Menu

Kanchi Gururajopahara

**॥ श्रीकाञ्चीगुरुराजोपहारः ॥**

अज्ञातकर्तृकः

शङ्करांशभूमशङ्करार्यपीठसद्गुरून्
शुद्धसत्त्वभासुरान् सुवर्त्मनीतभूसुरान् ।
सर्वभूतसौख्यदान् क्षमाकरान् यतीश्वरान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ १ ॥

तारमन्त्रनिष्ठितांश्च शङ्करप्रतिष्ठिता-
ऽद्वैतभावभावुकान् मुदाकरान् कृपाकरान् ।
षण्मतप्रकाशकान् शिवापरांस्तपोधनान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ २ ॥

तान् अनित्यनित्यवस्तुभेदवेदिमानसान्
ऐहिकस्य चेतरस्य भोगभागदूरगान् ।
निर्जितान्तरिन्द्रियांस्त्रिकालवेदिनः शुभान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ ३ ॥

शासिताक्षसैन्धवान् सुशिष्टबुद्धिसारथीन्
त्यक्तकर्मविभ्रमान् यथाविधि प्रशान्तिगान् ।
द्वन्द्वसाम्यनिष्ठितान् प्रहृष्टमानसान् गुरून्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ ४ ॥

दोषदर्शिनश्च वासनादिनीतवस्तुषु
श्रीगुरूपदेशवेदशीर्षवाक्यभावुकान् ।
नित्यमोक्षनिर्भरान् फलैकसङ्गनिस्पृहान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ ५ ॥

ब्रह्मवस्तुदर्शिनः प्रपञ्चभूतसञ्चये
सर्वभूतमात्मनि प्रविष्टमेव भाविनः ।
कामरोषलोभमोहवर्गषट्कमोचितान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ ६ ॥

ब्रह्मदण्डमण्डितान् विभूतिभासुराङ्गकान्
व्युप्तकेशराजितान् कषायचेलशोभितान् ।
कुण्डिकालसत्करान् सुपादुकाविभूषणान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ ७ ॥

राजमौलिकीरपञ्जरान् परात्मपूजकान्
श्रीपुराधिदेवताचकोरचन्द्रतल्लजान् ।
ब्रह्मलोकमार्गभानुमण्डलप्रभेदकान्
काञ्चिकामकोटिपीठदेशिकान् अहं भजे ॥ ८ ॥

॥ सम्पूर्णम् ॥