Menu

Sadguru Dashakam

॥ श्रीचन्द्रशेखरेन्द्रसरस्वती-श्रीचरण-विषये श्रीमच्छङ्करविजयेन्द्रसरस्वतीश्रीचरणैः विरचितं सद्गुरु-दशकम् ॥

श्रुति-स्मृति-पुराणोक्त-धर्म-मार्ग-रतं गुरुम् ।
भक्तानां हित-वक्तारं नमस्ये चित्त-शुद्धये ॥ १ ॥

अद्वैतानन्द-भरितं साधूनाम् उपकारिणम् ।
सर्व-शास्त्र-विदं शान्तं नमस्ये चित्त-शुद्धये ॥ २ ॥

कर्म-भक्ति-ज्ञान-मार्ग-प्रचारे बद्ध-कङ्कणम् ।
अनुग्रह-प्रदातारं नमस्ये चित्त-शुद्धये ॥ ३ ॥

भगवत्पाद-पादाब्ज-विनिवेशित-चेतस: ।
श्री-चन्द्रशेखर-गुरो: प्रसादो मयि जायताम् ॥ ४ ॥

क्षेत्र-तीर्थ-कथाभिज्ञ: सच्चिदानन्द-विग्रह: ।
चन्द्रशेखर-वर्यो मे सन्निधत्तां सदा हृदि ॥ ५ ॥

पोषणे वेद-शास्त्राणां दत्त-चित्तमहर्-निशम् ।
क्षेत्र-यात्रा-रतं वन्दे सद्-गुरुं चन्द्रशेखरम् ॥ ६ ॥

वेद-ज्ञान् वेदभाष्य-ज्ञान् कर्तुं यस्य समुद्यम: ।
गुरुर्यस्य महादेव: तं वन्दे चन्द्रशेखरम् ॥ ७ ॥

मणिवाचक-गोदादि-भक्ति-वागमृतैर्-भृशम् ।
बालानां भगवद्-भक्तिं वर्धयन्तं गुरुं भजे ॥ ८ ॥

लघूपदेशैर्-नास्तिक्य-भाव-मर्दन-कोविदम् ।
शिवं स्मित-मुखं शान्तं प्रणतोऽस्मि जगद्-गुरुम् ॥ ९ ॥

विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो ।
मार्गमन्यं न जानेऽहं भवन्तं शरणं गत: ॥ १० ॥

॥ श्रीचन्द्रशेखरेन्द्रसरस्वती-श्रीचरण-विषये श्रीमच्छङ्करविजयेन्द्रसरस्वतीश्रीचरणैः विरचितं सद्गुरु-दशकम् ॥