Menu

भगवत्पाद-कृतं सुब्रह्मण्य-भुजङ्गम्

सदा बाल-रूपाऽपि विघ्ना·द्रि-हन्त्री
महा-दन्ति-वक्त्राऽपि पञ्चा·स्य-मान्या
विधी·न्द्रा·दि-मृग्या गणेशा·भिधा मे
विधत्तां श्रियं काऽपि कल्याण-मूर्तिः ॥ १ ॥

न जानामि शब्दं न जानामि चा·र्थं
न जानामि पद्यं न जानामि गद्यम्
चि·देका ष·डास्या हृदि द्योतते मे
मुखा·न्निस्सरन्ते गिर·श्चा·पि चित्रम् ॥ २ ॥

मयूरा·धिरूढं महा-वाक्य-गूढं
मनो·हारि-देहं मह·च्चित्त-गेहम्
मही-देव-देवं महा-वेद-भावं
महा-देव-बालं भजे लोक-पालम् ॥ ३ ॥

यदा सन्निधानं गता मानवा मे
भवा·म्भो·धि-पारं गता·स्ते तदै·व
इति व्यञ्जयन् सिन्धु-तीरे य आस्ते
त·मीडे पवित्रं परा-शक्ति-पुत्रम् ॥ ४ ॥

यथाऽब्धे·स्तरङ्गा लयं यान्ति तुङ्गा·
स्तथै·वा·पदः सन्निधौ सेवतां मे
इती·वो·र्मि-पङ्क्ती·र्नृणां दर्शयन्तं
सदा भावये हृत्-सरोजे गुहं तम् ॥ ५ ॥

गिरौ म·न्निवासे नरा येऽधिरूढा·
स्तदा पर्वते राजते तेऽधिरूढाः
इती·व ब्रुवन् गन्ध-शैला·धिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥

महा·म्भो-धि-तीरे महा-पाप-चोरे
मुनी·न्द्रा-नुकूले सु-गन्धा·ख्य-शैले
गुहायां वसन्तं स्व-भासा लसन्तं
जना·र्तिं हरन्तं श्रयामो गुहं तम् ॥ ७ ॥

लसत्-स्वर्ण-गेहे नृणां काम-दोहे
सुम-स्तोम-सञ्छन्न-माणिक्य-मञ्चे
समुद्यत्-सहस्रा·र्क-तुल्य-प्रकाशं
सदा भावये कार्त्तिकेयं सुरे·शम् ॥ ८ ॥

रण·द्धंसके मञ्जुलेऽत्यन्त-शोणे
मनो-हारि-लावण्य-पीयूष-पूर्णे
मनः-षट्-पदो मे भव-क्लेश-तप्तः
सदा मोदतां स्कन्द ते पाद-पद्मे ॥ ९ ॥

सुवर्णा·भ-दिव्या·म्बरै·र्भासमानां
क्वणत्-किङ्किणी-मेखला-शोभमानाम्
लस·द्धेम-पट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम् ॥ १० ॥

पुलिन्दे·श-कन्या-घना·भोग-तुङ्ग-
स्तना·लिङ्गना·सक्त-काश्मीर-रागम्
नमस्या·म्यहं तारका·रे तवो·रः
स्व-भक्ता·वने सर्वदा सा·नुरागम् ॥ ११ ॥

विधौ कॢप्त-दण्डान् स्व-लीला-धृता·ण्डान्
निरस्ते·भ-शुण्डान् द्विषत्-काल-दण्डान्
हते·न्द्रा·रि-षण्डा·ञ्जगत्-त्राण-शौण्डान्
सदा ते प्रचण्डान् श्रये बाहु-दण्डान् ॥ १२ ॥

सदा शारदाः ष·ण्मृगा·ङ्का यदि स्युः
समुद्यन्त एव स्थिता·श्चेत् समन्तात्
सदा पूर्ण-बिम्बाः कलङ्कै·श्च हीना·
स्तदा त्व·न्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥

स्फुर·न्मन्द-हासैः स-हंसानि चञ्चत्-
कटाक्षा·वली-भृङ्ग-सङ्घो·ज्ज्वलानि
सुधा-स्यन्दि-बिम्बा·धराणी·श-सूनो
तवा·लोकये ष·ण्मुखा·म्भोरुहाणि ॥ १४ ॥

विशालेषु कर्णा·न्त-दीर्घे·ष्वजस्रं
दया-स्यन्दिषु द्वादश·स्वीक्षणेषु
मयी·षत् कटाक्षः सकृत् पातित·श्चेद्
भवेत् ते दया-शील का नाम हानिः ॥ १५ ॥

सुता·ङ्गो·द्भवो मेऽसि जीवे·ति षड्धा
जपन् मन्त्र·मीशो मुदा जिघ्रते यान्
जगद्-भार-भृद्भ्यो जग·न्नाथ तेभ्यः
किरीटो·ज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ १६ ॥

स्फुरद्-रत्न-केयूर-हारा·भिराम·
श्चलत्-कुण्डल-श्री-लसद्-गण्ड-भागः
कटौ पीत-वासाः करे चारु-शक्तिः
पुरस्ता·न्ममा·स्तां पुरा·रे·स्तनूजः ॥ १७ ॥

इहा·याहि वत्से·ति हस्तान् प्रसार्या·
ह्वय·त्यादरा·च्छङ्करे मातु·रङ्कात्
समुत्पत्य तातं श्रयन्तं कुमारं
हरा·श्लिष्ट-गात्रं भजे बाल-मूर्तिम् ॥ १८ ॥

कुमारे·श-सूनो गुह स्कन्द सेना-
पते शक्ति-पाणे मयूरा·धिरूढ
पुलिन्दा·त्मजा-कान्त भक्ता·र्ति-हारिन्
प्रभो तारका·रे सदा रक्ष मां त्वम् ॥ १९ ॥

प्रशान्ते·न्द्रिये नष्ट-संज्ञे वि-चेष्टे
कफो·द्गारि-वक्त्रे भयो·त्कम्पि-गात्रे
प्रयाणो·न्मुखे म·य्यनाथे तदानीं
द्रुतं मे दयालो भवा·ग्रे गुह त्वम् ॥ २० ॥

कृतान्तस्य दूतेषु चण्डेषु कोपाद्
दह च्छिन्धि भिन्धी·ति मां तर्जयत्सु
मयूरं समारुह्य मा भै·रिति त्वं
पुरः शक्ति-पाणि·र्ममा·याहि शीघ्रम् ॥ २१ ॥

प्रणम्या·सकृत् पादयो·स्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेक-वारम्
न वक्तुं क्षमोऽहं तदानीं कृपा·ब्धे
न कार्याऽन्त-काले मना·ग·प्युपेक्षा ॥ २२ ॥

सहस्रा·ण्ड-भोक्ता त्वया शूर-नामा
हत·स्तारकः सिंह-वक्त्र·श्च दैत्यः
ममा·न्त·र्हृदि-स्थं मनः-क्लेश·मेकं
न हंसि प्रभो किं करोमि क्व यामि ॥ २३ ॥

अहं सर्वदा दुःख-भारा·वसन्नो
भवान् दीन-बन्धु·स्त्व·दन्यं न याचे
भवद्-भक्ति-रोधं सदा कॢप्त-बाधं
ममा·धिं द्रुतं नाशयो·मा-सुत त्वम् ॥ २४ ॥

अपस्मार-कुष्ठ-क्षया·र्शः-प्रमेह-
ज्वरो·न्माद-गुल्मा·दि-रोगा महान्तः
पिशाचा·श्च सर्वे भवत्-पत्र-भूतिं
विलोक्य क्षणात् तारका·रे द्रवन्ते ॥ २५ ॥

दृशि स्कन्द-मूर्तिः श्रुतौ स्कन्द-कीर्ति·
र्मुखे मे पवित्रं सदा त·च्चरित्रम्
करे तस्य कृत्यं वपु·स्तस्य भृत्यं
गुहे सन्तु लीना ममा·शेष-भावाः ॥ २६ ॥

मुनीना·मुताहो नृणां भक्ति-भाजा·
मभीष्ट-प्रदाः सन्ति सर्वत्र देवाः
नृणा·मन्त्य-जाना·मपि स्वा·र्थ-दाने
गुहाद् देव·मन्यं न जाने न जाने ॥ २७ ॥

कलत्रं सुता बन्धु-वर्गः पशु·र्वा
नरो वाऽथ नारी गृहे ये मदीयाः
यजन्तो नमन्तः स्तुवन्तो भवन्तं
स्मरन्त·श्च ते सन्तु सर्वे कुमार ॥ २८ ॥

मृगाः पक्षिणो दंशका ये च दुष्टा·
स्तथा व्याधयो बाधका ये म·दङ्गे
भव·च्छक्ति-तीक्ष्णा·ग्र-भिन्नाः सु-दूरे
विनश्यन्तु ते चूर्णित-क्रौञ्च-शैल ॥ २९ ॥

जनित्री पिता च स्व-पुत्रा·पराधं
सहेते न किं देव-सेना·धि-नाथ
अहं चा·ति-बालो भवा·ल्ँलोक-तातः
क्षमस्वा·पराधं समस्तं महे·श ॥ ३० ॥

नमः केकिने शक्तये चा·पि तुभ्यं
नम·श्छाग तुभ्यं नमः कुक्कुटाय
नमः सिन्धवे सिन्धु-देशाय तुभ्यं
पुनः स्कन्द-मूर्ते नम·स्ते नमोऽस्तु ॥ ३१ ॥

जया·नन्द-भूमन् जया·पार-धामन्
जया·मोघ-कीर्ते जया·नन्द-मूर्ते
जया·नन्द-सिन्धो जया·शेष-बन्धो
जय त्वं सदा मुक्ति-दाने·श-सूनो ॥ ३२ ॥

भुजङ्गा·ख्य-वृत्तेन कॢप्तं स्तवं यः
पठेद् भक्ति-युक्तो गुहं सम्प्रणम्य
स पुत्रान् कलत्रं धनं दीर्घ·मायु·
र्लभेत् स्कन्द-सायुज्य·मन्ते नरः सः ॥ ३३ ॥

॥ इति श्रीमद्-गोविन्द-भगवत्पाद-शिष्य-श्रीमत्-शङ्कर-भगवत्पाद-विरचितं सुब्रह्मण्य-भुजङ्गं सम्पूर्णम् ॥