Menu

Punyashloka Manjari

॥श्रीः॥

॥ पुण्यश्लोकमञ्जरी ॥

श्रीकामकोटिपीठाधिपश्रीमज्जगद्गुरुभ्यो नमः

मेधावी निगमपटुबहुश्रुतो वा
येनर्ते न कलयिता किलात्मतत्त्वम् ।
तन्नेत्रं तमसि च दिव्यदृष्टिदायि
श्रेयो नः प्रदिशतु धाम देशिकाख्यम् ॥ १ ॥

अद्वैताचार्यपीठीमनु वसतिजुषामद्वयादेशभूम्ना
माचार्याणां क्रमेणाद्वयसमयगुरोराच मे देशिकेन्द्रात् ।
आख्यास्येऽहं यथावद्विदितमवितथं धामनामादि तत्त
द्ब्रह्मीभावीयवर्षाद्यनुगतमनघाः श्रूयतां तद्गुणज्ञैः॥ २ ॥

प्रायः प्रत्नैरेव चिता मया क्वचन नूतनैः ।
असौ विमृश्यतां श्लोकैः श्रीपुण्यश्लोकमञ्जरी ॥ ३ ॥

१. श्री शंकरभगवत्पादाः

महेशांशाज्जातो मधुरम् उपदिष्टाद्वयनयो
महामोहध्वान्तप्रशमनरविः षण्मतगुरुः।
फले(३२) स्वस्मिन् स्वायुष्यपि शरचराब्देऽपि(२६२५) च कलेः
विलिल्ये रक्ताक्षिण्यधिवृषसितैकादशि परे ॥४॥

२. श्री गौडसुरेश्वराचार्यपादाः

गौडः काश्मीरजन्मा कलितपरिचितिः पूर्वतन्त्रे कुमारात्
ब्रह्मण्यः सर्ववेदाः स्फुटशपथपथं श्रीमदाचार्ययोधी ।
संन्यासं प्रापितस्तं तदनु परिचरन् योगभूमैकसीमा
तस्यादेशेन काञ्चयामवसदथ समास्सप्तति कामपीठे।
वर्षे शुद्धतरे(2695) कलेरथ भवे ज्येष्टे सितद्वादशी
रात्रौ चित्रितसर्वभूस्स यशसा श्रीमान सुरेशः स्वयम् ।
श्रित्वा पुण्यरसां रसेन महता युञ्जन् लयाख्ये पथि।
लक्ष्णश्रीशिवलिंगभूयमभजत्साक्षात्सतां पश्यताम् ।।

३. श्री सर्वज्ञात्मेन्द्र सरस्वती

ताम्रारोधसि वर्धनात् समुदितः सन्न्यासितः सप्तमात्
प्रागेवात्मविवादहृष्टमनसा श्रीशङ्करेणैव यः।
तत्पीठे ससुरेश्वरं समनयद् वर्षांश्च यः सप्ततिं
चत्वारिंशतम् आस्त सद्वयम् असौ अब्दान् स्वयं तन्मठे॥७॥

आचार्यप्रियपद्मपादचरणाम्भोजद्वयीसेवनाद्
ऊढद्वारवतीमठाय मुनये ब्रह्मस्वरूपात्मने।
श्रद्धाराद्धपदाय तत्त्वमतुलं चिन्मुद्रया निर्दिशन्-
नेवैक्यं समगान्निजेन महसा सर्वज्ञसंज्ञो मुनिः॥८॥

कल्यब्दैः स हयाग्निलोकनयनैः (२७३७) वर्षे नले माधवे
लिल्ये कृष्णचतुर्दशीमनु महस्याम्नायशैलान्तिके।
ग्रन्थैर्यत्कलितैर्न्यदर्शि विशदं सङ्क्षेपशारीरक-
प्रख्यैरद्वयसूत्रभाष्यगहनच्छन्नः पदार्थोच्चयः॥९॥

४. श्री सत्यबोधेन्द्र सरस्वती

आम्रावतीतटजताण्डवशर्मसूनुः
श्रीसत्यबोधनियमी फलिनीशनामा।
श्रीभाष्यवार्तिककृदादरसम्प्रपन्न-
सर्वज्ञसद्गुरुरवोढ धुरां गुरूणाम्॥१०॥

अब्दान् यस्तत्त्व(९६)सङ्ख्यान् अवसद् अधि मठे शारदानाम्नि काञ्च्यां
दृप्यत्तौतातितार्हज्जिनगुरुकणभुक्पश्यदङ्घ्र्यादितन्त्रम्।
निर्यन्त्रं निर्मिमाणः पदकशतहतारातिकौतस्कुतोक्तिः
साक्षाच्छ्रीसत्यबोधोऽकृत सहबहुलाष्टम्यहे नन्दने स्वम्॥११॥

५. श्री ज्ञानानन्देन्द्र सरस्वती

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजा-
च्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः
सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥

६. श्री शुद्धानन्देन्द्र सरस्वती

वेदारण्यजवैद्यभर्वुतनयः श्रीविश्वनाथाभिधो
ज्ञानानन्दमुनेरवाप्य नियमं काञ्चीपदे स्थापितः।
शुद्धानन्दमुनीश्वरः स शरदः सैकामशीतिं धुराम्
आचार्यस्य वहन्नवाप च नलज्येष्ठाच्छषष्ठ्यां लयम्॥१३॥

७. श्री आनन्दज्ञानेन्द्र सरस्वती

आनन्दाराद्धगौरीनिरवधिकरुणालब्धसाहित्यविद्या-
सौहित्यः सूर्यनारायणमखितनयश्चेरभूश्चिन्नयाख्यः।
आनन्दज्ञाननामा भगवदुपपदः सम्बभौ भाष्यकर्तुः
पीठे श्रीकामकोट्यां प्रकटितपरमाचार्यभाष्यौघभाष्यः॥१४॥

शुद्धानन्दमुनीन्द्रचन्द्रविमलालोकास्तचेतस्तमाः
विस्तार्याद्वयवर्त्म सप्ततिमथो नैकां समा गामवन्।
श्रीशैलान्तिकम् आसदन् पथिवशाद् आनन्दसिद्धिं ययौ
सिद्धः क्रोधनराधकृष्णनवमीसन्ध्यामनु ब्रह्मवित्॥१५॥

८. श्री कैवल्यानन्दयोगेन्द्र सरस्वती

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं
मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः
सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥

९. श्री कृपाशङ्करेन्द्र सरस्वती

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥

श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं
शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं
प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥

विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥

१०. श्री सुरेश्वरेन्द्र सरस्वती

महाबलीश्वरेश्वराच्युतोद्भवो महेश्वरा-
भिधः सुरेश्वरः परो नियम्य सर्वभूगुरोः।
अवाप काञ्चिकामकोटिपीठधूर्वहक्रियां
ययौ स्वम् अक्षयेऽक्षयं शुचेः शुचिः स पर्वणि॥२०॥

११. श्री शिवानन्द चिद्घनेन्द्र सरस्वती

कर्णाटोज्ज्वलसूनुरीश्वरवटुः श्रित्वा सुरेशं चिरात्
श्रीभाष्याद्युपलभ्य तस्य च धुरामासाद्य पीठे वसन्।
निन्ये तत्र शिवाः (४५) समाः शिव इव श्रेयोऽर्थिनां देहिनां
दातुं श्रेय उपागतोऽयमिव यः श्रीचिद्घनाख्यो बभौ॥२१॥

प्राप्तं क्षीरसरित्तटाद् हरिरिति ख्यातं च वात्स्यायनं
पीठे स्वे विनिवेश्य दत्तनियमं सञ्चार्य च प्रक्रियाम् ।
कल्यब्दे च विरोधिकृत्यनुतपं(पः?) शुद्धे दशम्यामगात्
स्वं रूपं परमं सुधीशतनुतः श्रीचिद्घनश्चिद्घनम्॥२२॥

१२. श्री चन्द्रशेखरेन्द्र सरस्वती १

श्रीचिद्घनेन्द्रनियतः शरदस्त्रिषष्टिं
श्रीकामकोटिम् अभिमण्ड्य ततश्च कञ्चित्।
सच्चिद्घनाख्यम् अनुशिष्य वृतोऽपि शिष्यैः
श्रीचन्द्रशेखरगुरुः सवपुस्तिरोऽधात्॥२३॥

आनन्दमयम् आनन्दे आषाढ्याषाढपूर्वके।
नवम्याम् अनवम्यं स्वं पदम् आपत् परात्परम्॥२४॥

१३. श्री सच्चिद्घनेन्द्र सरस्वती

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥

सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥

खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥

१४. श्री विद्याघनेन्द्र सरस्वती

निवेश्य गङ्गाधरगीष्पतिं पदे प्रविश्य कूटं तद् अगस्त्यचिह्नितम्।
प्रमोटयन् मन्त्रत उग्रभैरवं निवेशनं स्वं तत एव कॢप्तवान्॥२८॥

श्रीमद्बापणसोमयाजितनयः श्रीनायनाभिख्यया
ख्यातः पूर्वम् उदारमन्त्रविभवः संयम्य सच्चिद्घनात्।
आस्थायाप्यधिकामकोटि स शिवान् (४५) अब्दान् अगेऽगाल्लयं
धातौ शालि-मणीशिखीक्षण(२३९)-सहे दर्शे च विद्याघनः॥२९॥

१५. श्री गङ्गाधरेन्द्र सरस्वती

सूनुर्भद्रगिरेः सुभद्र इति यः काञ्च्य(कप्य?)न्वयो द्वादशे
वर्षे संयमम् आश्रितोऽनुचरिताद् आचार्यविद्याघनात्।
श्रीगङ्गाधरगीष्पतिः स च चतुर्विंशे वयस्यात्मवित्
श्रीविद्याशिवयोर्निरन्तरधृतेराप्नोत् पदं शाश्वतम्॥३०॥

सर्वधारिणि स सर्वधारकश्चित्रशक्तिरधिचैत्रम् अर्जुने।
अर्जुनः स्वयशसाऽऽदिमे दिनेऽनादिधाम महसा जगाम ह॥३१॥

१६. श्रीमद् उज्ज्वल शङ्करेन्द्र सरस्वती

सूनुः केशवशङ्करस्य तपतीतीरोद्भवो नैष्ठिकः
श्रीमान् अच्युतकेशवः श्रितपदो वञ्चीश्वरे गीष्पतेः।
आदेशात् कृतसंयमश्च विमतान् आमूलम् उन्मूलयन्
आकाश्मीरम् अगान्महायतिरिति ख्यात्योज्ज्वलः शङ्करः॥३२॥

अष्टात्रिंशद् अथातिवाह्य शरदः पीठे जगद्देशिक-
स्यासीद् दिग्-रस-वार्धि-वह्निषु (३४६८) कलेर्यात्स्वक्षयेऽच्छे वृषे।
अष्टम्याम् अपहर्षशोकम् अजरं ब्रह्मैव यः शाश्वतं
काश्मीरेषु कलापुरे यदधुनाऽप्याख्यायतेऽस्याख्यया॥३३॥

१७. श्री सदाशिवेन्द्र सरस्वती

विप्राच्छ्रीदेवमिश्राद् अजनि जनित एवाप्तविद्याप्रकाशः
संस्कारैः प्राक्तनैर्यः समगिरत गिरं सर्वम् आत्मेति सत्यम्।
तन्नो मृष्यद्भिरर्हज्जिनयुगभिजनैः पातितः सिन्धुवेण्यां
त्रातः प्रेम्णैव सिन्ध्वाऽप्यविलयम् अमुया पद्मपत्रे निवेश्य॥३४॥

सूनुः सोऽयं तपोभिस्तव मुदितधिया दीयतेऽद्येति वाचा
सार्धं दत्तो द्विजाय स्थिरनियमयुजे यस्तयैवोह्यमानः।
पुष्टस्तेनाथ पुष्पाभिधपुरजनुषा भूरिवस्वाह्वयेन
त्रात्रा पित्रोपनीतः समयम् अयम् अधाद् अद्वयं निर्द्वयत्वे॥३५॥

आचार्यम् उज्ज्वलमहायतिशङ्करार्यम्
आराध्य संयमम् अवाप्य तदाज्ञयैव।
श्रीमान् सदाशिवगुरुर्व्यधिताऽऽऽब्धि यात्रां
सान्दोलिकं सुविहिताश्रमवर्णधर्मः॥३६॥

नित्यं ब्रह्मसहस्रपोषणपरः सर्वत्र भाष्यं गुरोः
सञ्चार्य द्विविवर्जितान् सनियमं वारांश्च पञ्चाशतः।
अध्यास्याष्ट जगद्गुरोरधिमठं वर्षान् समाधिस्थलीं
जीवन्नेव सदाशिवः समविशत् कृत्वा सुरेन्द्रं पदे॥३७॥

भवे भवाकृतिः सोऽच्छे ज्येष्ठे ज्येष्ठस्तपस्विनाम्।
दशम्याम् आप दशमीं सिद्धिं सिद्धः सदाशिवः॥३८॥

१८. श्री योगतिलक सुरेन्द्र सरस्वती

दुर्दीदिविं समभिभूय तथाऽस्य साह्या
सक्तं च जीवम् अपवार्य सधैर्यम् उक्त्या।
सम्पूजितः सदसि राजसुरेन्द्रमुख्यैः
योगी सुरेन्द्रनियमी युयुजे पदे स्वे॥३९॥

महाराष्ट्रः सर्वैरपि च विनुतो माथुर इति
प्रपन्नः सन्न्यासं रस-वसु-जलध्यग्निषु (३४८६) कलेः।
दशैवाध्युष्याब्दान् अधिमठम् अयं योगितिलकः
सुरेन्द्रः स्वं मार्गे प्रतिपदि सिते प्राप निलयम्॥४०॥

१९. श्री मार्तण्ड विद्याघनेन्द्र सरस्वती

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥

मौनी तपःस्ववशमृत्युरधिस्वपीठम्
अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं
सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥

२०. श्री मूकशङ्करेन्द्र सरस्वती

जातः खल्वाटवीराद् गणककुलमणेः साधु विद्यावतीतो
मूको मूकार्भनामा भुवनगुरुपदाम्भोजरेणोर्महिम्ना।
व्यक्तप्रौढोक्तिराप्त्वोपनयनमखिलाम्नायजातं च ताताद्
गृह्णन् सन्न्यासम् आसीत् परम् अधिजगदाचार्यपीठं स धीरः॥४३॥

श्रीशङ्करेन्द्रः श्रितमातृगुप्तम्
आधाय वर्णाश्रमधर्मपालम्।
सैकोनषष्टित्रिशते शकेऽब्दे सिद्धिं गतः श्रावणपूर्णिमायाम्॥४४॥

२१. श्री सार्वभौमगुरुः चन्द्रचूडेन्द्र सरस्वती

अर्चाचन्दनपेषणाद् भगवतः श्रीशङ्करेन्द्रार्चित-
स्यारूढः पदवीं कवेरनुसृतेर्हर्षस्य भूत्वा नृपः।
काश्मीरेषु विरज्य विक्रम-मृतौ गृह्णन् गुरोः प्राक्तनात्
सन्न्यासं स हि कोङ्कणाच्युतसुतः श्रीचन्द्रचूडोऽभवत्॥४५॥

अब्दान् देवनदीतटे दश नयन् आचार्यभूतो भुवो
धन्वन्तर्यवतारम् आर्यमधुरं निक्षिप्य पीठे निजे।
दत्त्वाऽस्मै परिपूर्णबोधबिरुदं भेजे व्यये चाव्ययं
धाम स्वं जननाष्टमीनिशि हरेः श्रीचन्द्रचूडाश्रमी॥४६॥

२२. श्री परिपूर्णबोधेन्द्र सरस्वती

पुत्रो रमेशमखिनो मधुरोऽगदङ्कृद्
ग्रावाभिलापक इति प्रथितश्च मन्त्रे।
श्रीशारदामठगुरुः परिपूर्णबोधो
रौद्र्यूर्जशुक्लनवमीम् अनु सिद्धिम् आर्च्छत्॥४७॥

२३. श्री सच्चित्सुखेन्द्र सरस्वती

श्रीचिक्काकुलसोमनायतनयः सोऽयं गिरीशः पुरा
संन्यस्तः परिपूर्णवोधगुरुणा सच्चित्सुखः षण्मुखम् ।
ध्यायन् कालविदं सुदूरमुदधौ प्रोष्यार्यभट्टाभिधं
प्रत्यावृत्तमधादथास्तिकमनुष्ठाप्योदितं निष्क्रयम् ॥ ४८ ॥

चित्सुखं विनिवेश्य स्वे पदे सच्चित्सुखः सिते ।
खरे खरांशौ वृषगे सप्तम्यां सिद्धिमाप सः॥४९॥

२४. श्री चित्सुखेन्द्र सरस्वती

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदा-
वादाय शासनम् अवर्तत कोङ्कणेषु। आचार्य इत्यभिधया परमार्यरक्षाम्
आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥

अपराभवोऽपि च पराभवे सितोऽ-
प्यनभस्यपीह स नभस्यथासिते। प्रशमी जगाम दशमीं च सन्नसौ
नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥

२५. श्री सच्चिदानन्दघनेन्द्र सरस्वती

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा
यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः
श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥

यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥

अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥

२६. श्री प्रज्ञाघनेन्द्र सरस्वती

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥

२७. श्री चिद्विलासेन्द्र सरस्वती

अथ हस्तिशैलमधुसूदनात्मजो हरिकेशवश्च चितिसौख्यमेदुरः।
अगमत् पदं स्वम् अखिलस्थिरागुरुः शरदः स दुर्मुखिन आदिमे दिने॥५६॥

२८. श्री महादेवेन्द्र सरस्वती १

भद्राचलाभिजनभानुसुतः स शेषणार्यो-
ऽभिमण्ड्य पदम् आदिमदेशिकस्य।
रौद्रिण्यनूर्जदशमि प्रशमीन्द्रगम्यं
प्रापत् पदं प्रणिहितेः परमामृताख्यम्॥५७॥

२९. श्री पूर्णबोधेन्द्र सरस्वती

श्रीपतेस्तनयः कृष्णः पूर्णबोधो दिने हरेः।
ब्रह्मभूतो नभस्यच्छे संयमीश्वर ईश्वरे॥५८॥

३०. श्री बोधेन्द्र सरस्वती २

कालहस्तिसुतबालयाभिधो बोधसद्गुरुरबोधवर्जितः।
आप शाश्वतपदं विशुद्धम् आनन्दमाधवचतुर्थ्यहर्मुखे॥५९॥

३१. श्री ब्रह्मानन्दघनेन्द्र सरस्वती

आनन्तिर्ज्येष्ठरुद्रो द्रविडिषु गरुडह्रादिनीसीम्नि जातो
बोधेन्द्राचार्यशिष्यो भुवनगुरुधुरां पालयञ्छीलयुक्तः।
कृत्स्नक्ष्मामण्डलीजिन्नृपवरललितादित्यनुत्यार्चिताङ्घ्रिः
श्रीब्रह्मानन्दसान्द्रः प्रभवशुचिशुचिद्वादशीयाह्नि लिल्ये॥६०॥

३२. श्री चिदानन्दघनेन्द्र सरस्वती

अण्णु(कण्व)शङ्करनन्दनः पटुपद्मनाभसमाह्वयो
लम्बिकापथतत्परोऽप्यवलम्ब्य सद्गुरुशासनम्।
कामकोटिपदे स्थितः श्रितकामकोटिफलप्रदे
नित्यदत्तसहस्रभक्तम् अभूद् इदं पदभागसौ॥६१॥

सकरुणम् अपबन्धुं कन्नडेशीकुमारं
पुनरपि निजराज्ये स्थापयंस्तद्विजेत्रा।
अतिलघुतनुवृत्तिर्जीर्णपर्णात् स योगी
पदमनु चतुरोऽब्दानेव देवोऽध्यवात्सीत्॥६२॥

प्रजोत्पत्तौ मार्गशीर्षे सितषष्ठ्याम् अगाद् असौ।
पदं स्वं परमं सर्वशोकमोहविवर्जितम्॥६३॥

३३. श्री सच्चिदानन्दघनेन्द्र सरस्वती २

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥

खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥

३४. श्री चन्द्रशेखरेन्द्र सरस्वती २

सूनुर्वेगवतीतटोद्भवमहादेवाह्वयस्य श्रुतः
शम्भुर्नाम दवाग्निदग्धपृथुकत्राणावगाढानलः।
आचार्यस्य निदेशतः क्षितितलं सर्वं चरन् यश्चतुर्-
वर्णान् स्वस्वपथाद्व्यधादगलितान् आचार्यपीठस्थितः॥६६॥

श्रीचन्द्रशेखरेन्द्रोऽप्यध्युष्याष्टादश स्वमठम् अब्दान्।
सौम्यः सौम्येऽन्तरधात् सहेऽतिसहनः सुदर्शनो दर्शे॥६७॥

३५ . श्री चित्सुखेन्द्र सरस्वती

वेदाचलान्तिकभवो विमलाक्षनाम्नः
सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटी
पीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥

चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥

३६. श्री चित्सुखानन्देन्द्र सरस्वती

ख्यातः सुरेश इति सोमगिरेस्तनूजः
क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचार-
दूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥

श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥

३७. श्री विद्याघनेन्द्र सरस्वती ३

भालचन्द्रसुतः सूर्यनारायणसमाह्वयः।
श्रीचिदानन्दशिष्योऽभूच्छ्रीविद्याघनदेशिकः॥७२॥

प्रपन्नः श्रीविद्यां कथमपि स विद्याघनगुरु-
स्तुरुष्काक्रान्तेऽपि व्यधित धुरम् आचार्यसहजाम्।
इह त्रिंशद्वर्षान् प्रभवशरदः पुष्यबहुलद्वितीयायां
प्रापत् परम् उपरमं प्रौढनियमी॥७३॥

३८. श्री अभिनवशङ्करेन्द्र सरस्वती

जज्ञे विश्वजितश्चिदम्बरभुवः श्रीमान् विशिष्टोदरा-
न्नाथस्यासुविनिर्गमात् परम् असावध्यर्धवर्षद्वये।
वैशाखे विभवे सिते च दशमीमध्ये विवस्वानिव
स्वावासायितकुञ्जपुञ्जिततमस्काण्डार्भटीखण्डनः॥७४॥

वैधव्यं विबुधालये निवसतिं वृत्तिं च भृत्याश्रयां
बन्धूनां च विमाननाम् अनितरासङ्गां दशां चात्मनः।
कौलीनात् कुलदूषणादपि भयादालोच्य गत्यन्तरा-
भावाद् अध्यटवि स्तृते नवदले क्षिप्तो जनन्यैव यः॥७५॥

यं व्याघ्रपादमहिला विरुवन्तम् आराद्
आदाय गेहम् उपनीय निवेद्य पत्ये।
स्तन्यादिना समपुषद् दययोपनीय
माध्यन्दिनिश्च यम् अबूबुधद् आत्मविद्याः॥७६॥

विद्याकर्म समाप्य सर्ववचसां सारार्थवित् संयमं
साक्षादाप्य जगद्गुरोरथ पुरः स्वेच्छोदिताच्छङ्करात्।
तत्पार्श्वस्थितपद्मभूकरयुगप्राप्तां दधत्पादुकां
वीरां व्योमगतौ स संयमधनस्तिल्वाटवीम् आवसत्॥७७॥

वेदान्तदेशिकचिदम्बरनाथवेधो
वाक्यैर्जगद्गुरुरधिष्ठितकामपीठः।
अष्टासु दिक्ष्वपि निरस्तसमस्तविद्व-
द्वादावलेपविभवो व्यचरद्धरित्रीम्॥७८॥

काश्मीरिकान् लघु विजित्य गिरोद्भटादीन्
सर्वज्ञपीठम् अधिरुह्य च शारदाग्रे।
आत्रेयकन्दरम् अनुव्रजितोऽपि शिष्यैः
अन्तर्हितः सतनुरेव स शङ्करेन्द्रः॥७९॥

द्वापञ्चाशतम् इत्थम् अद्वयनयं वर्षान् प्रवृष्य क्षितौ
पुण्यायां परतोऽपि तस्य सुपथश्चिख्यासयेव द्रुते।
सिद्धार्थिन्ययनेऽप्युदञ्चिनि शुचौ दर्शेऽह्नि काले कलेः
विद्याशेवधिपावके (३९४१) गुरुरभूत् सच्चिद्विलासो मुनिः॥८०॥

३९. श्री सच्चिद्विलासेन्द्र सरस्वती

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥

आनन्दवर्धनमुखैः अभिरूपवर्यैः
आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे
सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥

४०. श्री महादेवेन्द्र सरस्वती २

कर्णाटकण्णयसुतः शिवरामभट्टः
सच्चिद्विलासयमिना सुहितः स्वपीठे।
अध्यास्य तं रवि(४२)समा भवराधशुद्ध
षष्ठीप्रदोषविरतौ विरतः स्वधाम्नि॥८३॥

४१. श्री गङ्गाधरेन्द्र सरस्वती

अप्पण्णाख्य उमेशभट्टतनयो भीमातटीसम्भवः
श्रीविद्यानिरतः श्रितो गुरुपदं श्रीकामकोटीमठे।
पञ्चत्रिंशतम् अध्युवास शरदः श्रीशारदापीठिकां
सौम्यः सौम्यनभस्सितप्रतिपदि प्रेयाय गङ्गाधरः॥८४॥

४२. श्री ब्रह्मानन्दघनेन्द्र सरस्वती २

सुब्रह्मण्यभवो नियम्य नरसम्भट्टोऽथ गङ्गाधराद्
ब्रह्मानन्दघनाभिधोऽधित धुरां द्व्यूनाः समास्त्रिंशतम्।
लिल्येऽधीश्वरम् ईश्वरोर्जबहुलाष्टम्याम् असौ सङ्गवे
घुष्यन्नेव हि सूत्रभाष्यविषयान् अन्तेवसद्भ्यः पटुः॥८५॥

४३. श्री आनन्दघनेन्द्र सरस्वती

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥

४४. श्री पूर्णबोधेन्द्र सरस्वती २

कार्णाटो हरिपण्डितः शिवसुतः श्रीपूर्णबोधाख्यया
बिभ्राणोऽनुपदं जगद्गुरुपदं वर्षांश्च षड्विंशतिम्।
धाम्नि स्वे परमे जगाम निलयं वर्षे प्रमाथ्याह्वये
कृष्णप्रौष्ठपदत्रयोदशतिथौ ब्राह्मे क्षणे ब्रह्मवित्॥८७॥

४५. श्री परमशिवेन्द्र सरस्वती १

श्रीकण्ठः शिवसाम्बपण्डितसुतः सैकां समा विंशतिं
बिभ्रत् स्वस्य पदे निवेश्य सुकविं सूर्यात्मजं सोमकम्।
शार्वर्याश्विनसप्तमीनिशि गतः सिद्धिं स पक्षे सिते
सन्न्यासात् प्रभृति क्षितिध्र-विवर-स्थायी परादिः शिवः॥८८॥

४६. श्री सान्द्रानन्दबोधेन्द्र सरस्वती

बोधेन्द्राख्यः स सोमो गुरुपरमशिवेन्द्रार्यवाचाऽधिपीठं
तिष्ठन् प्राप्यान्यदेशान् पथिपथि विनतान् प्रापयन् अद्वयास्थाम्।
श्रीधाराभोजदत्तप्रचुरमणिमयान्दोलिकाकॢप्तयात्रः
काश्मीरामात्यपुष्यत्कटकसमवनोऽधान्मठं म्लेच्छदूरम्॥८९॥

शरदस्त्रिंशतं सप्ताप्यध्युष्यान्वरुणाचलम्(-ष्य स गुरोः पदम्)।
जगाम धाम परममीश्वराषाढपर्वणि॥९०॥

४७. श्री चन्द्रशेखरेन्द्र सरस्वती ३

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभू-
र्वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया
तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥

मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो
विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं
हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥

ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥

४८. श्री अद्वैतानन्दबोधेन्द्र सरस्वती

प्रेमेशस्य पिनाकिनीतटभुवः सूनुः स सीतापतिः
स्नात्वा सप्तदशायुराश्रमम् अधाच्छ्रीचन्द्रचूडान्मुनेः।
खण्डंखण्डम् अखण्ड खण्डनकृदाद्यौद्दण्ड्यम् उच्चण्डवाग्
आचार्यस्त्रिरहिण्डताऽऽजलनिधिं विष्वक् स विश्वम्भराम्॥९४॥

वाग्वर्षैर्विशदय्य विश्वमभितोऽद्वैतं विदां सम्मतं
सिद्धार्थिन्यपि हायने शुचिदशम्यह्नि श्रितश्चित्सभाम्।
अर्चन्नेव च मुक्तिलिङ्गम् अदधादन्तः समन्ताच्छ्रिते-
ष्वासीदत्स्वपि चिद्विलासनियमी चिद्व्योम्नि साक्षादसौ॥९५॥

४९. श्री महादेवेन्द्र सरस्वती ३

छायावनाच्युतसुतो गुरुमूर्तिनामा
स्थित्वा जगद्गुरुपदे छवि(४७)वर्षकालम्।
प्राप्तोऽपराभवपदं स पराभवोर्ज-
कालाष्टमीनिशि पदं परमात्मसंज्ञम्॥९६॥

५०. श्री-चन्द्रचूडेन्द्र सरस्वती २

अरुणगिरितनूभूरार्यगङ्गेशनामा
गुरुवरपदम् अञ्चन् किञ्च पञ्चाशदब्दान्।
अभजदथ स सिद्धिं दुर्मुखिज्येष्ठषष्ठी-
निशि निशितशिवार्चानिष्ठितश्चन्द्रचूडः॥९७॥

५१. श्री विद्यातीर्थेन्द्र सरस्वती

बिल्वारण्यजशार्ङ्गपाणितनयः सर्वज्ञविष्णुः श्रयन्
सन्न्यासं गुरुचन्द्रशेखरमुनेरास्थाय पीठीं गुरोः
योगेशस्य च चक्रराजवसतेर्देव्याश्च सक्तोऽर्चने
श्रीमन्माधवबुक्कभारतियतिप्रष्ठैर्महिष्ठैर्वृतः॥९८॥

काञ्च्यामेव स सप्ततिं त्रिसहितां वर्षान् विभूष्यासनं
शिष्यानष्ट दिशागजायितयतीन् आदिश्य पीठावने।
यावत्पञ्चदशाब्दपूर्ति हिमवच्छृङ्गाश्रयः शङ्करा-
नन्दैकानुचरश्चचार परमं धीरस्तपो दुश्चरम्॥९९॥

तपस्यन्नेवासौ तरुणतरणेर्धाम्नि परमे
निलीनोऽन्तर्हित्या निमिषति च पार्श्वे परिचरे।
श्रितो रक्ताक्ष्यब्दे प्रतिपदि तपस्येष बहुले
श्वसन् शिष्योऽप्यार्त्या न्यवृतद् असदत् स्वं च स मठम्॥१००॥

अत्रान्तरेऽष्टापि यथानियोगम् आचार्यपीठीम् अविरोधमावुः।
तं शङ्करानन्दम् उदीक्ष्य हृष्टाः देष्टुर्मठं तं निरवीविशन्त॥१०१॥

५२. श्री शङ्करानन्देन्द्र सरस्वती

आदिश्याष्ट यमीश्वरान् समवितुं कर्णाटदेशेऽद्वयं
रोद्धुं सायणमाधवोक्तविधया वृद्धिं च मध्वाध्वनाम्।
विद्यातीर्थगुरोरसोढविरहोऽप्यावृत्य शीताचलात्
तस्योक्तेर्बिभराम्बभूव स धुरां श्रीकामकोटीमठे॥१०२॥

श्रीमध्यार्जुनभालचन्द्रमखिराट्सूनुर्महेशाह्वयो
विद्यातीर्थपदान्नियम्य समयेष्वद्वैतमुद्द्योतयन्।
अध्यास्त प्रतिकामकोटि शरदो द्वात्रिंशतं देहिनां
द्वैतध्वान्तनिवारणो नवमठीनाथो नवः शङ्करः॥१०३॥

स दुर्मुखिनि सन्मुखो मधुरवाङ्मधौ मौनिराट्
पदी प्रतिपदि प्रगे प्रसितधीः सिते पक्षके।
समस्तभुवनार्चितः सकृद् उमेशयन् अच्युतं
जहौ तनुमनुत्तमाम् अविशद् आशु नैजं महः॥१०४॥

५३. श्री पूर्णानन्द सदाशिवेन्द्र सरस्वती

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करा-
नन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं
श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥

पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥

५४. श्री व्यासाचल महादेवेन्द्र सरस्वती

काञ्चीकामेश्वरार्यात् समजनि कमलाम्बोदरात् कुप्पणाख्यो
यः पूर्णानन्दयोगिप्रवरपदरतेः प्राप पीठीम् अमुष्य।
भाष्यं त्रिः सप्तकृत्वश्चटुलम् अचकलद् यो नवाब्द्यां प्रहृष्यन्।
अक्षय्याषाढकृष्णप्रतिपदि स महादेवनामाऽऽप सिद्धिम्॥१०७॥

५५. श्री चन्द्रचूडेन्द्र सरस्वती

मधुरितमणिमुक्तामुग्धतीराश्मशाला-
पुरतिलकपुरारिश्रीमतीपुण्यपुञ्जम्।
अरुणगिरिरभार्षीद् अद्वयाचार्यमुद्रां
चतुरुदधिपटायां चन्द्रचूडेन्द्रनामा॥१०८॥

इत्थं मामनुशिष्य शिष्यकणिशं तांस्तान् समस्तांस्ततः
सन्दर्श्य क्षणतः स सिद्धिमसदद् वर्षान् षडेव स्थितः।
काञ्च्यामाङ्गिरसे सहस्यधवलैकादश्यहे प्रत्युष-
स्यापत् सिद्धिमनापदि प्रतिपदं सच्चित्सुखे ज्योतिषि॥१०९॥

॥ इति श्रीमत्परमहंस-परिव्राजकाचार्य-श्रीजगद्गुरु-श्रीकाञ्चीकामकोटि-पीठाधीश्वर-श्रीचन्द्रचूडेन्द्र-पूज्यपाद-शिष्य-षट्पञ्चाशत्-पीठेश्वर-श्रीसर्वज्ञसदाशिवबोधेन्द्र- श्रीचरण-विनिर्मिता पुण्यश्लोकमञ्जरी समाप्ता ॥

॥पुण्यश्लोकमञ्जरी – परिशिष्टम् – श्रीमदात्मबोधेन्द्रसरस्वतीविरचितः॥

५६. श्री सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती

अथोत्तरपिनाकिनीतटभवः स बोधेश्वरः
सुतश्चिरुतचिक्कणाध्वरिवरस्य भक्तो हरेः।
अभूत् किल जगद्गुरुर्नियमिचन्द्रचूडाज्ञया
सदाशिवपदावहश्चर(२६)समाः प्रवीरार्चितः॥१॥

स सेतुम् अधिजग्मिवान् अधिपवित्ररामेश्वरं
श्रितः पदम् अनश्वरं च प्रतिविलम्बिचैत्राष्टमि।
दधत्परमयुक्छिवं निजपदे प्रतिष्ठापितं
शिवाय बहुले नृणां सुबहुलाय पक्षे मुनिम्॥२॥

५७. श्री परमशिवेन्द्र सरस्वती २

पम्पासरस्तटभुवः परमेश्वरस्य
पुत्रः सदाशिवरतः शिवरामकृष्णः।
तस्मादवाप्य नियमं नियमी निरस्त-
सङ्गोऽध्युवास सदनं खलु कामनेत्र्याः॥३॥

श्रीचक्रपूजनरतः शिवयोगलम्बी
श्रीदेशिकेन्द्रवचसा श्रितकामपीठः।
आचार्यकं छवि(४७)समं विदधावकामः
कामेश्वरी-मनु-पुरश्चरणैकदक्षः॥४॥

स पार्थिवे पार्थिवदेहदूरं
नभो नभस्यच्छतमोऽच्छपक्षे।
अवापद् आपद्विधुरो दशम्यां
दशम्यसौ दीनशके (१५०८) शकाब्दे॥५॥

५८. श्री आत्मबोधेन्द्र सरस्वती

वृद्धाचलप्रभवविश्वमखीन्द्रसूनुर्-
विश्वेश्वरः परशिवार्यपदं प्रपन्नः।
आसेतुशीतगिरि कल्पितजैत्रयात्र
आद्यात् स शङ्करगुरोरतिहृद्य आसीत्॥६॥

विश्वाधिकस्वधिषणत्वत एनमाहुर्-
विश्वाधिकेन्द्रम् अनघा नवशङ्करं च।
श्रीरुद्रभाष्यमुखभूरितरप्रबन्ध-
सन्धानकौशलम् अमुष्य किमप्यमेयम्॥७॥

द्वापञ्चाशतम् उद्वहन् गुरुधुराम् अब्दानवाच्यां दिशि
प्रस्थाने गरुडापगातटभुवि प्रापत् पदं शाश्वतम्।
बोधेन्द्रार्यविसृष्टविष्टरधुरो विश्वाधिकेन्द्रस्तुला-
कृष्णाष्टम्यहनीश्वरे हृदि दधत् सोमार्धचूडामणिम्॥८॥

५९. श्री भगवन्नाम बोधेन्द्र सरस्वती

श्रीविश्वाधिकदेशिकेन्द्रवचसा प्राप्तो दिशं दक्षिणां
प्राचीनाम्बुधिरोधसि प्रतिजगन्नाथं प्रपन्नो गृहान्।
श्रीलक्ष्मीधरशर्मणोऽस्य तनुजान्म्लेच्छीकृतां योषितं
कुर्वाणाद्द्विजसङ्गतां स नियमादध्यैष्ट भक्तेः क्रमान्॥९॥

श्रीकाञ्चीमनुविश्य देशिकपदं सम्मण्ड्य तत्त्वोज्ज्वलैर्-
ग्रन्थैर्भक्तिपथं विधाय विशदं विश्वस्य मुक्त्यै कलौ।
मूकस्यापि शिशोर्महाप्रवचनप्रावीण्यदायी मुनिर-
बोधेन्द्रो जयतात् स भक्तजनताकल्लोलिनीनीरधिः॥१०॥

श्रीमन्मण्डननाम्नि काञ्चिनगरीखेटे कृतावासतः
काण्वात् केशवपाण्डुरङ्गविबुधाज्जातोऽभिजाताकृतिः।
भक्तः श्रीपुरुषोत्तमे श्रितवतां भक्त्यध्वदर्शी महान्
अध्यास्तासनम् आदिशङ्करगुरोरार्यात्मबोधाज्ञया॥११॥

आचार्यत्वम् उदूह्य साधु स चतुष्पञ्चाशदब्दं मठे
पीठे कामदृशः स्थितः प्रवचनैरद्वैतमुद्द्योतयन्।
अब्धि-ग्लौ-रस-चन्द्र-सम्मितशके (१६१४) श्रीशालिवाहाह्वये
सिद्धिं प्रापदपारधैर्यजलधिः स्वस्यैव धाम्न्यद्वये॥१२॥

प्रजोत्पत्तिप्रौष्ठपदपूर्णिमायाम् उपार्जुनम्।
भगवन्नामबोधेन्द्रो बोधसाम्राज्यम् ईयिवान्॥१३॥

६०. श्री अद्वैतात्मप्रकाशेन्द्र सरस्वती

अथ वसिष्ठनदीतटसम्भवः परशुरामसुतः श्रुतिपण्डितः।
अचकलद् गुरुराजधुरां गुरोर्वचनतो रचयन् परितोऽटनम्॥
आत्मप्रकाशेन्द्रसमाख्ययाऽसावाचार्यकं द्वादशवर्षम् आर्च्छत्।
गोविन्दनामा नियतः स्वभानुचैत्रद्वितीयानिशि सिद्धिमापत्॥१४॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीगोविन्दात्मप्रकाशेन्द्र-श्रीचरण-चरण-कमल-निषेवणावाप्त-भुवनगुरुपद-श्रीकाञ्ची-कामकोटि-पीठाधीश्वर-श्रीकुशस्थली श्रीमहादेवेन्द्रसरस्वती-श्रीचरण-शिष्य-श्रीमदात्मबोधेन्द्रविनिर्मितं पुण्यश्लोकमञ्जरी-परिशिष्टं समाप्तम् ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

६१. श्री महादेवेन्द्र सरस्वती ४

महादेवेन्द्राख्यो गुरुवर इहाचार्यपदवीं
समाश्चत्वारिंशद् द्विशरदधिका बिभ्रद् अतुलाम्।
महायोगी साक्षात्कृतपरमहाः क्रोधनसमे
तथा ज्येष्ठे शुक्ले नवमसुतिथौ सिद्धिम् अभजत्॥१॥

६२. श्री-चन्द्रशेखरेन्द्र सरस्वती ४

श्रीचन्द्रशेखरेन्द्रः सप्तत्रिंशत्समाः स्थितः पीठे।
शुभकृति पुष्ये कृष्णद्वितीयतिथ्याम् इयाय कैवल्यम्॥२॥

६३. श्री महादेवेन्द्र सरस्वती ५

महादेवेन्द्रगुरुराड् एकत्रिंशत्समाः स्थितः।
श्रीमुखाषाढमाश्शुक्लद्वादश्यां सिद्धिम् आस्थितः॥३॥

६४. श्री चन्द्रशेखरेन्द्र सरस्वती ५

श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलि-
स्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्ष-
स्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥४॥

६५. श्री सुदर्शन महादेवेन्द्र सरस्वती

पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥५॥

६६. श्री चन्द्रशेखरेन्द्र सरस्वती ६

श्रीचन्द्रशेखरगुरुः समाः सप्तदश स्थितः।
पराभवे माघकृष्णाष्टम्यां धाम निजं ययौ॥६॥

६७. श्री महादेवेन्द्र सरस्वती ५ गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥७॥

॥  पुण्यश्लोकमञ्जरीद्वितीयपरिशिष्टे प्रथमभागस्समाप्तः ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

अथ कथयामो जगद्गुरूणाम् अष्टानां षष्टेः परेषाम् ।
होय्सलकर्णाटकवंश्यानां यथोपलब्धं तिथिनामादि ॥ १ ॥
केचन तत्रासन् गोविन्दस्यान्वयजाता दीक्षितस्य ।
योऽभून्नायकराजां मन्त्री लोकक्षेमार्थकृतसुतन्त्री ॥ २ ॥
अद्वैताचार्यविख्यातिर्वेदशास्त्रकलागुरुः ।
सार्थयन् याज्ञवल्क्योक्तिं ‘गृहस्थोऽपि विमुच्यते’ ॥ ३ ॥
तस्य वासिष्ठगोत्रस्य पुत्रोऽभूद वेङ्कटमखी।
विख्यातः सुचतुर्दण्डिकाशिकाकरणाद् भुवि ॥ ४ ॥
प्रायेणास्य समे वंश्याः कुम्भघोणान्तिदेशगाः ।
अन्यतमो नु तत्राभूत् चतुष्षष्टो जगद्गुरुः ॥ ५ ॥
पुनश्चान्यस्तस्य वंश्यः शास्त्री नागेश्वरोऽभवत् ।
यस्य पुत्र्यौ सप्तषष्टस्याष्टषष्टस्य मातरौ ॥ ६ ॥
पञ्चषष्टगुरोर्माताऽप्येतद्वंश्येति कीर्त्यते ।
सर्वथा गुरुभिरऋद्धं कुलमतन्न संशयः ॥ ७ ॥

६१. श्री महादेवेन्द्र सरस्वती ४

अद्वैतात्मप्रकाशेन्द्राद् बाल्य आश्रितसंयमः।
नारायण आदिपुरे लिल्येऽनशनतत्परः॥८॥

६२. श्री-चन्द्रशेखरेन्द्र सरस्वती ४

संयत्सु विक्लवे लोके पीठम् आरूढवान् महान्।
इतिहासगर्भगूढनामधामादिपूर्वकः॥८॥

अनाम सर्वनामैतद् ब्रह्मेतीव प्रदर्शयन्।
जयत्यभयदश्चन्द्रशेखरेन्द्रो यतीश्वरः॥९॥

श्रीमठं कुम्भघोणं योऽनयन्नयविद् आत्मवान्।
तत्रैव संस्थितो यत्र मठोऽब्दद्विशतीं स्थितः॥१०॥

६३. श्री महादेवेन्द्र सरस्वती ५

अण्णाश्रौतीति जातोऽयं कुम्भघोणे महामनाः।
त्रिषष्टो देशिको लिल्ये स्वगुरोरेव सन्निधौ॥११॥

६४. श्री चन्द्रशेखरेन्द्र सरस्वती ५

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१२॥

६५. श्री सुदर्शन महादेवेन्द्र सरस्वती

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१३॥

उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१४॥

६६. श्री चन्द्रशेखरेन्द्र सरस्वती ६

सीतारामविचक्षणस्य तनयः श्रीस्वामिनाथाभिधो वर्णी
संयमवान् स जात उदयग्रामे प्रवक्ता पटु।
अद्वैतस्य सुरक्षणे विनिहितप्राज्यप्रयत्नो महान्
अद्वैतार्यमहामठे सुविहितः पूर्वेण तत्सूरिणा॥१५॥

६७. श्री महादेवेन्द्र सरस्वती ५

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥१६॥

त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥१७॥

कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥१८॥

गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ ॥१९॥

६८. श्री चन्द्रशेखरेन्द्र सरस्वती ७

शङ्करस्यावतारोऽभूदू अथ श्रीचन्द्रशेखरः ।
महास्वामीति विख्यातस्त्वष्टषष्टो जगद्गुरुः ॥ २० ॥
पञ्चोने वर्षसाहस्रपञ्चके विगते कलौ ।
सत्यं कर्तुम् इदं वाक्यं ‘सम्भवामि युगे युगे’ ॥ २१ ॥
जयवर्षे वृषे मासि मैत्रर्क्षे कृष्णपक्षके ।
प्रतिपत्तिथिमध्याह्ने भास्करे ज्ञानभास्करः ॥ २२ ॥
सुब्रह्मण्यमहालक्ष्मीदम्पत्योस्तपसः फलम् ।
हारीतान्वयभाग्यं सम्बभूवोत्कृष्टधामनि ॥ २३ ॥
पञ्चषष्टार्यतातस्यानुजो गणपतिः श्रुतः ।
तस्य पूर्वस्य चार्यस्य नित्यं सेवाधुरन्धरः ॥ २४ ॥
सङ्कटे श्रीमठं योऽसौ विदधारार्पिताशयः ।
फलं तस्य प्रदातुं स्वगुरुसेवार्पितात्मनः ॥ २५ ॥
तस्य पौत्रतया जातोऽखिललोकादिदेशिकः ।
शङ्करेत्यवतीर्णः प्राक् साम्प्रतं चन्द्रशेखरः ॥ २६ ॥
पूर्वाश्रमे स्वामिनाथनाम कौमारमास्थितः ।
बाल्यप्रकटतेजाः स वयस्यूनत्रयोदशे ॥ २७ ॥
रुजाऽपहृतदेहत्वे पूर्वयोर्गुरुनाथयोः ।
तयोश्चिरादभिप्रेतः परिव्रज्याम् उपेयिवान् ॥ २८ ॥
चन्द्रशेखरेति पुण्यनाम बिभ्रदाश्रमी गुरोः
कृपां ह केवलां स्वसाधनं प्रपन्नवान् ।
रामनाममात्रम् आद्यतारकं जपंस्तदा जगद्गुरोः
पदं महत् समारुरोह धर्मवान् ॥ २९ ॥
ततोऽञ्जसाऽखिला विद्याः समभ्यस्य विडम्बनात् ।
सर्वज्ञमूर्तिस्त्रिर्यात्रां भारतस्याचरत् पदा ॥ ३० ॥
स्वासुस्वासु च भाषासु सोद्दिश्य विविधान् जनान् ।
व्याहरन् हृदयाद्वाचं धर्ममेभ्योऽन्वबोधयत् ॥ ३१ ॥
प्रत्यक्षं दैवतं नात्र संशयोऽस्तीति सर्वतः ।
भक्तानाम् अनुरक्तानां सरीसरति वाणयः ॥ ३२॥
इत्थं लोकान् रञ्जयित्वा धर्मे चाकृष्य मार्दवात् ।
वेदोक्तं वर्षशतकं तस्थौ लोकानुकम्पया ॥ ३३ ॥
विनिवेश्य जयेन्द्राख्यं स्वशिष्यं विनयोज्ज्वलम् ।
पीठे स्वे कनकैस्तेन भक्तौघायेन चर्चितः ॥ ३४ ॥
काच्यां विदेहकैवल्यं प्रापद्यत मुनीश्वरः ।
श्रीमुखे मार्गकृष्णे च द्वादश्याम् अपराह्नके ॥ ३५ ॥