गोकर्ण-धरा-भुवां विराजत् ।
मम मानसम् अस्य-सिद्धि-भूम्ना ममतार्तिं विजहातु मोद-सीम्ना ॥ ५२ ॥
अपि नास्तिकम् आस्तिकं दधानान् लपितैर्ज्यौतिषम् आर्यभट्टम् ऊनम् ।
प्रतिषिद्ध-पयोधि-पोत-यानान् यति-सच्चित्सुख-सद्गुरून् नमामि ॥ ५३ ॥
समधिष्ठित-कोङ्कणे चिरेण स्वधृते साधु समाधिनाऽदरेण ।
निरतो नियमेन चित्सुखेऽस्मि श्रित-सच्चित्सुख-लक्षणे परस्मिन् ॥ ५४ ॥
कृमि-कीट-पतङ्ग-सत्त्व-भाषा-क्रम-विज्ञः स धुनोतु सत्त्व-दोषान् ।
रस-साधन-सिद्ध-लिङ्ग-रूपः स चिदानन्दघनः स-सत्-स्वरूपः ॥ ५५ ॥
यमि-धीघन-चिद्विलास-साधू स-महादेव-समग्रबोध-बोधौ ।
भवभूति-कृतार्चनौ च वन्दे सुख-सद्-ब्रह्म-चिद्-उज्ज्वलौ घनेन्द्रौ ॥ ५६ ॥
स्व-मठ-स्थम् अधीत-भूरि-भाषं क्रमिकार्चाहित-कामदृक्-प्रतोषम् ।
प्रचित-स्व-मठालयं च सच्चिद्-रुचिरानन्द-घनेन्द्रम् आश्रयेऽहम् ॥ ५७ ॥
अपरानपि चन्द्रशेखरेन्द्रान् विपुल-क्ष्मा-भ्रमणे निरस्त-तन्द्रान् ।
शरणागत-सर्व-दुःख-हर्तॄन् शरणं यामि कुवादि-जैन-जेतॄन् ॥ ५८ ॥
भज रे बहु-रूप-चित्सुखेन्द्रं बहुशः सह्य-गुहा-तपस्स्वतन्द्रम् ।
प्रशम-प्रणयात् प्रशान्त-चारं परम् आनन्द-युजं च पाप-दूरम् ॥ ५९ ॥
प्रचिते परितस्तुरुष्क-चक्रे निचिते म्लेच्छ-गवी-विभूम्नि वक्रे ।
कथमप्यवताऽऽश्रितार्य-वृत्तान्यथ विद्याघन-मौनिनैमि तृप्तिम् ॥ ६० ॥
निज-तात-मृतेः परं प्रकाशे गजगर्भे त्रि-शरद्-विपच्य-कोशे ।
गमयन्तम् इवोल्ब-वास-शेषं गणये विश्वजितः सुतं विशेषात् ॥ ६१ ॥
परिवाद-भयात् प्रसू-विसृष्टं विपिने व्याघ्र-वधूभिरेव पुष्टम् ।
नव-शङ्करम् आदिमाच्च धृष्टं नम माध्यन्दिनिनैव बाल्य-शिष्टम् ॥ ६२ ॥
परम् अभ्र-तनोर्गिरैव शम्भोर्वर-विद्याघन-विष्टरोपलम्भी ।
अधि-काञ्चिपुरी-मठं शुभं भोस्त्र्यधिकश्चित्त तनोतु ते विदम्भः ॥ ६३ ॥
विदिशश्च दिशश्च सञ्चरन् यः प्रदिशन् भाष्यम् अदूष्यम् आस्त धन्यः ।
तम् अशेषविद्-आसनाधिरूढं नम भट्टोद्भट-वाक्पतेः सनीडम् ॥ ६४ ॥
श्रुति-युक्ति-शरैः परान् प्रणिघ्नन् इति चाद्वैत-सृतिं विलुप्त-विघ्नाम् ।
विदधत् प्रविशन् दरीं पुराणां मद्-अघं हन्तु तिरोहितः स मौनी ॥ ६५ ॥
सशरीरम् उपेयिवांसम् ओकः शशिचूडस्य जगद्गुरुं तम् एकम् ।
अपि चीन-तुरुष्क-बाह्लिकाद्यैः स्व-पराचार्य-तया स्तुतं स्तुमोऽद्य ॥ ६६ ॥
अनु-पद्मपुरं चिराय तिष्ठन् ध्वनिकारादि-बुधाश्रितो व्रतिष्ठः ।
पुनरञ्चितकाञ्चिरस्तु पक्षे मम सच्चिच्छिखरो विलासभिक्षुः ॥ ६७ ॥
अतिरूपम् अपाप-वृत्त-मान्यं यतिताम् आश्रितम् अङ्गजं यथान्यम् ।
समयोच्चय-सार-सावधृत्यै सुमहादेव-गुरुं स्मरामि धृत्यै ॥ ६८ ॥
कृत-सट्टक-स-त्रिनाट्य-बन्ध-व्रत-यायावर-राजशेखरान्ध्यम् ।
हृतवन्तम् अनन्त-मन्त्र-शक्तिं व्रति-गङ्गाधरम् आश्रयेऽर्थ्य-सूक्तिम् ॥ ६९ ॥
शिव-योजित-चन्द्रमौलि-पूजा-प्रवणं तन्नियमि-त्रयं महौजः ।
पर-वस्तु-विद् अस्त-सम्प्रचारादरम् आस्तां परम् अद्य मे विचारे ॥ ७० ॥
कवि-सोमक-कॢप्त-सेवन-त्यग् भवि-दूरोऽद्रि-गुहा-गृहेऽहि-कृत्यः ।
चिरम् आत्मनि सञ्चरन् प्रमत्तः परमाद्यः स शिवः शिवं विधत्ताम् ॥ ७१ ॥
नव-भोज-महीप-दत्त-मुक्ता-शिबिका-भ्रान्त-समस्त-दक्षिणाध्वा ।
कलशेश्वर-मन्त्रिणाऽस्त-बाधं कलयन् स्वं मठम् ईड्यतां स बोधः ॥ ७२ ॥
जयदेव-सुमङ्ख-कृष्णमिश्राश्रयताम् एत्य कुमारपाल-मिश्रम् ।
अपि हैमम् अपाकृतोक्ति-योगैरुपसेव्योऽस्तु च चन्द्रचूड-योगी ॥ ७३ ॥
अभिचारक-गुप्तपाद-वादि-प्रभु-हर्षादि-पराभवाग्र-भूमिम् ।
कलये हृदि संश्रितं स्वभासा विलयं चिद्-वियतीह चिद्विलासम् ॥ ७४ ॥
बहुधा कृत-कोटि-होम-लीलावभृथौ शाक्तपथाववाम-शीलौ ।
क्रमशः प्रणतोऽस्मि पावनाख्यौ सु-महादेव-सु-चन्द्रशेखराख्यौ ॥ ७५ ॥
हृदि सायण-माधवोपदेष्टॄन् मदिनां वाद-विधौ शम-प्रदेष्टॄन् ।
नमत श्रुति-शीलनाद् अतन्द्रान् यमि-विद्याधिकतीर्थ-देशिकेन्द्रान् ॥ ७६ ॥
यमि-षड्गवम् अप्लुत-स्वदेशं शमिते म्लेच्छ-कुलैर्महत्-प्रकाशे ।
अजहत्-स्व-मतं जहत्-प्रचारं विजयायास्तु विवेकिनाम् उदारम् ॥ ७७ ॥
समुपासित-नीलकण्ठ-मन्त्र-क्रम-निर्धूत-विषामयं स्वतन्त्रम् ।
शिवयोगि-समाह्वयं यमीन्द्रं भव-भेदाय भजाम मोद-सान्द्रम् ॥ ७८ ॥
लुलितागमिक-च्छटोपदेशं ललितार्चाश्रित-हस्तम् अस्त-पाशम् ।
कलिताखिल-वेद-शास्त्र-कोशं कलये प्रत्यगितं महःप्रकाशम् ॥ ७९ ॥
खल-वैष्णव-तैन्त्रिणीक-कोलाहल-हेलाहित-गालिरुक्ति-जालैः ।
शिवयन् वरदं चिरेण सौम्यः शिवकृन्मेऽस्तु स शङ्करः प्रणम्यः ॥ ८० ॥
निज-नीवृद्-अवग्रहेति-खेद-त्यज-नेपाल-नृ-पाल-पूज्य-पादः ।
स पुरो मम साधु सन्निधत्तां विपुलानन्द-सदाशिवोऽप्रमत्तः ॥ ८१ ॥
बहुधाऽऽहित-सूत्र-भाष्य-शान्तिर्बहुलामोद-युतः समग्र-शान्तिः ।
शमलं समुदस्य शं ममालं स महादेव-गुरुर्दिशेत् सलीलम् ॥ ८२ ॥
सतताहित-चन्द्रमौलि-सेवः श्रित-काञ्चीपुर एव शुद्ध-भावः ।
सृजतान्मम चन्द्रचूड-मौनी स जयं सर्वत एव साधु-मानी ॥ ८३ ॥
अथ मे स सदाशिवः कृषीष्ट प्रथमं बोधपदेन तत्त्वदेष्टा ।
कुशलं कुशलाग्रणीः प्रकाम-प्रशमोऽप्युज्ज्वल-मूर्तिराप्त-कामः ॥ ८४ ॥
हृदये स पदं सदा विधत्तां सदयं मे प्रणुदन् प्रमादवत्ताम् ।
निगमान्त-गुरुः परः शिवात्मा सुगमः साधु-ततेर्यमी प्रशात्मा ॥ ८५ ॥
यद्-उदीक्षण-लेशतो जनानां विदुरद्वैत-मतिं द्वितां धुनानाम् ।
तम् अहं परमाञ्चितं शिवेन्द्रं शमवन्तं शरणं श्रये यमीन्द्रम् ॥ ८६ ॥
इति नाथनयाऽऽत्मबोध-नाम्नो यति-राजस्य सदाशिवेन्द्र-भूम्ना ।
कलिता जयताद् वसन्तमाला-षडशीत्या गुरुराज-रत्न-माला ॥ ८७ ॥॥
इति जगद्गुरु-रत्न-माला सम्पूर्णा ॥